Ṛgveda · Maṇḍala 1 · Sūkta 163
Ṛk 1.163.3
Saṃhitā
असि॑ य॒मो अस्या॑दि॒त्यो अ॑र्व॒न्नसि॑ त्रि॒तो गुह्ये॑न व्र॒तेन॑ ।
असि॒ सोमे॑न स॒मया॒ विपृ॑क्त आ॒हुस्ते॒ त्रीणि॑ दि॒वि बंध॑नानि ॥
असि यमो अस्य् आदित्यो अर्वन्न् असि त्रितो गुह्येन व्रतेन |
असि सोमेन समया विपृक्त आहुस् ते त्रीणि दिवि बन्धनानि ||
ási yamó ásyādityó arvannási tritó gúhyena vraténa ǀ
ási sómena samáyā vípṛkta āhúste trī́ṇi diví bándhanāni ǁ
asi yamo asy ādityo arvann asi trito guhyena vratena |
asi somena samayā vipṛkta āhus te trīṇi divi bandhanāni ||
Padapāṭha
असि॑ । य॒मः । असि॑ । आ॒दि॒त्यः । अ॒र्व॒न् । असि॑ । त्रि॒तः । गुह्ये॑न । व्र॒तेन॑ ।
असि॑ । सोमे॑न । स॒मया॑ । विऽपृ॑क्तः । आ॒हुः । ते॒ । त्रीणि॑ । दि॒वि । बन्ध॑नानि ॥
असि । यमः । असि । आदित्यः । अर्वन् । असि । त्रितः । गुह्येन । व्रतेन ।
असि । सोमेन । समया । विऽपृक्तः । आहुः । ते । त्रीणि । दिवि । बन्धनानि ॥
ási ǀ yamáḥ ǀ ási ǀ ādityáḥ ǀ arvan ǀ ási ǀ tritáḥ ǀ gúhyena ǀ vraténa ǀ
ási ǀ sómena ǀ samáyā ǀ ví-pṛktaḥ ǀ āhúḥ ǀ te ǀ trī́ṇi ǀ diví ǀ bándhanāni ǁ
asi ǀ yamaḥ ǀ asi ǀ ādityaḥ ǀ arvan ǀ asi ǀ tritaḥ ǀ guhyena ǀ vratena ǀ
asi ǀ somena ǀ samayā ǀ vi-pṛktaḥ ǀ āhuḥ ǀ te ǀ trīṇi ǀ divi ǀ bandhanāni ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.163.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.3.11.03
- Maṇḍala · Anuvāka · Ṛk
- 1.22.061
- Devatā देवता
- Aśvamedha
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.