Sūkta 121
- Devatā देवता
- Indra Or Viśvedevās
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles virāṭtrisṭup (3, 4, 6, 12, 14, 15); bhurikpaṅkti (1, 7, 13); triṣṭup (2, 8, 10); nicṛttriṣṭup (5, 9, 11)
2nd set of styles triṣṭubh
-
Ṛk 1
कदि॒त्था नॄँः पात्रं॑ देवय॒तां श्रव॒द्गिरो॒ अंगि॑रसां तुर॒ण्यन् ।
प्र यदान॒ड्विश॒ आ ह॒र्म्यस्यो॒रु क्रं॑सते अध्व॒रे यज॑त्रः ॥कद् इत्था नॄंः पात्रं देवयतां श्रवद् गिरो अङ्गिरसां तुरण्यन् |
प्र यद् आनड् विश आ हर्म्यस्योरु क्रंसते अध्वरे यजत्रः ||káditthā́ nṝ́m̐ḥ pā́tram devayatā́m śrávadgíro áṅgirasām turaṇyán ǀ
prá yádā́naḍvíśa ā́ harmyásyorú kraṃsate adhvaré yájatraḥ ǁkad itthā nṝṃḥ pātraṃ devayatāṃ śravad giro aṅgirasāṃ turaṇyan |
pra yad ānaḍ viśa ā harmyasyoru kraṃsate adhvare yajatraḥ ||कत् । इ॒त्था । नॄन् । पात्र॑म् । दे॒व॒ऽय॒ताम् । श्रव॑त् । गिरः॑ । अङ्गि॑रसाम् । तु॒र॒ण्यन् ।
प्र । यत् । आन॑ट् । विशः॑ । आ । ह॒र्म्यस्य॑ । उ॒रु । क्रं॒स॒ते॒ । अ॒ध्व॒रे । यज॑त्रः ॥कत् । इत्था । नॄन् । पात्रम् । देवऽयताम् । श्रवत् । गिरः । अङ्गिरसाम् । तुरण्यन् ।
प्र । यत् । आनट् । विशः । आ । हर्म्यस्य । उरु । क्रंसते । अध्वरे । यजत्रः ॥kát ǀ itthā́ ǀ nṝ́n ǀ pā́tram ǀ deva-yatā́m ǀ śrávat ǀ gíraḥ ǀ áṅgirasām ǀ turaṇyán ǀ
prá ǀ yát ǀ ā́naṭ ǀ víśaḥ ǀ ā́ ǀ harmyásya ǀ urú ǀ kraṃsate ǀ adhvaré ǀ yájatraḥ ǁkat ǀ itthā ǀ nṝn ǀ pātram ǀ deva-yatām ǀ śravat ǀ giraḥ ǀ aṅgirasām ǀ turaṇyan ǀ
pra ǀ yat ǀ ānaṭ ǀ viśaḥ ǀ ā ǀ harmyasya ǀ uru ǀ kraṃsate ǀ adhvare ǀ yajatraḥ ǁ1.121.1 Aṣṭaka 1.8.24.1Anuvāka 1.18.1
-
Ṛk 2
स्तंभी॑द्ध॒ द्यां स ध॒रुणं॑ प्रुषायदृ॒भुर्वाजा॑य॒ द्रवि॑णं॒ नरो॒ गोः ।
अनु॑ स्व॒जां म॑हि॒षश्च॑क्षत॒ व्रां मेना॒मश्व॑स्य॒ परि॑ मा॒तरं॒ गोः ॥स्तम्भीद् ध द्यां स धरुणम् प्रुषायद् ऋभुर् वाजाय द्रविणं नरो गोः |
अनु स्वजाम् महिषश् चक्षत व्राम् मेनाम् अश्वस्य परि मातरं गोः ||stámbhīddha dyā́m sá dharúṇam pruṣāyadṛbhúrvā́jāya dráviṇam náro góḥ ǀ
ánu svajā́m mahiṣáścakṣata vrā́m ménāmáśvasya pári mātáram góḥ ǁstambhīd dha dyāṃ sa dharuṇam pruṣāyad ṛbhur vājāya draviṇaṃ naro goḥ |
anu svajām mahiṣaś cakṣata vrām menām aśvasya pari mātaraṃ goḥ ||स्तम्भी॑त् । ह॒ । द्याम् । सः । ध॒रुण॑म् । प्रु॒षा॒य॒त् । ऋ॒भुः । वाजा॑य । द्रवि॑णम् । नरः॑ । गोः ।
