Ṛgveda · Maṇḍala 1 · Sūkta 163
Ṛk 1.163.1
Saṃhitā
यदक्रं॑दः प्रथ॒मं जाय॑मान उ॒द्यन्त्स॑मु॒द्रादु॒त वा॒ पुरी॑षात् ।
श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उ॑प॒स्तुत्यं॒ महि॑ जा॒तं ते॑ अर्वन् ॥
यद् अक्रन्दः प्रथमं जायमान उद्यन् समुद्राद् उत वा पुरीषात् |
श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यम् महि जातं ते अर्वन् ||
yádákrandaḥ prathamám jā́yamāna udyántsamudrā́dutá vā púrīṣāt ǀ
śyenásya pakṣā́ hariṇásya bāhū́ upastútyam máhi jātám te arvan ǁ
yad akrandaḥ prathamaṃ jāyamāna udyan samudrād uta vā purīṣāt |
śyenasya pakṣā hariṇasya bāhū upastutyam mahi jātaṃ te arvan ||
Padapāṭha
यत् । अक्र॑न्दः । प्र॒थ॒मम् । जाय॑मानः । उ॒त्ऽयन् । स॒मु॒द्रात् । उ॒त । वा॒ । पुरी॑षात् ।
श्ये॒नस्य॑ । प॒क्षा । ह॒रि॒णस्य॑ । बा॒हू इति॑ । उ॒प॒ऽस्तुत्य॑म् । महि॑ । जा॒तम् । ते॒ । अ॒र्व॒न् ॥
यत् । अक्रन्दः । प्रथमम् । जायमानः । उत्ऽयन् । समुद्रात् । उत । वा । पुरीषात् ।
श्येनस्य । पक्षा । हरिणस्य । बाहू इति । उपऽस्तुत्यम् । महि । जातम् । ते । अर्वन् ॥
yát ǀ ákrandaḥ ǀ prathamám ǀ jā́yamānaḥ ǀ ut-yán ǀ samudrā́t ǀ utá ǀ vā ǀ púrīṣāt ǀ
śyenásya ǀ pakṣā́ ǀ hariṇásya ǀ bāhū́ íti ǀ upa-stútyam ǀ máhi ǀ jātám ǀ te ǀ arvan ǁ
yat ǀ akrandaḥ ǀ prathamam ǀ jāyamānaḥ ǀ ut-yan ǀ samudrāt ǀ uta ǀ vā ǀ purīṣāt ǀ
śyenasya ǀ pakṣā ǀ hariṇasya ǀ bāhū iti ǀ upa-stutyam ǀ mahi ǀ jātam ǀ te ǀ arvan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.163.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.3.11.01
- Maṇḍala · Anuvāka · Ṛk
- 1.22.059
- Devatā देवता
- Aśvamedha
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.