Sūkta 163
- Devatā देवता
- Aśvamedha
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (1, 6, 7, 13); bhurikpaṅkti (4, 10, 12); nicṛttriṣṭup (5, 9, 11); virāṭtrisṭup (3, 8); bhuriktriṣṭup (2)
2nd set of styles triṣṭubh
-
Ṛk 1
यदक्रं॑दः प्रथ॒मं जाय॑मान उ॒द्यन्त्स॑मु॒द्रादु॒त वा॒ पुरी॑षात् ।
श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उ॑प॒स्तुत्यं॒ महि॑ जा॒तं ते॑ अर्वन् ॥यद् अक्रन्दः प्रथमं जायमान उद्यन् समुद्राद् उत वा पुरीषात् |
श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यम् महि जातं ते अर्वन् ||yádákrandaḥ prathamám jā́yamāna udyántsamudrā́dutá vā púrīṣāt ǀ
śyenásya pakṣā́ hariṇásya bāhū́ upastútyam máhi jātám te arvan ǁyad akrandaḥ prathamaṃ jāyamāna udyan samudrād uta vā purīṣāt |
śyenasya pakṣā hariṇasya bāhū upastutyam mahi jātaṃ te arvan ||यत् । अक्र॑न्दः । प्र॒थ॒मम् । जाय॑मानः । उ॒त्ऽयन् । स॒मु॒द्रात् । उ॒त । वा॒ । पुरी॑षात् ।
श्ये॒नस्य॑ । प॒क्षा । ह॒रि॒णस्य॑ । बा॒हू इति॑ । उ॒प॒ऽस्तुत्य॑म् । महि॑ । जा॒तम् । ते॒ । अ॒र्व॒न् ॥यत् । अक्रन्दः । प्रथमम् । जायमानः । उत्ऽयन् । समुद्रात् । उत । वा । पुरीषात् ।
श्येनस्य । पक्षा । हरिणस्य । बाहू इति । उपऽस्तुत्यम् । महि । जातम् । ते । अर्वन् ॥yát ǀ ákrandaḥ ǀ prathamám ǀ jā́yamānaḥ ǀ ut-yán ǀ samudrā́t ǀ utá ǀ vā ǀ púrīṣāt ǀ
śyenásya ǀ pakṣā́ ǀ hariṇásya ǀ bāhū́ íti ǀ upa-stútyam ǀ máhi ǀ jātám ǀ te ǀ arvan ǁyat ǀ akrandaḥ ǀ prathamam ǀ jāyamānaḥ ǀ ut-yan ǀ samudrāt ǀ uta ǀ vā ǀ purīṣāt ǀ
śyenasya ǀ pakṣā ǀ hariṇasya ǀ bāhū iti ǀ upa-stutyam ǀ mahi ǀ jātam ǀ te ǀ arvan ǁ1.163.1 Aṣṭaka 2.3.11.1Anuvāka 1.22.59
-
Ṛk 2
य॒मेन॑ द॒त्तं त्रि॒त ए॑नमायुन॒गिंद्र॑ एणं प्रथ॒मो अध्य॑तिष्ठत् ।
गं॒ध॒र्वो अ॑स्य रश॒नाम॑गृभ्णा॒त्सूरा॒दश्वं॑ वसवो॒ निर॑तष्ट ॥यमेन दत्तं त्रित एनम् आयुनग् इन्द्र एणम् प्रथमो अध्य् अतिष्ठत् |
गन्धर्वो अस्य रशनाम् अगृभ्णात् सूराद् अश्वं वसवो निर् अतष्ट ||yaména dattám tritá enamāyunagíndra eṇam prathamó ádhyatiṣṭhat ǀ
gandharvó asya raśanā́magṛbhṇātsū́rādáśvam vasavo nírataṣṭa ǁyamena dattaṃ trita enam āyunag indra eṇam prathamo adhy atiṣṭhat |