अनु॑ । स्व॒ऽजाम् । म॒हि॒षः । च॒क्ष॒त॒ । व्राम् । मेना॑म् । अश्व॑स्य । परि॑ । मा॒तर॑म् । गोः ॥स्तम्भीत् । ह । द्याम् । सः । धरुणम् । प्रुषायत् । ऋभुः । वाजाय । द्रविणम् । नरः । गोः ।
अनु । स्वऽजाम् । महिषः । चक्षत । व्राम् । मेनाम् । अश्वस्य । परि । मातरम् । गोः ॥stámbhīt ǀ ha ǀ dyā́m ǀ sáḥ ǀ dharúṇam ǀ pruṣāyat ǀ ṛbhúḥ ǀ vā́jāya ǀ dráviṇam ǀ náraḥ ǀ góḥ ǀ
ánu ǀ sva-jā́m ǀ mahiṣáḥ ǀ cakṣata ǀ vrā́m ǀ ménām ǀ áśvasya ǀ pári ǀ mātáram ǀ góḥ ǁstambhīt ǀ ha ǀ dyām ǀ saḥ ǀ dharuṇam ǀ pruṣāyat ǀ ṛbhuḥ ǀ vājāya ǀ draviṇam ǀ naraḥ ǀ goḥ ǀ
anu ǀ sva-jām ǀ mahiṣaḥ ǀ cakṣata ǀ vrām ǀ menām ǀ aśvasya ǀ pari ǀ mātaram ǀ goḥ ǁ1.121.2 Aṣṭaka 1.8.24.2Anuvāka 1.18.2
-
Ṛk 3
नक्ष॒द्धव॑मरु॒णीः पू॒र्व्यं राट् तु॒रो वि॒शामंगि॑रसा॒मनु॒ द्यून् ।
तक्ष॒द्वज्रं॒ नियु॑तं त॒स्तंभ॒द्द्यां चतु॑ष्पदे॒ नर्या॑य द्वि॒पादे॑ ॥नक्षद् धवम् अरुणीः पूर्व्यं राट् तुरो विशाम् अङ्गिरसाम् अनु द्यून् |
तक्षद् वज्रं नियुतं तस्तम्भद् द्यां चतुष्पदे नर्याय द्विपादे ||nákṣaddhávamaruṇī́ḥ pūrvyám rā́ṭ turó viśā́máṅgirasāmánu dyū́n ǀ
tákṣadvájram níyutam tastámbhaddyā́m cátuṣpade náryāya dvipā́de ǁnakṣad dhavam aruṇīḥ pūrvyaṃ rāṭ turo viśām aṅgirasām anu dyūn |
takṣad vajraṃ niyutaṃ tastambhad dyāṃ catuṣpade naryāya dvipāde ||नक्ष॑त् । हव॑म् । अ॒रु॒णीः । पू॒र्व्यम् । राट् । तु॒रः । वि॒शाम् । अङ्गि॑रसाम् । अनु॑ । द्यून् ।
तक्ष॑त् । वज्र॑म् । निऽयु॑तम् । त॒स्तम्भ॑त् । द्याम् । चतुः॑ऽपदे । नर्या॑य । द्वि॒ऽपादे॑ ॥नक्षत् । हवम् । अरुणीः । पूर्व्यम् । राट् । तुरः । विशाम् । अङ्गिरसाम् । अनु । द्यून् ।
तक्षत् । वज्रम् । निऽयुतम् । तस्तम्भत् । द्याम् । चतुःऽपदे । नर्याय । द्विऽपादे ॥nákṣat ǀ hávam ǀ aruṇī́ḥ ǀ pūrvyám ǀ rā́ṭ ǀ turáḥ ǀ viśā́m ǀ áṅgirasām ǀ ánu ǀ dyū́n ǀ
tákṣat ǀ vájram ǀ ní-yutam ǀ tastámbhat ǀ dyā́m ǀ cátuḥ-pade ǀ náryāya ǀ dvi-pā́de ǁnakṣat ǀ havam ǀ aruṇīḥ ǀ pūrvyam ǀ rāṭ ǀ turaḥ ǀ viśām ǀ aṅgirasām ǀ anu ǀ dyūn ǀ
takṣat ǀ vajram ǀ ni-yutam ǀ tastambhat ǀ dyām ǀ catuḥ-pade ǀ naryāya ǀ dvi-pāde ǁ1.121.3 Aṣṭaka 1.8.24.3Anuvāka 1.18.3
-
Ṛk 4
अ॒स्य मदे॑ स्व॒र्यं॑ दा ऋ॒तायापी॑वृतमु॒स्रिया॑णा॒मनी॑कं ।
यद्ध॑ प्र॒सर्गे॑ त्रिक॒कुम्नि॒वर्त॒दप॒ द्रुहो॒ मानु॑षस्य॒ दुरो॑ वः ॥अस्य मदे स्वर्यं दा ऋतायापीवृतम् उस्रियाणाम् अनीकम् |
यद् ध प्रसर्गे त्रिककुम् निवर्तद् अप द्रुहो मानुषस्य दुरो वः ||asyá máde svaryám dā ṛtā́yā́pīvṛtamusríyāṇāmánīkam ǀ
