Ṛgveda · Maṇḍala 1 · Sūkta 162

Ṛk 1.162.22

Aśvamedha · Dīrghatamas Aucathya

The whole sūkta Link

Saṃhitā

सु॒गव्यं॑ नो वा॒जी स्वश्व्यं॑ पुं॒सः पु॒त्राँ उ॒त वि॑श्वा॒पुषं॑ र॒यिं ।
अ॒ना॒गा॒स्त्वं नो॒ अदि॑तिः कृणोतु क्ष॒त्रं नो॒ अश्वो॑ वनतां ह॒विष्मा॑न् ॥

सुगव्यं नो वाजी स्वश्व्यम् पुंसः पुत्रां उत विश्वापुषं रयिम् |
अनागास्त्वं नो अदितिः कृणोतु क्षत्रं नो अश्वो वनतां हविष्मान् ||

sugávyam no vājī́ sváśvyam puṃsáḥ putrā́m̐ utá viśvāpúṣam rayím ǀ
anāgāstvám no áditiḥ kṛṇotu kṣatrám no áśvo vanatām havíṣmān ǁ

sugavyaṃ no vājī svaśvyam puṃsaḥ putrāṃ uta viśvāpuṣaṃ rayim |
anāgāstvaṃ no aditiḥ kṛṇotu kṣatraṃ no aśvo vanatāṃ haviṣmān ||

Padapāṭha

सु॒ऽगव्य॑म् । नः॒ । वा॒जी । सु॒ऽअश्व्य॑म् । पुं॒सः । पु॒त्रान् । उ॒त । वि॒श्व॒ऽपुष॑म् । र॒यिम् ।
अ॒ना॒गाः॒ऽत्वम् । नः॒ । अदि॑तिः । कृ॒णो॒तु॒ । क्ष॒त्रम् । नः॒ । अश्वः॑ । व॒न॒ता॒म् । ह॒विष्मा॑न् ॥

सुऽगव्यम् । नः । वाजी । सुऽअश्व्यम् । पुंसः । पुत्रान् । उत । विश्वऽपुषम् । रयिम् ।
अनागाःऽत्वम् । नः । अदितिः । कृणोतु । क्षत्रम् । नः । अश्वः । वनताम् । हविष्मान् ॥

su-gávyam ǀ naḥ ǀ vājī́ ǀ su-áśvyam ǀ puṃsáḥ ǀ putrā́n ǀ utá ǀ viśva-púṣam ǀ rayím ǀ
anāgāḥ-tvám ǀ naḥ ǀ áditiḥ ǀ kṛṇotu ǀ kṣatrám ǀ naḥ ǀ áśvaḥ ǀ vanatām ǀ havíṣmān ǁ

su-gavyam ǀ naḥ ǀ vājī ǀ su-aśvyam ǀ puṃsaḥ ǀ putrān ǀ uta ǀ viśva-puṣam ǀ rayim ǀ
anāgāḥ-tvam ǀ naḥ ǀ aditiḥ ǀ kṛṇotu ǀ kṣatram ǀ naḥ ǀ aśvaḥ ǀ vanatām ǀ haviṣmān ǁ

References

Maṇḍala · Sūkta · Ṛk
01.162.22
Aṣṭaka · Adhyāya · Varga · Ṛk
2.3.10.07
Maṇḍala · Anuvāka · Ṛk
1.22.058
Devatā देवता
Aśvamedha
Ṛṣi ऋषि
Dīrghatamas Aucathya
Chandas छन्दस्
Triṣṭubh, Jagatī
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.162.22

Interpretations

Sāyaṇa

यदक्रंदइतित्रयोदशर्चंसप्तमंसूक्तंदैर्घतमसंत्रैष्टुभं अश्वस्यस्तूयमानत्वात्तद्देवत्यं यदक्रंदः सप्तोनेत्य- नुक्रमणिका । आशमेधिकेमध्यमेहनिउपाकरणायावस्थितमश्वमाद्याभिरेकादशभिः स्तौति तथाच त्रीणिसुत्यानीतिखण्डेसूत्रितम्—तमवस्थितमुपाकरणाययदक्रंदइत्येकादशभिः स्तौत्यप्रणुवन्निति ।