Ṛgveda · Maṇḍala 1 · Sūkta 163
Ṛk 1.163.11
Saṃhitā
तव॒ शरी॑रं पतयि॒ष्ण्व॑र्वं॒तव॑ चि॒त्तं वात॑ इव॒ ध्रजी॑मान् ।
तव॒ शृंगा॑णि॒ विष्ठि॑ता पुरु॒त्रार॑ण्येषु॒ जर्भु॑राणा चरंति ॥
तव शरीरम् पतयिष्ण्व् अर्वन् तव चित्तं वात इव ध्रजीमान् |
तव शृङ्गाणि विष्ठिता पुरुत्रारण्येषु जर्भुराणा चरन्ति ||
táva śárīram patayiṣṇvárvantáva cittám vā́ta iva dhrájīmān ǀ
táva śṛ́ṅgāṇi víṣṭhitā purutrā́raṇyeṣu járbhurāṇā caranti ǁ
tava śarīram patayiṣṇv arvan tava cittaṃ vāta iva dhrajīmān |
tava śṛṅgāṇi viṣṭhitā purutrāraṇyeṣu jarbhurāṇā caranti ||
Padapāṭha
तव॑ । शरी॑रम् । प॒त॒यि॒ष्णु । अ॒र्व॒न् । तव॑ । चि॒त्तम् । वातः॑ऽइव । ध्रजी॑मान् ।
तव॑ । शृङ्गा॑णि । विऽस्थि॑ता । पु॒रु॒ऽत्रा । अर॑ण्येषु । जर्भु॑राणा । च॒र॒न्ति॒ ॥
तव । शरीरम् । पतयिष्णु । अर्वन् । तव । चित्तम् । वातःऽइव । ध्रजीमान् ।
तव । शृङ्गाणि । विऽस्थिता । पुरुऽत्रा । अरण्येषु । जर्भुराणा । चरन्ति ॥
táva ǀ śárīram ǀ patayiṣṇú ǀ arvan ǀ táva ǀ cittám ǀ vā́taḥ-iva ǀ dhrájīmān ǀ
táva ǀ śṛ́ṅgāṇi ǀ ví-sthitā ǀ puru-trā́ ǀ áraṇyeṣu ǀ járbhurāṇā ǀ caranti ǁ
tava ǀ śarīram ǀ patayiṣṇu ǀ arvan ǀ tava ǀ cittam ǀ vātaḥ-iva ǀ dhrajīmān ǀ
tava ǀ śṛṅgāṇi ǀ vi-sthitā ǀ puru-trā ǀ araṇyeṣu ǀ jarbhurāṇā ǀ caranti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.163.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.3.13.01
- Maṇḍala · Anuvāka · Ṛk
- 1.22.069
- Devatā देवता
- Aśvamedha
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.