yáddha prasárge trikakúmnivártadápa drúho mā́nuṣasya dúro vaḥ ǁasya made svaryaṃ dā ṛtāyāpīvṛtam usriyāṇām anīkam |
yad dha prasarge trikakum nivartad apa druho mānuṣasya duro vaḥ ||अ॒स्य । मदे॑ । स्व॒र्य॑म् । दाः॒ । ऋ॒ताय॑ । अपि॑ऽवृतम् । उ॒स्रिया॑णाम् । अनी॑कम् ।
यत् । ह॒ । प्र॒ऽसर्गे॑ । त्रि॒ऽक॒कुप् । नि॒ऽवर्त॑त् । अप॑ । द्रुहः॑ । मानु॑षस्य । दुरः॑ । व॒रिति॑ वः ॥अस्य । मदे । स्वर्यम् । दाः । ऋताय । अपिऽवृतम् । उस्रियाणाम् । अनीकम् ।
यत् । ह । प्रऽसर्गे । त्रिऽककुप् । निऽवर्तत् । अप । द्रुहः । मानुषस्य । दुरः । वरिति वः ॥asyá ǀ máde ǀ svaryám ǀ dāḥ ǀ ṛtā́ya ǀ ápi-vṛtam ǀ usríyāṇām ǀ ánīkam ǀ
yát ǀ ha ǀ pra-sárge ǀ tri-kakúp ǀ ni-vártat ǀ ápa ǀ drúhaḥ ǀ mā́nuṣasya ǀ dúraḥ ǀ varíti vaḥ ǁasya ǀ made ǀ svaryam ǀ dāḥ ǀ ṛtāya ǀ api-vṛtam ǀ usriyāṇām ǀ anīkam ǀ
yat ǀ ha ǀ pra-sarge ǀ tri-kakup ǀ ni-vartat ǀ apa ǀ druhaḥ ǀ mānuṣasya ǀ duraḥ ǀ variti vaḥ ǁ1.121.4 Aṣṭaka 1.8.24.4Anuvāka 1.18.4
-
Ṛk 5
तुभ्यं॒ पयो॒ यत्पि॒तरा॒वनी॑तां॒ राधः॑ सु॒रेत॑स्तु॒रणे॑ भुर॒ण्यू ।
शुचि॒ यत्ते॒ रेक्ण॒ आय॑जंत सब॒र्दुघा॑याः॒ पय॑ उ॒स्रिया॑याः ॥तुभ्यम् पयो यत् पितराव् अनीतां राधः सुरेतस् तुरणे भुरण्यू |
शुचि यत् ते रेक्ण आयजन्त सबर्दुघायाः पय उस्रियायाः ||túbhyam páyo yátpitárāvánītām rā́dhaḥ surétasturáṇe bhuraṇyū́ ǀ
śúci yátte rékṇa ā́yajanta sabardúghāyāḥ páya usríyāyāḥ ǁtubhyam payo yat pitarāv anītāṃ rādhaḥ suretas turaṇe bhuraṇyū |
śuci yat te rekṇa āyajanta sabardughāyāḥ paya usriyāyāḥ ||तुभ्य॑म् । पयः॑ । यत् । पि॒तरौ॑ । अनी॑ताम् । राधः॑ । सु॒ऽरेतः॑ । तु॒रणे॑ । भु॒र॒ण्यू इति॑ ।
शुचि॑ । यत् । ते॒ । रेक्णः॑ । अय॑जन्त । स॒बः॒ऽदुघा॑याः । पयः॑ । उ॒स्रिया॑याः ॥तुभ्यम् । पयः । यत् । पितरौ । अनीताम् । राधः । सुऽरेतः । तुरणे । भुरण्यू इति ।
शुचि । यत् । ते । रेक्णः । अयजन्त । सबःऽदुघायाः । पयः । उस्रियायाः ॥túbhyam ǀ páyaḥ ǀ yát ǀ pitárau ǀ ánītām ǀ rā́dhaḥ ǀ su-rétaḥ ǀ turáṇe ǀ bhuraṇyū́ íti ǀ
śúci ǀ yát ǀ te ǀ rékṇaḥ ǀ áyajanta ǀ sabaḥ-dúghāyāḥ ǀ páyaḥ ǀ usríyāyāḥ ǁtubhyam ǀ payaḥ ǀ yat ǀ pitarau ǀ anītām ǀ rādhaḥ ǀ su-retaḥ ǀ turaṇe ǀ bhuraṇyū iti ǀ
śuci ǀ yat ǀ te ǀ rekṇaḥ ǀ ayajanta ǀ sabaḥ-dughāyāḥ ǀ payaḥ ǀ usriyāyāḥ ǁ1.121.5 Aṣṭaka 1.8.24.5Anuvāka 1.18.5
-
Ṛk 6
अध॒ प्र ज॑ज्ञे त॒रणि॑र्ममत्तु॒ प्र रो॑च्य॒स्या उ॒षसो॒ न सूरः॑ ।
