Ṛgveda · Maṇḍala 1 · Sūkta 163
Ṛk 1.163.7
Saṃhitā
अत्रा॑ ते रू॒पमु॑त्त॒मम॑पश्यं॒ जिगी॑षमाणमि॒ष आ प॒दे गोः ।
य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒ळादिद्ग्रसि॑ष्ठ॒ ओष॑धीरजीगः ॥
अत्रा ते रूपम् उत्तमम् अपश्यं जिगीषमाणम् इष आ पदे गोः |
यदा ते मर्तो अनु भोगम् आनऌ आद् इद् ग्रसिष्ठ ओषधीर् अजीगः ||
átrā te rūpámuttamámapaśyam jígīṣamāṇamiṣá ā́ padé góḥ ǀ
yadā́ te márto ánu bhógamā́naḷā́dídgrásiṣṭha óṣadhīrajīgaḥ ǁ
atrā te rūpam uttamam apaśyaṃ jigīṣamāṇam iṣa ā pade goḥ |
yadā te marto anu bhogam ānaḷ ād id grasiṣṭha oṣadhīr ajīgaḥ ||
Padapāṭha
अत्र॑ । ते॒ । रू॒पम् । उ॒त्ऽत॒मम् । अ॒प॒श्य॒म् । जिगी॑षमाणम् । इ॒षः । आ । प॒दे । गोः ।
य॒दा । ते॒ । मर्तः॑ । अनु॑ । भोग॑म् । आन॑ट् । आत् । इत् । ग्रसि॑ष्ठः । ओष॑धीः । अ॒जी॒ग॒रिति॑ ॥
अत्र । ते । रूपम् । उत्ऽतमम् । अपश्यम् । जिगीषमाणम् । इषः । आ । पदे । गोः ।
यदा । ते । मर्तः । अनु । भोगम् । आनट् । आत् । इत् । ग्रसिष्ठः । ओषधीः । अजीगरिति ॥
átra ǀ te ǀ rūpám ǀ ut-tamám ǀ apaśyam ǀ jígīṣamāṇam ǀ iṣáḥ ǀ ā́ ǀ padé ǀ góḥ ǀ
yadā́ ǀ te ǀ mártaḥ ǀ ánu ǀ bhógam ǀ ā́naṭ ǀ ā́t ǀ ít ǀ grásiṣṭhaḥ ǀ óṣadhīḥ ǀ ajīgaríti ǁ
atra ǀ te ǀ rūpam ǀ ut-tamam ǀ apaśyam ǀ jigīṣamāṇam ǀ iṣaḥ ǀ ā ǀ pade ǀ goḥ ǀ
yadā ǀ te ǀ martaḥ ǀ anu ǀ bhogam ǀ ānaṭ ǀ āt ǀ it ǀ grasiṣṭhaḥ ǀ oṣadhīḥ ǀ ajīgariti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.163.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.3.12.02
- Maṇḍala · Anuvāka · Ṛk
- 1.22.065
- Devatā देवता
- Aśvamedha
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.