Ṛgveda · Maṇḍala 1 · Sūkta 162
Ṛk 1.162.6
Saṃhitā
यू॒प॒व्र॒स्का उ॒त ये यू॑पवा॒हाश्च॒षालं॒ ये अ॑श्वयू॒पाय॒ तक्ष॑ति ।
ये चार्व॑ते॒ पच॑नं सं॒भरं॑त्यु॒तो तेषा॑म॒भिगू॑र्तिर्न इन्वतु ॥
यूपव्रस्का उत ये यूपवाहाश् चषालं ये अश्वयूपाय तक्षति |
ये चार्वते पचनं सम्भरन्त्य् उतो तेषाम् अभिगूर्तिर् न इन्वतु ||
yūpavraskā́ utá yé yūpavāhā́ścaṣā́lam yé aśvayūpā́ya tákṣati ǀ
yé cā́rvate pácanam sambhárantyutó téṣāmabhígūrtirna invatu ǁ
yūpavraskā uta ye yūpavāhāś caṣālaṃ ye aśvayūpāya takṣati |
ye cārvate pacanaṃ sambharanty uto teṣām abhigūrtir na invatu ||
Padapāṭha
यू॒प॒ऽव्र॒स्काः । उ॒त । ये । यू॒प॒ऽवा॒हाः । च॒षाल॑म् । ये । अ॒श्व॒ऽयू॒पाय॑ । तक्ष॑ति ।
ये । च॒ । अर्व॑ते । पच॑नम् । स॒म्ऽभर॑न्ति । उ॒तो इति॑ । तेषा॑म् । अ॒भिऽगू॑र्तिः । नः॒ । इ॒न्व॒तु॒ ॥
यूपऽव्रस्काः । उत । ये । यूपऽवाहाः । चषालम् । ये । अश्वऽयूपाय । तक्षति ।
ये । च । अर्वते । पचनम् । सम्ऽभरन्ति । उतो इति । तेषाम् । अभिऽगूर्तिः । नः । इन्वतु ॥
yūpa-vraskā́ḥ ǀ utá ǀ yé ǀ yūpa-vāhā́ḥ ǀ caṣā́lam ǀ yé ǀ aśva-yūpā́ya ǀ tákṣati ǀ
yé ǀ ca ǀ árvate ǀ pácanam ǀ sam-bháranti ǀ utó íti ǀ téṣām ǀ abhí-gūrtiḥ ǀ naḥ ǀ invatu ǁ
yūpa-vraskāḥ ǀ uta ǀ ye ǀ yūpa-vāhāḥ ǀ caṣālam ǀ ye ǀ aśva-yūpāya ǀ takṣati ǀ
ye ǀ ca ǀ arvate ǀ pacanam ǀ sam-bharanti ǀ uto iti ǀ teṣām ǀ abhi-gūrtiḥ ǀ naḥ ǀ invatu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.162.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.3.08.00
- Devatā देवता
- Aśvamedha
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.