इंदु॒र्येभि॒राष्ट॒ स्वेदु॑हव्यैः स्रु॒वेण॑ सिं॒चंज॒रणा॒भि धाम॑ ॥अध प्र जज्ञे तरणिर् ममत्तु प्र रोच्य् अस्या उषसो न सूरः |
इन्दुर् येभिर् आष्ट स्वेदुहव्यैः स्रुवेण सिञ्चञ् जरणाभि धाम ||ádha prá jajñe taráṇirmamattu prá rocyasyā́ uṣáso ná sū́raḥ ǀ
índuryébhirā́ṣṭa svéduhavyaiḥ sruvéṇa siñcáñjaráṇābhí dhā́ma ǁadha pra jajñe taraṇir mamattu pra rocy asyā uṣaso na sūraḥ |
indur yebhir āṣṭa sveduhavyaiḥ sruveṇa siñcañ jaraṇābhi dhāma ||अध॑ । प्र । ज॒ज्ञे॒ । त॒रणिः॑ । म॒म॒त्तु॒ । प्र । रो॒चि॒ । अ॒स्याः । उ॒षसः॑ । न । सूरः॑ ।
इन्दुः॑ । येभिः॑ । आष्ट॑ । स्वऽइदु॑हव्यैः । स्रु॒वेण॑ । सि॒ञ्चन् । ज॒रणा॑ । अ॒भि । धाम॑ ॥अध । प्र । जज्ञे । तरणिः । ममत्तु । प्र । रोचि । अस्याः । उषसः । न । सूरः ।
इन्दुः । येभिः । आष्ट । स्वऽइदुहव्यैः । स्रुवेण । सिञ्चन् । जरणा । अभि । धाम ॥ádha ǀ prá ǀ jajñe ǀ taráṇiḥ ǀ mamattu ǀ prá ǀ roci ǀ asyā́ḥ ǀ uṣásaḥ ǀ ná ǀ sū́raḥ ǀ
índuḥ ǀ yébhiḥ ǀ ā́ṣṭa ǀ svá-íduhavyaiḥ ǀ sruvéṇa ǀ siñcán ǀ jaráṇā ǀ abhí ǀ dhā́ma ǁadha ǀ pra ǀ jajñe ǀ taraṇiḥ ǀ mamattu ǀ pra ǀ roci ǀ asyāḥ ǀ uṣasaḥ ǀ na ǀ sūraḥ ǀ
induḥ ǀ yebhiḥ ǀ āṣṭa ǀ sva-iduhavyaiḥ ǀ sruveṇa ǀ siñcan ǀ jaraṇā ǀ abhi ǀ dhāma ǁ1.121.6 Aṣṭaka 1.8.25.1Anuvāka 1.18.6
-
Ṛk 7
स्वि॒ध्मा यद्व॒नधि॑तिरप॒स्यात्सूरो॑ अध्व॒रे परि॒ रोध॑ना॒ गोः ।
यद्ध॑ प्र॒भासि॒ कृत्व्याँ॒ अनु॒ द्यूनन॑र्विशे प॒श्विषे॑ तु॒राय॑ ॥स्विध्मा यद् वनधितिर् अपस्यात् सूरो अध्वरे परि रोधना गोः |
यद् ध प्रभासि कृत्व्यां अनु द्यून् अनर्विशे पश्विषे तुराय ||svidhmā́ yádvanádhitirapasyā́tsū́ro adhvaré pári ródhanā góḥ ǀ
yáddha prabhā́si kṛ́tvyām̐ ánu dyū́nánarviśe paśvíṣe turā́ya ǁsvidhmā yad vanadhitir apasyāt sūro adhvare pari rodhanā goḥ |
yad dha prabhāsi kṛtvyāṃ anu dyūn anarviśe paśviṣe turāya ||सु॒ऽइ॒ध्मा । यत् । व॒नऽधि॑तिः । अ॒प॒स्यात् । सूरः॑ । अ॒ध्व॒रे । परि॑ । रोध॑ना । गोः ।
यत् । ह॒ । प्र॒ऽभासि॑ । कृत्व्या॑न् । अनु॑ । द्यून् । अन॑र्विशे । प॒शु॒ऽइषे॑ । तु॒राय॑ ॥सुऽइध्मा । यत् । वनऽधितिः । अपस्यात् । सूरः । अध्वरे । परि । रोधना । गोः ।
यत् । ह । प्रऽभासि । कृत्व्यान् । अनु । द्यून् । अनर्विशे । पशुऽइषे । तुराय ॥su-idhmā́ ǀ yát ǀ vaná-dhitiḥ ǀ apasyā́t ǀ sū́raḥ ǀ adhvaré ǀ pári ǀ ródhanā ǀ góḥ ǀ
yát ǀ ha ǀ pra-bhā́si ǀ kṛ́tvyān ǀ ánu ǀ dyū́n ǀ ánarviśe ǀ paśu-íṣe ǀ turā́ya ǁsu-idhmā ǀ yat ǀ vana-dhitiḥ ǀ apasyāt ǀ sūraḥ ǀ adhvare ǀ pari ǀ rodhanā ǀ goḥ ǀ