gandharvo asya raśanām agṛbhṇāt sūrād aśvaṃ vasavo nir ataṣṭa ||य॒मेन॑ । द॒त्तम् । त्रि॒तः । ए॒न॒म् । अ॒यु॒न॒क् । इन्द्रः॑ । ए॒न॒म् । प्र॒थ॒मः । अधि॑ । अ॒ति॒ष्ठ॒त् ।
ग॒न्ध॒र्वः । अ॒स्य॒ । र॒श॒नाम् । अ॒गृ॒भ्णा॒त् । सूरा॑त् । अश्व॑म् । व॒स॒वः॒ । निः । अ॒त॒ष्ट॒ ॥यमेन । दत्तम् । त्रितः । एनम् । अयुनक् । इन्द्रः । एनम् । प्रथमः । अधि । अतिष्ठत् ।
गन्धर्वः । अस्य । रशनाम् । अगृभ्णात् । सूरात् । अश्वम् । वसवः । निः । अतष्ट ॥yaména ǀ dattám ǀ tritáḥ ǀ enam ǀ ayunak ǀ índraḥ ǀ enam ǀ prathamáḥ ǀ ádhi ǀ atiṣṭhat ǀ
gandharváḥ ǀ asya ǀ raśanā́m ǀ agṛbhṇāt ǀ sū́rāt ǀ áśvam ǀ vasavaḥ ǀ níḥ ǀ ataṣṭa ǁyamena ǀ dattam ǀ tritaḥ ǀ enam ǀ ayunak ǀ indraḥ ǀ enam ǀ prathamaḥ ǀ adhi ǀ atiṣṭhat ǀ
gandharvaḥ ǀ asya ǀ raśanām ǀ agṛbhṇāt ǀ sūrāt ǀ aśvam ǀ vasavaḥ ǀ niḥ ǀ ataṣṭa ǁ1.163.2 Aṣṭaka 2.3.11.2Anuvāka 1.22.60
-
Ṛk 3
असि॑ य॒मो अस्या॑दि॒त्यो अ॑र्व॒न्नसि॑ त्रि॒तो गुह्ये॑न व्र॒तेन॑ ।
असि॒ सोमे॑न स॒मया॒ विपृ॑क्त आ॒हुस्ते॒ त्रीणि॑ दि॒वि बंध॑नानि ॥असि यमो अस्य् आदित्यो अर्वन्न् असि त्रितो गुह्येन व्रतेन |
असि सोमेन समया विपृक्त आहुस् ते त्रीणि दिवि बन्धनानि ||ási yamó ásyādityó arvannási tritó gúhyena vraténa ǀ
ási sómena samáyā vípṛkta āhúste trī́ṇi diví bándhanāni ǁasi yamo asy ādityo arvann asi trito guhyena vratena |
asi somena samayā vipṛkta āhus te trīṇi divi bandhanāni ||असि॑ । य॒मः । असि॑ । आ॒दि॒त्यः । अ॒र्व॒न् । असि॑ । त्रि॒तः । गुह्ये॑न । व्र॒तेन॑ ।
असि॑ । सोमे॑न । स॒मया॑ । विऽपृ॑क्तः । आ॒हुः । ते॒ । त्रीणि॑ । दि॒वि । बन्ध॑नानि ॥असि । यमः । असि । आदित्यः । अर्वन् । असि । त्रितः । गुह्येन । व्रतेन ।
असि । सोमेन । समया । विऽपृक्तः । आहुः । ते । त्रीणि । दिवि । बन्धनानि ॥ási ǀ yamáḥ ǀ ási ǀ ādityáḥ ǀ arvan ǀ ási ǀ tritáḥ ǀ gúhyena ǀ vraténa ǀ
ási ǀ sómena ǀ samáyā ǀ ví-pṛktaḥ ǀ āhúḥ ǀ te ǀ trī́ṇi ǀ diví ǀ bándhanāni ǁasi ǀ yamaḥ ǀ asi ǀ ādityaḥ ǀ arvan ǀ asi ǀ tritaḥ ǀ guhyena ǀ vratena ǀ
asi ǀ somena ǀ samayā ǀ vi-pṛktaḥ ǀ āhuḥ ǀ te ǀ trīṇi ǀ divi ǀ bandhanāni ǁ1.163.3 Aṣṭaka 2.3.11.3Anuvāka 1.22.61
-
Ṛk 4
त्रीणि॑ त आहुर्दि॒वि बंध॑नानि॒ त्रीण्य॒प्सु त्रीण्यं॒तः स॑मु॒द्रे ।
