Ṛgveda · Maṇḍala 1 · Sūkta 163
Ṛk 1.163.13
Saṃhitā
उप॒ प्रागा॑त्पर॒मं यत्स॒धस्थ॒मर्वाँ॒ अच्छा॑ पि॒तरं॑ मा॒तरं॑ च ।
अ॒द्या दे॒वांजुष्ट॑तमो॒ हि ग॒म्या अथा शा॑स्ते दा॒शुषे॒ वार्या॑णि ॥
उप प्रागात् परमं यत् सधस्थम् अर्वां अच्छा पितरम् मातरं च |
अद्या देवाञ् जुष्टतमो हि गम्या अथा शास्ते दाशुषे वार्याणि ||
úpa prā́gātparamám yátsadhásthamárvām̐ ácchā pitáram mātáram ca ǀ
adyā́ devā́ñjúṣṭatamo hí gamyā́ áthā́ śāste dāśúṣe vā́ryāṇi ǁ
upa prāgāt paramaṃ yat sadhastham arvāṃ acchā pitaram mātaraṃ ca |
adyā devāñ juṣṭatamo hi gamyā athā śāste dāśuṣe vāryāṇi ||
Padapāṭha
उप॑ । प्र । अ॒गा॒त् । प॒र॒मम् । यत् । स॒धऽस्थ॑म् । अर्वा॑न् । अच्छ॑ । पि॒तर॑म् । मा॒तर॑म् । च॒ ।
अ॒द्य । दे॒वान् । जुष्ट॑ऽतमः । हि । ग॒म्याः । अथ॑ । आ । शा॒स्ते॒ । दा॒शुषे॑ । वार्या॑णि ॥
उप । प्र । अगात् । परमम् । यत् । सधऽस्थम् । अर्वान् । अच्छ । पितरम् । मातरम् । च ।
अद्य । देवान् । जुष्टऽतमः । हि । गम्याः । अथ । आ । शास्ते । दाशुषे । वार्याणि ॥
úpa ǀ prá ǀ agāt ǀ paramám ǀ yát ǀ sadhá-stham ǀ árvān ǀ áccha ǀ pitáram ǀ mātáram ǀ ca ǀ
adyá ǀ devā́n ǀ júṣṭa-tamaḥ ǀ hí ǀ gamyā́ḥ ǀ átha ǀ ā́ ǀ śāste ǀ dāśúṣe ǀ vā́ryāṇi ǁ
upa ǀ pra ǀ agāt ǀ paramam ǀ yat ǀ sadha-stham ǀ arvān ǀ accha ǀ pitaram ǀ mātaram ǀ ca ǀ
adya ǀ devān ǀ juṣṭa-tamaḥ ǀ hi ǀ gamyāḥ ǀ atha ǀ ā ǀ śāste ǀ dāśuṣe ǀ vāryāṇi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.163.13
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.3.13.03
- Maṇḍala · Anuvāka · Ṛk
- 1.22.071
- Devatā देवता
- Aśvamedha
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.