yat ǀ ha ǀ pra-bhāsi ǀ kṛtvyān ǀ anu ǀ dyūn ǀ anarviśe ǀ paśu-iṣe ǀ turāya ǁ1.121.7 Aṣṭaka 1.8.25.2Anuvāka 1.18.7
-
Ṛk 8
अ॒ष्टा म॒हो दि॒व आदो॒ हरी॑ इ॒ह द्यु॑म्ना॒साह॑म॒भि यो॑धा॒न उत्सं॑ ।
हरिं॒ यत्ते॑ मं॒दिनं॑ दु॒क्षन्वृ॒धे गोर॑भस॒मद्रि॑भिर्वा॒ताप्यं॑ ॥अष्टा महो दिव आदो हरी इह द्युम्नासाहम् अभि योधान उत्सम् |
हरिं यत् ते मन्दिनं दुक्षन् वृधे गोरभसम् अद्रिभिर् वाताप्यम् ||aṣṭā́ mahó divá ā́do hárī ihá dyumnāsā́hamabhí yodhāná útsam ǀ
hárim yátte mandínam dukṣánvṛdhé górabhasamádribhirvātā́pyam ǁaṣṭā maho diva ādo harī iha dyumnāsāham abhi yodhāna utsam |
hariṃ yat te mandinaṃ dukṣan vṛdhe gorabhasam adribhir vātāpyam ||अ॒ष्टा । म॒हः । दि॒वः । आदः॑ । हरी॒ इति॑ । इ॒ह । द्यु॒म्न॒ऽसह॑म् । अ॒भि । यो॒धा॒नः । उत्स॑म् ।
हरि॑म् । यत् । ते॒ । म॒न्दिन॑म् । धु॒क्षन् । वृ॒धे । गोऽर॑भसम् । अद्रि॑ऽभिः । वा॒ताप्य॑म् ॥अष्टा । महः । दिवः । आदः । हरी इति । इह । द्युम्नऽसहम् । अभि । योधानः । उत्सम् ।
हरिम् । यत् । ते । मन्दिनम् । धुक्षन् । वृधे । गोऽरभसम् । अद्रिऽभिः । वाताप्यम् ॥aṣṭā́ ǀ maháḥ ǀ diváḥ ǀ ā́daḥ ǀ hárī íti ǀ ihá ǀ dyumna-sáham ǀ abhí ǀ yodhānáḥ ǀ útsam ǀ
hárim ǀ yát ǀ te ǀ mandínam ǀ dhukṣán ǀ vṛdhé ǀ gó-rabhasam ǀ ádri-bhiḥ ǀ vātā́pyam ǁaṣṭā ǀ mahaḥ ǀ divaḥ ǀ ādaḥ ǀ harī iti ǀ iha ǀ dyumna-saham ǀ abhi ǀ yodhānaḥ ǀ utsam ǀ
harim ǀ yat ǀ te ǀ mandinam ǀ dhukṣan ǀ vṛdhe ǀ go-rabhasam ǀ adri-bhiḥ ǀ vātāpyam ǁ1.121.8 Aṣṭaka 1.8.25.3Anuvāka 1.18.8
-
Ṛk 9
त्वमा॑य॒सं प्रति॑ वर्तयो॒ गोर्दि॒वो अश्मा॑न॒मुप॑नीत॒मृभ्वा॑ ।
कुत्सा॑य॒ यत्र॑ पुरुहूत व॒न्वंछुष्ण॑मनं॒तैः प॑रि॒यासि॑ व॒धैः ॥त्वम् आयसम् प्रति वर्तयो गोर् दिवो अश्मानम् उपनीतम् ऋभ्वा |
कुत्साय यत्र पुरुहूत वन्वञ् छुष्णम् अनन्तैः परियासि वधैः ||tvámāyasám práti vartayo górdivó áśmānamúpanītamṛ́bhvā ǀ
kútsāya yátra puruhūta vanváñchúṣṇamanantáiḥ pariyā́si vadháiḥ ǁtvam āyasam prati vartayo gor divo aśmānam upanītam ṛbhvā |
kutsāya yatra puruhūta vanvañ chuṣṇam anantaiḥ pariyāsi vadhaiḥ ||त्वम् । आ॒य॒सम् । प्रति॑ । व॒र्त॒यः॒ । गोः । दि॒वः । अश्मा॑नम् । उप॑ऽनीतम् । ऋभ्वा॑ ।
कुत्सा॑य । यत्र॑ । पु॒रु॒ऽहू॒त॒ । व॒न्वन् । शुष्ण॑म् । अ॒न॒न्तैः । प॒रि॒ऽयासि॑ । व॒धैः ॥त्वम् । आयसम् । प्रति । वर्तयः । गोः । दिवः । अश्मानम् । उपऽनीतम् । ऋभ्वा ।