उ॒तेव॑ मे॒ वरु॑णश्छंत्स्यर्व॒न्यत्रा॑ त आ॒हुः प॑र॒मं ज॒नित्रं॑ ॥त्रीणि त आहुर् दिवि बन्धनानि त्रीण्य् अप्सु त्रीण्य् अन्तः समुद्रे |
उतेव मे वरुणश् छन्त्स्य् अर्वन् यत्रा त आहुः परमं जनित्रम् ||trī́ṇi ta āhurdiví bándhanāni trī́ṇyapsú trī́ṇyantáḥ samudré ǀ
utéva me váruṇaśchantsyarvanyátrā ta āhúḥ paramám janítram ǁtrīṇi ta āhur divi bandhanāni trīṇy apsu trīṇy antaḥ samudre |
uteva me varuṇaś chantsy arvan yatrā ta āhuḥ paramaṃ janitram ||त्रीणि॑ । ते॒ । आ॒हुः॒ । दि॒वि । बन्ध॑नानि । त्रीणि॑ । अ॒प्ऽसु । त्रीणि॑ । अ॒न्तरिति॑ । स॒मु॒द्रे ।
उ॒तऽइ॑व । मे॒ । वरु॑णः । छ॒न्त्सि॒ । अ॒र्व॒न् । यत्र॑ । ते॒ । आ॒हुः । प॒र॒मम् । ज॒नित्र॑म् ॥त्रीणि । ते । आहुः । दिवि । बन्धनानि । त्रीणि । अप्ऽसु । त्रीणि । अन्तरिति । समुद्रे ।
उतऽइव । मे । वरुणः । छन्त्सि । अर्वन् । यत्र । ते । आहुः । परमम् । जनित्रम् ॥trī́ṇi ǀ te ǀ āhuḥ ǀ diví ǀ bándhanāni ǀ trī́ṇi ǀ ap-sú ǀ trī́ṇi ǀ antáríti ǀ samudré ǀ
utá-iva ǀ me ǀ váruṇaḥ ǀ chantsi ǀ arvan ǀ yátra ǀ te ǀ āhúḥ ǀ paramám ǀ janítram ǁtrīṇi ǀ te ǀ āhuḥ ǀ divi ǀ bandhanāni ǀ trīṇi ǀ ap-su ǀ trīṇi ǀ antariti ǀ samudre ǀ
uta-iva ǀ me ǀ varuṇaḥ ǀ chantsi ǀ arvan ǀ yatra ǀ te ǀ āhuḥ ǀ paramam ǀ janitram ǁ1.163.4 Aṣṭaka 2.3.11.4Anuvāka 1.22.62
-
Ṛk 5
इ॒मा ते॑ वाजिन्नव॒मार्ज॑नानी॒मा श॒फानां॑ सनि॒तुर्नि॒धाना॑ ।
अत्रा॑ ते भ॒द्रा र॑श॒ना अ॑पश्यमृ॒तस्य॒ या अ॑भि॒रक्षं॑ति गो॒पाः ॥इमा ते वाजिन्न् अवमार्जनानीमा शफानां सनितुर् निधाना |
अत्रा ते भद्रा रशना अपश्यम् ऋतस्य या अभिरक्षन्ति गोपाः ||imā́ te vājinnavamā́rjanānīmā́ śaphā́nām sanitúrnidhā́nā ǀ
átrā te bhadrā́ raśanā́ apaśyamṛtásya yā́ abhirákṣanti gopā́ḥ ǁimā te vājinn avamārjanānīmā śaphānāṃ sanitur nidhānā |
atrā te bhadrā raśanā apaśyam ṛtasya yā abhirakṣanti gopāḥ ||इ॒मा । ते॒ । वा॒जि॒न् । अ॒व॒ऽमार्ज॑नानि । इ॒मा । श॒फाना॑म् । स॒नि॒तुः । नि॒ऽधाना॑ ।
अत्र॑ । ते॒ । भ॒द्राः । र॒श॒नाः । अ॒प॒श्य॒म् । ऋ॒तस्य॑ । याः । अ॒भि॒ऽरक्ष॑न्ति । गो॒पाः ॥इमा । ते । वाजिन् । अवऽमार्जनानि । इमा । शफानाम् । सनितुः । निऽधाना ।
