Ṛgveda · Maṇḍala 1 · Sūkta 162
Ṛk 1.162.8
Saṃhitā
यद्वा॒जिनो॒ दाम॑ सं॒दान॒मर्व॑तो॒ या शी॑र्ष॒ण्या॑ रश॒ना रज्जु॑रस्य ।
यद्वा॑ घास्य॒ प्रभृ॑तमा॒स्ये॒३॒॑ तृणं॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥
यद् वाजिनो दाम संदानम् अर्वतो या शीर्षण्या रशना रज्जुर् अस्य |
यद् वा घास्य प्रभृतम् आस्ये तृणं सर्वा ता ते अपि देवेष्व् अस्तु ||
yádvājíno dā́ma saṃdā́namárvato yā́ śīrṣaṇyā́ raśanā́ rájjurasya ǀ
yádvā ghāsya prábhṛtamāsyé tṛ́ṇam sárvā tā́ te ápi devéṣvastu ǁ
yad vājino dāma saṃdānam arvato yā śīrṣaṇyā raśanā rajjur asya |
yad vā ghāsya prabhṛtam āsye tṛṇaṃ sarvā tā te api deveṣv astu ||
Padapāṭha
यत् । वा॒जिनः॑ । दाम॑ । स॒म्ऽदान॑म् । अर्व॑तः । या । शी॒र्ष॒ण्या॑ । र॒श॒ना । रज्जुः॑ । अ॒स्य॒ ।
यत् । वा॒ । घ॒ । अ॒स्य॒ । प्रऽभृ॑तम् । आ॒स्ये॑ । तृण॑म् । सर्वा॑ । ता । ते॒ । अपि॑ । दे॒वेषु॑ । अ॒स्तु॒ ॥
यत् । वाजिनः । दाम । सम्ऽदानम् । अर्वतः । या । शीर्षण्या । रशना । रज्जुः । अस्य ।
यत् । वा । घ । अस्य । प्रऽभृतम् । आस्ये । तृणम् । सर्वा । ता । ते । अपि । देवेषु । अस्तु ॥
yát ǀ vājínaḥ ǀ dā́ma ǀ sam-dā́nam ǀ árvataḥ ǀ yā́ ǀ śīrṣaṇyā́ ǀ raśanā́ ǀ rájjuḥ ǀ asya ǀ
yát ǀ vā ǀ gha ǀ asya ǀ prá-bhṛtam ǀ āsyé ǀ tṛ́ṇam ǀ sárvā ǀ tā́ ǀ te ǀ ápi ǀ devéṣu ǀ astu ǁ
yat ǀ vājinaḥ ǀ dāma ǀ sam-dānam ǀ arvataḥ ǀ yā ǀ śīrṣaṇyā ǀ raśanā ǀ rajjuḥ ǀ asya ǀ
yat ǀ vā ǀ gha ǀ asya ǀ pra-bhṛtam ǀ āsye ǀ tṛṇam ǀ sarvā ǀ tā ǀ te ǀ api ǀ deveṣu ǀ astu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.162.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.3.08.00
- Devatā देवता
- Aśvamedha
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.