Ṛgveda · Maṇḍala 1 · Sūkta 162
Ṛk 1.162.13
Saṃhitā
यन्नीक्ष॑णं माँ॒स्पच॑न्या उ॒खाया॒ या पात्रा॑णि यू॒ष्ण आ॒सेच॑नानि ।
ऊ॒ष्म॒ण्या॑पि॒धाना॑ चरू॒णामं॒काः सू॒नाः परि॑ भूषं॒त्यश्वं॑ ॥
यन् नीक्षणम् मांस्पचन्या उखाया या पात्राणि यूष्ण आसेचनानि |
ऊष्मण्यापिधाना चरूणाम् अङ्काः सूनाः परि भूषन्त्य् अश्वम् ||
yánnī́kṣaṇam mām̐spácanyā ukhā́yā yā́ pā́trāṇi yūṣṇá āsécanāni ǀ
ūṣmaṇyā́pidhā́nā carūṇā́maṅkā́ḥ sūnā́ḥ pári bhūṣantyáśvam ǁ
yan nīkṣaṇam māṃspacanyā ukhāyā yā pātrāṇi yūṣṇa āsecanāni |
ūṣmaṇyāpidhānā carūṇām aṅkāḥ sūnāḥ pari bhūṣanty aśvam ||
Padapāṭha
यत् । नि॒ऽईक्ष॑णम् । मां॒स्पच॑न्याः । उ॒खायाः॑ । या । पात्रा॑णि । यू॒ष्णः । आ॒ऽसेच॑नानि ।
ऊ॒ष्म॒ण्या॑ । अ॒पि॒ऽधाना॑ । च॒रू॒णाम् । अ॒ङ्काः । सू॒नाः । परि॑ । भू॒ष॒न्ति॒ । अश्व॑म् ॥
यत् । निऽईक्षणम् । मांस्पचन्याः । उखायाः । या । पात्राणि । यूष्णः । आऽसेचनानि ।
ऊष्मण्या । अपिऽधाना । चरूणाम् । अङ्काः । सूनाः । परि । भूषन्ति । अश्वम् ॥
yát ǀ ni-ī́kṣaṇam ǀ māṃspácanyāḥ ǀ ukhā́yāḥ ǀ yā́ ǀ pā́trāṇi ǀ yūṣṇáḥ ǀ ā-sécanāni ǀ
ūṣmaṇyā́ ǀ api-dhā́nā ǀ carūṇā́m ǀ aṅkā́ḥ ǀ sūnā́ḥ ǀ pári ǀ bhūṣanti ǀ áśvam ǁ
yat ǀ ni-īkṣaṇam ǀ māṃspacanyāḥ ǀ ukhāyāḥ ǀ yā ǀ pātrāṇi ǀ yūṣṇaḥ ǀ ā-secanāni ǀ
ūṣmaṇyā ǀ api-dhānā ǀ carūṇām ǀ aṅkāḥ ǀ sūnāḥ ǀ pari ǀ bhūṣanti ǀ aśvam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.162.13
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.3.09.00
- Devatā देवता
- Aśvamedha
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.