अत्र । ते । भद्राः । रशनाः । अपश्यम् । ऋतस्य । याः । अभिऽरक्षन्ति । गोपाः ॥imā́ ǀ te ǀ vājin ǀ ava-mā́rjanāni ǀ imā́ ǀ śaphā́nām ǀ sanitúḥ ǀ ni-dhā́nā ǀ
átra ǀ te ǀ bhadrā́ḥ ǀ raśanā́ḥ ǀ apaśyam ǀ ṛtásya ǀ yā́ḥ ǀ abhi-rákṣanti ǀ gopā́ḥ ǁimā ǀ te ǀ vājin ǀ ava-mārjanāni ǀ imā ǀ śaphānām ǀ sanituḥ ǀ ni-dhānā ǀ
atra ǀ te ǀ bhadrāḥ ǀ raśanāḥ ǀ apaśyam ǀ ṛtasya ǀ yāḥ ǀ abhi-rakṣanti ǀ gopāḥ ǁ1.163.5 Aṣṭaka 2.3.11.5Anuvāka 1.22.63
-
Ṛk 6
आ॒त्मानं॑ ते॒ मन॑सा॒राद॑जानाम॒वो दि॒वा प॒तयं॑तं पतं॒गं ।
शिरो॑ अपश्यं प॒थिभिः॑ सु॒गेभि॑ररे॒णुभि॒र्जेह॑मानं पत॒त्रि ॥आत्मानं ते मनसाराद् अजानाम् अवो दिवा पतयन्तम् पतङ्गम् |
शिरो अपश्यम् पथिभिः सुगेभिर् अरेणुभिर् जेहमानम् पतत्रि ||ātmā́nam te mánasārā́dajānāmavó divā́ patáyantam pataṃgám ǀ
śíro apaśyam pathíbhiḥ sugébhirareṇúbhirjéhamānam patatrí ǁātmānaṃ te manasārād ajānām avo divā patayantam pataṅgam |
śiro apaśyam pathibhiḥ sugebhir areṇubhir jehamānam patatri ||आ॒त्मान॑म् । ते॒ । मन॑सा । आ॒रात् । अ॒जा॒ना॒म् । अ॒वः । दि॒वा । प॒तय॑न्तम् । प॒त॒ङ्गम् ।
शिरः॑ । अ॒प॒श्य॒म् । प॒थिऽभिः॑ । सु॒ऽगेभिः॑ । अ॒रे॒णुऽभिः॑ । जेह॑मानम् । प॒त॒त्रि ॥आत्मानम् । ते । मनसा । आरात् । अजानाम् । अवः । दिवा । पतयन्तम् । पतङ्गम् ।
शिरः । अपश्यम् । पथिऽभिः । सुऽगेभिः । अरेणुऽभिः । जेहमानम् । पतत्रि ॥ātmā́nam ǀ te ǀ mánasā ǀ ārā́t ǀ ajānām ǀ aváḥ ǀ divā́ ǀ patáyantam ǀ pataṅgám ǀ
śíraḥ ǀ apaśyam ǀ pathí-bhiḥ ǀ su-gébhiḥ ǀ areṇú-bhiḥ ǀ jéhamānam ǀ patatrí ǁātmānam ǀ te ǀ manasā ǀ ārāt ǀ ajānām ǀ avaḥ ǀ divā ǀ patayantam ǀ pataṅgam ǀ
śiraḥ ǀ apaśyam ǀ pathi-bhiḥ ǀ su-gebhiḥ ǀ areṇu-bhiḥ ǀ jehamānam ǀ patatri ǁ1.163.6 Aṣṭaka 2.3.12.1Anuvāka 1.22.64
-
Ṛk 7
अत्रा॑ ते रू॒पमु॑त्त॒मम॑पश्यं॒ जिगी॑षमाणमि॒ष आ प॒दे गोः ।
य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒ळादिद्ग्रसि॑ष्ठ॒ ओष॑धीरजीगः ॥अत्रा ते रूपम् उत्तमम् अपश्यं जिगीषमाणम् इष आ पदे गोः |
यदा ते मर्तो अनु भोगम् आनऌ आद् इद् ग्रसिष्ठ ओषधीर् अजीगः ||átrā te rūpámuttamámapaśyam jígīṣamāṇamiṣá ā́ padé góḥ ǀ
yadā́ te márto ánu bhógamā́naḷā́dídgrásiṣṭha óṣadhīrajīgaḥ ǁatrā te rūpam uttamam apaśyaṃ jigīṣamāṇam iṣa ā pade goḥ |