कुत्साय । यत्र । पुरुऽहूत । वन्वन् । शुष्णम् । अनन्तैः । परिऽयासि । वधैः ॥tvám ǀ āyasám ǀ práti ǀ vartayaḥ ǀ góḥ ǀ diváḥ ǀ áśmānam ǀ úpa-nītam ǀ ṛ́bhvā ǀ
kútsāya ǀ yátra ǀ puru-hūta ǀ vanván ǀ śúṣṇam ǀ anantáiḥ ǀ pari-yā́si ǀ vadháiḥ ǁtvam ǀ āyasam ǀ prati ǀ vartayaḥ ǀ goḥ ǀ divaḥ ǀ aśmānam ǀ upa-nītam ǀ ṛbhvā ǀ
kutsāya ǀ yatra ǀ puru-hūta ǀ vanvan ǀ śuṣṇam ǀ anantaiḥ ǀ pari-yāsi ǀ vadhaiḥ ǁ1.121.9 Aṣṭaka 1.8.25.4Anuvāka 1.18.9
-
Ṛk 10
पु॒रा यत्सूर॒स्तम॑सो॒ अपी॑ते॒स्तम॑द्रिवः फलि॒गं हे॒तिम॑स्य ।
शुष्ण॑स्य चि॒त्परि॑हितं॒ यदोजो॑ दि॒वस्परि॒ सुग्र॑थितं॒ तदादः॑ ॥पुरा यत् सूरस् तमसो अपीतेस् तम् अद्रिवः फलिगं हेतिम् अस्य |
शुष्णस्य चित् परिहितं यद् ओजो दिवस् परि सुग्रथितं तद् आदः ||purā́ yátsū́rastámaso ápītestámadrivaḥ phaligám hetímasya ǀ
śúṣṇasya citpárihitam yádójo diváspári súgrathitam tádā́daḥ ǁpurā yat sūras tamaso apītes tam adrivaḥ phaligaṃ hetim asya |
śuṣṇasya cit parihitaṃ yad ojo divas pari sugrathitaṃ tad ādaḥ ||पु॒रा । यत् । सूरः॑ । तम॑सः । अपि॑ऽइतेः । तम् । अ॒द्रि॒ऽवः॒ । फ॒लि॒ऽगम् । हे॒तिम् । अ॒स्य॒ ।
शुष्ण॑स्य । चि॒त् । परि॑ऽहितम् । यत् । ओजः॑ । दि॒वः । परि॑ । सुऽग्र॑थितम् । तत् । आ । अ॒द॒रित्य॑दः ॥पुरा । यत् । सूरः । तमसः । अपिऽइतेः । तम् । अद्रिऽवः । फलिऽगम् । हेतिम् । अस्य ।
शुष्णस्य । चित् । परिऽहितम् । यत् । ओजः । दिवः । परि । सुऽग्रथितम् । तत् । आ । अदरित्यदः ॥purā́ ǀ yát ǀ sū́raḥ ǀ támasaḥ ǀ ápi-iteḥ ǀ tám ǀ adri-vaḥ ǀ phali-gám ǀ hetím ǀ asya ǀ
śúṣṇasya ǀ cit ǀ pári-hitam ǀ yát ǀ ójaḥ ǀ diváḥ ǀ pári ǀ sú-grathitam ǀ tát ǀ ā́ ǀ adarítyadaḥ ǁpurā ǀ yat ǀ sūraḥ ǀ tamasaḥ ǀ api-iteḥ ǀ tam ǀ adri-vaḥ ǀ phali-gam ǀ hetim ǀ asya ǀ
śuṣṇasya ǀ cit ǀ pari-hitam ǀ yat ǀ ojaḥ ǀ divaḥ ǀ pari ǀ su-grathitam ǀ tat ǀ ā ǀ adarityadaḥ ǁ1.121.10 Aṣṭaka 1.8.25.5Anuvāka 1.18.10
-
Ṛk 11
अनु॑ त्वा म॒ही पाज॑सी अच॒क्रे द्यावा॒क्षामा॑ मदतामिंद्र॒ कर्म॑न् ।
त्वं वृ॒त्रमा॒शया॑नं सि॒रासु॑ म॒हो वज्रे॑ण सिष्वपो व॒राहुं॑ ॥अनु त्वा मही पाजसी अचक्रे द्यावाक्षामा मदताम् इन्द्र कर्मन् |
त्वं वृत्रम् आशयानं सिरासु महो वज्रेण सिष्वपो वराहुम् ||ánu tvā mahī́ pā́jasī acakré dyā́vākṣā́mā madatāmindra kárman ǀ
tvám vṛtrámāśáyānam sirā́su mahó vájreṇa siṣvapo varā́hum ǁanu tvā mahī pājasī acakre dyāvākṣāmā madatām indra karman |
