Ṛgveda · Maṇḍala 1 · Sūkta 162
Ṛk 1.162.3
Saṃhitā
ए॒ष छागः॑ पु॒रो अश्वे॑न वा॒जिना॑ पू॒ष्णो भा॒गो नी॑यते वि॒श्वदे॑व्यः ।
अ॒भि॒प्रियं॒ यत्पु॑रो॒ळाश॒मर्व॑ता॒ त्वष्टेदे॑नं सौश्रव॒साय॑ जिन्वति ॥
एष च्छागः पुरो अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः |
अभिप्रियं यत् पुरोऌआशम् अर्वता त्वष्टेद् एनं सौश्रवसाय जिन्वति ||
eṣá chā́gaḥ puró áśvena vājínā pūṣṇó bhāgó nīyate viśvádevyaḥ ǀ
abhipríyam yátpuroḷā́śamárvatā tváṣṭédenam sauśravasā́ya jinvati ǁ
eṣa cchāgaḥ puro aśvena vājinā pūṣṇo bhāgo nīyate viśvadevyaḥ |
abhipriyaṃ yat puroḷāśam arvatā tvaṣṭed enaṃ sauśravasāya jinvati ||
Padapāṭha
ए॒षः । छागः॑ । पु॒रः । अश्वे॑न । वा॒जिना॑ । पू॒ष्णः । भ॒गः । नी॒य॒ते॒ । वि॒श्वऽदे॑व्यः ।
अ॒भि॒ऽप्रिय॑म् । यत् । पु॒रो॒ळाश॑म् । अर्व॑ता । त्वष्टा॑ । इत् । ए॒न॒म् । सौ॒श्र॒व॒साय॑ । जि॒न्व॒ति॒ ॥
एषः । छागः । पुरः । अश्वेन । वाजिना । पूष्णः । भगः । नीयते । विश्वऽदेव्यः ।
अभिऽप्रियम् । यत् । पुरोळाशम् । अर्वता । त्वष्टा । इत् । एनम् । सौश्रवसाय । जिन्वति ॥
eṣáḥ ǀ chā́gaḥ ǀ puráḥ ǀ áśvena ǀ vājínā ǀ pūṣṇáḥ ǀ bhagáḥ ǀ nīyate ǀ viśvá-devyaḥ ǀ
abhi-príyam ǀ yát ǀ puroḷā́śam ǀ árvatā ǀ tváṣṭā ǀ ít ǀ enam ǀ sauśravasā́ya ǀ jinvati ǁ
eṣaḥ ǀ chāgaḥ ǀ puraḥ ǀ aśvena ǀ vājinā ǀ pūṣṇaḥ ǀ bhagaḥ ǀ nīyate ǀ viśva-devyaḥ ǀ
abhi-priyam ǀ yat ǀ puroḷāśam ǀ arvatā ǀ tvaṣṭā ǀ it ǀ enam ǀ sauśravasāya ǀ jinvati ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.162.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.3.07.00
- Devatā देवता
- Aśvamedha
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.