yadā te marto anu bhogam ānaḷ ād id grasiṣṭha oṣadhīr ajīgaḥ ||अत्र॑ । ते॒ । रू॒पम् । उ॒त्ऽत॒मम् । अ॒प॒श्य॒म् । जिगी॑षमाणम् । इ॒षः । आ । प॒दे । गोः ।
य॒दा । ते॒ । मर्तः॑ । अनु॑ । भोग॑म् । आन॑ट् । आत् । इत् । ग्रसि॑ष्ठः । ओष॑धीः । अ॒जी॒ग॒रिति॑ ॥अत्र । ते । रूपम् । उत्ऽतमम् । अपश्यम् । जिगीषमाणम् । इषः । आ । पदे । गोः ।
यदा । ते । मर्तः । अनु । भोगम् । आनट् । आत् । इत् । ग्रसिष्ठः । ओषधीः । अजीगरिति ॥átra ǀ te ǀ rūpám ǀ ut-tamám ǀ apaśyam ǀ jígīṣamāṇam ǀ iṣáḥ ǀ ā́ ǀ padé ǀ góḥ ǀ
yadā́ ǀ te ǀ mártaḥ ǀ ánu ǀ bhógam ǀ ā́naṭ ǀ ā́t ǀ ít ǀ grásiṣṭhaḥ ǀ óṣadhīḥ ǀ ajīgaríti ǁatra ǀ te ǀ rūpam ǀ ut-tamam ǀ apaśyam ǀ jigīṣamāṇam ǀ iṣaḥ ǀ ā ǀ pade ǀ goḥ ǀ
yadā ǀ te ǀ martaḥ ǀ anu ǀ bhogam ǀ ānaṭ ǀ āt ǀ it ǀ grasiṣṭhaḥ ǀ oṣadhīḥ ǀ ajīgariti ǁ1.163.7 Aṣṭaka 2.3.12.2Anuvāka 1.22.65
-
Ṛk 8
अनु॑ त्वा॒ रथो॒ अनु॒ मर्यो॑ अर्व॒न्ननु॒ गावोऽनु॒ भगः॑ क॒नीनां॑ ।
अनु॒ व्राता॑स॒स्तव॑ स॒ख्यमी॑यु॒रनु॑ दे॒वा म॑मिरे वी॒र्यं॑ ते ॥अनु त्वा रथो अनु मर्यो अर्वन्न् अनु गावो ऽनु भगः कनीनाम् |
अनु व्रातासस् तव सख्यम् ईयुर् अनु देवा ममिरे वीर्यं ते ||ánu tvā rátho ánu máryo arvannánu gā́vó’nu bhágaḥ kanī́nām ǀ
ánu vrā́tāsastáva sakhyámīyuránu devā́ mamire vīryám te ǁanu tvā ratho anu maryo arvann anu gāvo 'nu bhagaḥ kanīnām |
anu vrātāsas tava sakhyam īyur anu devā mamire vīryaṃ te ||अनु॑ । त्वा॒ । रथः॑ । अनु॑ । मर्यः॑ । अ॒र्व॒न् । अनु॑ । गावः॑ । अनु॑ । भगः॑ । क॒नीना॑म् ।
अनु॑ । व्राता॑सः । तव॑ । स॒ख्यम् । ई॒युः॒ । अनु॑ । दे॒वाः । म॒मि॒रे॒ । वी॒र्य॑म् । ते॒ ॥अनु । त्वा । रथः । अनु । मर्यः । अर्वन् । अनु । गावः । अनु । भगः । कनीनाम् ।
अनु । व्रातासः । तव । सख्यम् । ईयुः । अनु । देवाः । ममिरे । वीर्यम् । ते ॥ánu ǀ tvā ǀ ráthaḥ ǀ ánu ǀ máryaḥ ǀ arvan ǀ ánu ǀ gā́vaḥ ǀ ánu ǀ bhágaḥ ǀ kanī́nām ǀ
ánu ǀ vrā́tāsaḥ ǀ táva ǀ sakhyám ǀ īyuḥ ǀ ánu ǀ devā́ḥ ǀ mamire ǀ vīryám ǀ te ǁanu ǀ tvā ǀ rathaḥ ǀ anu ǀ maryaḥ ǀ arvan ǀ anu ǀ gāvaḥ ǀ anu ǀ bhagaḥ ǀ kanīnām ǀ
anu ǀ vrātāsaḥ ǀ tava ǀ sakhyam ǀ īyuḥ ǀ anu ǀ devāḥ ǀ mamire ǀ vīryam ǀ te ǁ1.163.8 Aṣṭaka 2.3.12.3Anuvāka 1.22.66
-
Ṛk 9