tvaṃ vṛtram āśayānaṃ sirāsu maho vajreṇa siṣvapo varāhum ||अनु॑ । त्वा॒ । म॒ही इति॑ । पाज॑सी॒ इति॑ । अ॒च॒क्रे इति॑ । द्यावा॒क्षामा॑ । म॒द॒ता॒म् । इ॒न्द्र॒ । कर्म॑न् ।
त्वम् । वृ॒त्रम् । आ॒ऽशया॑नम् । सि॒रासु॑ । म॒हः । वज्रे॑ण । सि॒स्व॒पः॒ । व॒राहु॑म् ॥अनु । त्वा । मही इति । पाजसी इति । अचक्रे इति । द्यावाक्षामा । मदताम् । इन्द्र । कर्मन् ।
त्वम् । वृत्रम् । आऽशयानम् । सिरासु । महः । वज्रेण । सिस्वपः । वराहुम् ॥ánu ǀ tvā ǀ mahī́ íti ǀ pā́jasī íti ǀ acakré íti ǀ dyā́vākṣā́mā ǀ madatām ǀ indra ǀ kárman ǀ
tvám ǀ vṛtrám ǀ ā-śáyānam ǀ sirā́su ǀ maháḥ ǀ vájreṇa ǀ sisvapaḥ ǀ varā́hum ǁanu ǀ tvā ǀ mahī iti ǀ pājasī iti ǀ acakre iti ǀ dyāvākṣāmā ǀ madatām ǀ indra ǀ karman ǀ
tvam ǀ vṛtram ǀ ā-śayānam ǀ sirāsu ǀ mahaḥ ǀ vajreṇa ǀ sisvapaḥ ǀ varāhum ǁ1.121.11 Aṣṭaka 1.8.26.1Anuvāka 1.18.11
-
Ṛk 12
त्वमिं॑द्र॒ नर्यो॒ याँ अवो॒ नॄंतिष्ठा॒ वात॑स्य सु॒युजो॒ वहि॑ष्ठान् ।
यं ते॑ का॒व्य उ॒शना॑ मं॒दिनं॒ दाद्वृ॑त्र॒हणं॒ पार्यं॑ ततक्ष॒ वज्रं॑ ॥त्वम् इन्द्र नर्यो यां अवो नॄन् तिष्ठा वातस्य सुयुजो वहिष्ठान् |
यं ते काव्य उशना मन्दिनं दाद् वृत्रहणम् पार्यं ततक्ष वज्रम् ||tvámindra náryo yā́m̐ ávo nṝ́ntíṣṭhā vā́tasya suyújo váhiṣṭhān ǀ
yám te kāvyá uśánā mandínam dā́dvṛtraháṇam pā́ryam tatakṣa vájram ǁtvam indra naryo yāṃ avo nṝn tiṣṭhā vātasya suyujo vahiṣṭhān |
yaṃ te kāvya uśanā mandinaṃ dād vṛtrahaṇam pāryaṃ tatakṣa vajram ||त्वम् । इ॒न्द्र॒ । नर्यः॑ । यान् । अवः॑ । नॄन् । तिष्ठ॑ । वात॑स्य । सु॒ऽयुजः॑ । वहि॑ष्ठान् ।
यम् । ते॒ । का॒व्यः । उ॒शना॑ । म॒न्दिन॑म् । दात् । वृ॒त्र॒ऽहन॑म् । पार्य॑म् । त॒त॒क्ष॒ । वज्र॑म् ॥त्वम् । इन्द्र । नर्यः । यान् । अवः । नॄन् । तिष्ठ । वातस्य । सुऽयुजः । वहिष्ठान् ।
यम् । ते । काव्यः । उशना । मन्दिनम् । दात् । वृत्रऽहनम् । पार्यम् । ततक्ष । वज्रम् ॥tvám ǀ indra ǀ náryaḥ ǀ yā́n ǀ ávaḥ ǀ nṝ́n ǀ tíṣṭha ǀ vā́tasya ǀ su-yújaḥ ǀ váhiṣṭhān ǀ
yám ǀ te ǀ kāvyáḥ ǀ uśánā ǀ mandínam ǀ dā́t ǀ vṛtra-hánam ǀ pā́ryam ǀ tatakṣa ǀ vájram ǁtvam ǀ indra ǀ naryaḥ ǀ yān ǀ avaḥ ǀ nṝn ǀ tiṣṭha ǀ vātasya ǀ su-yujaḥ ǀ vahiṣṭhān ǀ
yam ǀ te ǀ kāvyaḥ ǀ uśanā ǀ mandinam ǀ dāt ǀ vṛtra-hanam ǀ pāryam ǀ tatakṣa ǀ vajram ǁ1.121.12 Aṣṭaka 1.8.26.2Anuvāka 1.18.12
-
Ṛk 13
त्वं सूरो॑ ह॒रितो॑ रामयो॒ नॄन्भर॑च्च॒क्रमेत॑शो॒ नायमिं॑द्र ।
प्रास्य॑ पा॒रं न॑व॒तिं ना॒व्या॑ना॒मपि॑ क॒र्तम॑वर्त॒योऽय॑ज्यून् ॥त्वं सूरो हरितो रामयो नॄन् भरच् चक्रम् एतशो नायम् इन्द्र |