हिर॑ण्यशृं॒गोऽयो॑ अस्य॒ पादा॒ मनो॑जवा॒ अव॑र॒ इंद्र॑ आसीत् ।
दे॒वा इद॑स्य हवि॒रद्य॑माय॒न्यो अर्वं॑तं प्रथ॒मो अ॒ध्यति॑ष्ठत् ॥हिरण्यशृङ्गो ऽयो अस्य पादा मनोजवा अवर इन्द्र आसीत् |
देवा इद् अस्य हविरद्यम् आयन् यो अर्वन्तम् प्रथमो अध्यतिष्ठत् ||híraṇyaśṛṅgó’yo asya pā́dā mánojavā ávara índra āsīt ǀ
devā́ ídasya havirádyamāyanyó árvantam prathamó adhyátiṣṭhat ǁhiraṇyaśṛṅgo 'yo asya pādā manojavā avara indra āsīt |
devā id asya haviradyam āyan yo arvantam prathamo adhyatiṣṭhat ||हिर॑ण्यऽशृङ्गः । अयः॑ । अ॒स्य॒ । पादाः॑ । मनः॑ऽजवाः । अव॑रः । इन्द्रः॑ । आ॒सी॒त् ।
दे॒वाः । इत् । अ॒स्य॒ । ह॒विः॒ऽअद्य॑म् । आ॒य॒न् । यः । अर्व॑न्तम् । प्र॒थ॒मः । अ॒धि॒ऽअति॑ष्ठत् ॥हिरण्यऽशृङ्गः । अयः । अस्य । पादाः । मनःऽजवाः । अवरः । इन्द्रः । आसीत् ।
देवाः । इत् । अस्य । हविःऽअद्यम् । आयन् । यः । अर्वन्तम् । प्रथमः । अधिऽअतिष्ठत् ॥híraṇya-śṛṅgaḥ ǀ áyaḥ ǀ asya ǀ pā́dāḥ ǀ mánaḥ-javāḥ ǀ ávaraḥ ǀ índraḥ ǀ āsīt ǀ
devā́ḥ ǀ ít ǀ asya ǀ haviḥ-ádyam ǀ āyan ǀ yáḥ ǀ árvantam ǀ prathamáḥ ǀ adhi-átiṣṭhat ǁhiraṇya-śṛṅgaḥ ǀ ayaḥ ǀ asya ǀ pādāḥ ǀ manaḥ-javāḥ ǀ avaraḥ ǀ indraḥ ǀ āsīt ǀ
devāḥ ǀ it ǀ asya ǀ haviḥ-adyam ǀ āyan ǀ yaḥ ǀ arvantam ǀ prathamaḥ ǀ adhi-atiṣṭhat ǁ1.163.9 Aṣṭaka 2.3.12.4Anuvāka 1.22.67
-
Ṛk 10
ई॒र्मांता॑सः॒ सिलि॑कमध्यमासः॒ सं शूर॑णासो दि॒व्यासो॒ अत्याः॑ ।
हं॒सा इ॑व श्रेणि॒शो य॑तंते॒ यदाक्षि॑षुर्दि॒व्यमज्म॒मश्वाः॑ ॥ईर्मान्तासः सिलिकमध्यमासः सं शूरणासो दिव्यासो अत्याः |
हंसा इव श्रेणिशो यतन्ते यद् आक्षिषुर् दिव्यम् अज्मम् अश्वाः ||īrmā́ntāsaḥ sílikamadhyamāsaḥ sám śū́raṇāso divyā́so átyāḥ ǀ
haṃsā́ iva śreṇiśó yatante yádā́kṣiṣurdivyámájmamáśvāḥ ǁīrmāntāsaḥ silikamadhyamāsaḥ saṃ śūraṇāso divyāso atyāḥ |
haṃsā iva śreṇiśo yatante yad ākṣiṣur divyam ajmam aśvāḥ ||ई॒र्मऽअ॑न्तासः । सिलि॑कऽमध्यमासः । सम् । शूर॑णासः । दि॒व्यासः॑ । अत्याः॑ ।
हं॒साःऽइ॑व । श्रे॒णि॒ऽशः । य॒त॒न्ते॒ । यत् । आक्षि॑षुः । दि॒व्यम् । अज्म॑म् । अश्वाः॑ ॥ईर्मऽअन्तासः । सिलिकऽमध्यमासः । सम् । शूरणासः । दिव्यासः । अत्याः ।
हंसाःऽइव । श्रेणिऽशः । यतन्ते । यत् । आक्षिषुः । दिव्यम् । अज्मम् । अश्वाः ॥īrmá-antāsaḥ ǀ sílika-madhyamāsaḥ ǀ sám ǀ śū́raṇāsaḥ ǀ divyā́saḥ ǀ átyāḥ ǀ
haṃsā́ḥ-iva ǀ śreṇi-śáḥ ǀ yatante ǀ yát ǀ ā́kṣiṣuḥ ǀ divyám ǀ ájmam ǀ áśvāḥ ǁīrma-antāsaḥ ǀ silika-madhyamāsaḥ ǀ sam ǀ śūraṇāsaḥ ǀ divyāsaḥ ǀ atyāḥ ǀ
haṃsāḥ-iva ǀ śreṇi-śaḥ ǀ yatante ǀ yat ǀ ākṣiṣuḥ ǀ divyam ǀ ajmam ǀ aśvāḥ ǁ1.163.10 Aṣṭaka 2.3.12.5Anuvāka 1.22.68
-
Ṛk 11
तव॒ शरी॑रं पतयि॒ष्ण्व॑र्वं॒तव॑ चि॒त्तं वात॑ इव॒ ध्रजी॑मान् ।
तव॒ शृंगा॑णि॒ विष्ठि॑ता पुरु॒त्रार॑ण्येषु॒ जर्भु॑राणा चरंति ॥तव शरीरम् पतयिष्ण्व् अर्वन् तव चित्तं वात इव ध्रजीमान् |
तव शृङ्गाणि विष्ठिता पुरुत्रारण्येषु जर्भुराणा चरन्ति ||táva śárīram patayiṣṇvárvantáva cittám vā́ta iva dhrájīmān ǀ
táva śṛ́ṅgāṇi víṣṭhitā purutrā́raṇyeṣu járbhurāṇā caranti ǁtava śarīram patayiṣṇv arvan tava cittaṃ vāta iva dhrajīmān |
tava śṛṅgāṇi viṣṭhitā purutrāraṇyeṣu jarbhurāṇā caranti ||तव॑ । शरी॑रम् । प॒त॒यि॒ष्णु । अ॒र्व॒न् । तव॑ । चि॒त्तम् । वातः॑ऽइव । ध्रजी॑मान् ।
तव॑ । शृङ्गा॑णि । विऽस्थि॑ता । पु॒रु॒ऽत्रा । अर॑ण्येषु । जर्भु॑राणा । च॒र॒न्ति॒ ॥तव । शरीरम् । पतयिष्णु । अर्वन् । तव । चित्तम् । वातःऽइव । ध्रजीमान् ।
तव । शृङ्गाणि । विऽस्थिता । पुरुऽत्रा । अरण्येषु । जर्भुराणा । चरन्ति ॥táva ǀ śárīram ǀ patayiṣṇú ǀ arvan ǀ táva ǀ cittám ǀ vā́taḥ-iva ǀ dhrájīmān ǀ
táva ǀ śṛ́ṅgāṇi ǀ ví-sthitā ǀ puru-trā́ ǀ áraṇyeṣu ǀ járbhurāṇā ǀ caranti ǁtava ǀ śarīram ǀ patayiṣṇu ǀ arvan ǀ tava ǀ cittam ǀ vātaḥ-iva ǀ dhrajīmān ǀ
tava ǀ śṛṅgāṇi ǀ vi-sthitā ǀ puru-trā ǀ araṇyeṣu ǀ jarbhurāṇā ǀ caranti ǁ1.163.11 Aṣṭaka 2.3.13.1Anuvāka 1.22.69
-
Ṛk 12
उप॒ प्रागा॒च्छस॑नं वा॒ज्यर्वा॑ देव॒द्रीचा॒ मन॑सा॒ दीध्या॑नः ।
अ॒जः पु॒रो नी॑यते॒ नाभि॑र॒स्यानु॑ प॒श्चात्क॒वयो॑ यंति रे॒भाः ॥उप प्रागाच् छसनं वाज्य् अर्वा देवद्रीचा मनसा दीध्यानः |
अजः पुरो नीयते नाभिर् अस्यानु पश्चात् कवयो यन्ति रेभाः ||úpa prā́gācchásanam vājyárvā devadrī́cā mánasā dī́dhyānaḥ ǀ
ajáḥ puró nīyate nā́bhirasyā́nu paścā́tkaváyo yanti rebhā́ḥ ǁupa prāgāc chasanaṃ vājy arvā devadrīcā manasā dīdhyānaḥ |
ajaḥ puro nīyate nābhir asyānu paścāt kavayo yanti rebhāḥ ||उप॑ । प्र । अ॒गा॒त् । शस॑नम् । वा॒जी । अर्वा॑ । दे॒व॒द्रीचा॑ । मन॑सा । दीध्या॑नः ।
अ॒जः । पु॒रः । नी॒य॒ते॒ । नाभिः॑ । अ॒स्य॒ । अनु॑ । प॒श्चात् । क॒वयः॑ । य॒न्ति॒ । रे॒भाः ॥उप । प्र । अगात् । शसनम् । वाजी । अर्वा । देवद्रीचा । मनसा । दीध्यानः ।
अजः । पुरः । नीयते । नाभिः । अस्य । अनु । पश्चात् । कवयः । यन्ति । रेभाः ॥úpa ǀ prá ǀ agāt ǀ śásanam ǀ vājī́ ǀ árvā ǀ devadrī́cā ǀ mánasā ǀ dī́dhyānaḥ ǀ
ajáḥ ǀ puráḥ ǀ nīyate ǀ nā́bhiḥ ǀ asya ǀ ánu ǀ paścā́t ǀ kaváyaḥ ǀ yanti ǀ rebhā́ḥ ǁupa ǀ pra ǀ agāt ǀ śasanam ǀ vājī ǀ arvā ǀ devadrīcā ǀ manasā ǀ dīdhyānaḥ ǀ
ajaḥ ǀ puraḥ ǀ nīyate ǀ nābhiḥ ǀ asya ǀ anu ǀ paścāt ǀ kavayaḥ ǀ yanti ǀ rebhāḥ ǁ1.163.12 Aṣṭaka 2.3.13.2Anuvāka 1.22.70
-
Ṛk 13
उप॒ प्रागा॑त्पर॒मं यत्स॒धस्थ॒मर्वाँ॒ अच्छा॑ पि॒तरं॑ मा॒तरं॑ च ।
अ॒द्या दे॒वांजुष्ट॑तमो॒ हि ग॒म्या अथा शा॑स्ते दा॒शुषे॒ वार्या॑णि ॥उप प्रागात् परमं यत् सधस्थम् अर्वां अच्छा पितरम् मातरं च |
अद्या देवाञ् जुष्टतमो हि गम्या अथा शास्ते दाशुषे वार्याणि ||úpa prā́gātparamám yátsadhásthamárvām̐ ácchā pitáram mātáram ca ǀ
adyā́ devā́ñjúṣṭatamo hí gamyā́ áthā́ śāste dāśúṣe vā́ryāṇi ǁupa prāgāt paramaṃ yat sadhastham arvāṃ acchā pitaram mātaraṃ ca |
adyā devāñ juṣṭatamo hi gamyā athā śāste dāśuṣe vāryāṇi ||उप॑ । प्र । अ॒गा॒त् । प॒र॒मम् । यत् । स॒धऽस्थ॑म् । अर्वा॑न् । अच्छ॑ । पि॒तर॑म् । मा॒तर॑म् । च॒ ।
अ॒द्य । दे॒वान् । जुष्ट॑ऽतमः । हि । ग॒म्याः । अथ॑ । आ । शा॒स्ते॒ । दा॒शुषे॑ । वार्या॑णि ॥उप । प्र । अगात् । परमम् । यत् । सधऽस्थम् । अर्वान् । अच्छ । पितरम् । मातरम् । च ।
अद्य । देवान् । जुष्टऽतमः । हि । गम्याः । अथ । आ । शास्ते । दाशुषे । वार्याणि ॥úpa ǀ prá ǀ agāt ǀ paramám ǀ yát ǀ sadhá-stham ǀ árvān ǀ áccha ǀ pitáram ǀ mātáram ǀ ca ǀ
adyá ǀ devā́n ǀ júṣṭa-tamaḥ ǀ hí ǀ gamyā́ḥ ǀ átha ǀ ā́ ǀ śāste ǀ dāśúṣe ǀ vā́ryāṇi ǁupa ǀ pra ǀ agāt ǀ paramam ǀ yat ǀ sadha-stham ǀ arvān ǀ accha ǀ pitaram ǀ mātaram ǀ ca ǀ
adya ǀ devān ǀ juṣṭa-tamaḥ ǀ hi ǀ gamyāḥ ǀ atha ǀ ā ǀ śāste ǀ dāśuṣe ǀ vāryāṇi ǁ1.163.13 Aṣṭaka 2.3.13.3Anuvāka 1.22.71
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.