प्रास्य पारं नवतिं नाव्यानाम् अपि कर्तम् अवर्तयो ऽयज्यून् ||tvám sū́ro haríto rāmayo nṝ́nbháraccakrámétaśo nā́yámindra ǀ
prā́sya pārám navatím nāvyā́nāmápi kartámavartayó’yajyūn ǁtvaṃ sūro harito rāmayo nṝn bharac cakram etaśo nāyam indra |
prāsya pāraṃ navatiṃ nāvyānām api kartam avartayo 'yajyūn ||त्वम् । सूरः॑ । ह॒रितः॑ । र॒म॒यः॒ । नॄन् । भर॑त् । च॒क्रम् । एत॑शः । न । अ॒यम् । इ॒न्द्र॒ ।
प्र॒ऽअस्य॑ । पा॒रम् । न॒व॒तिम् । ना॒व्या॑नाम् । अपि॑ । क॒र्तम् । अ॒व॒र्त॒यः॒ । अय॑ज्यून् ॥त्वम् । सूरः । हरितः । रमयः । नॄन् । भरत् । चक्रम् । एतशः । न । अयम् । इन्द्र ।
प्रऽअस्य । पारम् । नवतिम् । नाव्यानाम् । अपि । कर्तम् । अवर्तयः । अयज्यून् ॥tvám ǀ sū́raḥ ǀ harítaḥ ǀ ramayaḥ ǀ nṝ́n ǀ bhárat ǀ cakrám ǀ étaśaḥ ǀ ná ǀ ayám ǀ indra ǀ
pra-ásya ǀ pārám ǀ navatím ǀ nāvyā́nām ǀ ápi ǀ kartám ǀ avartayaḥ ǀ áyajyūn ǁtvam ǀ sūraḥ ǀ haritaḥ ǀ ramayaḥ ǀ nṝn ǀ bharat ǀ cakram ǀ etaśaḥ ǀ na ǀ ayam ǀ indra ǀ
pra-asya ǀ pāram ǀ navatim ǀ nāvyānām ǀ api ǀ kartam ǀ avartayaḥ ǀ ayajyūn ǁ1.121.13 Aṣṭaka 1.8.26.3Anuvāka 1.18.13
-
Ṛk 14
त्वं नो॑ अ॒स्या इं॑द्र दु॒र्हणा॑याः पा॒हि व॑ज्रिवो दुरि॒ताद॒भीके॑ ।
प्र नो॒ वाजा॑न्र॒थ्यो॒३॒॑ अश्व॑बुध्यानि॒षे यं॑धि॒ श्रव॑से सू॒नृता॑यै ॥त्वं नो अस्या इन्द्र दुर्हणायाः पाहि वज्रिवो दुरिताद् अभीके |
प्र नो वाजान् रथ्यो अश्वबुध्यान् इषे यन्धि श्रवसे सूनृतायै ||tvám no asyā́ indra durháṇāyāḥ pāhí vajrivo duritā́dabhī́ke ǀ
prá no vā́jānrathyó áśvabudhyāniṣé yandhi śrávase sūnṛ́tāyai ǁtvaṃ no asyā indra durhaṇāyāḥ pāhi vajrivo duritād abhīke |
pra no vājān rathyo aśvabudhyān iṣe yandhi śravase sūnṛtāyai ||त्वम् । नः॒ । अ॒स्याः । इ॒न्द्र॒ । दुः॒ऽहना॑याः । पा॒हि । व॒ज्रि॒ऽवः॒ । दुः॒ऽइ॒तात् । अ॒भीके॑ ।
प्र । नः॒ । वाजा॑न् । र॒थ्यः॑ । अश्व॑ऽबुध्यान् । इ॒षे । य॒न्धि॒ । श्रव॑से । सू॒नृता॑यै ॥त्वम् । नः । अस्याः । इन्द्र । दुःऽहनायाः । पाहि । वज्रिऽवः । दुःऽइतात् । अभीके ।
प्र । नः । वाजान् । रथ्यः । अश्वऽबुध्यान् । इषे । यन्धि । श्रवसे । सूनृतायै ॥tvám ǀ naḥ ǀ asyā́ḥ ǀ indra ǀ duḥ-hánāyāḥ ǀ pāhí ǀ vajri-vaḥ ǀ duḥ-itā́t ǀ abhī́ke ǀ
prá ǀ naḥ ǀ vā́jān ǀ rathyáḥ ǀ áśva-budhyān ǀ iṣé ǀ yandhi ǀ śrávase ǀ sūnṛ́tāyai ǁtvam ǀ naḥ ǀ asyāḥ ǀ indra ǀ duḥ-hanāyāḥ ǀ pāhi ǀ vajri-vaḥ ǀ duḥ-itāt ǀ abhīke ǀ
pra ǀ naḥ ǀ vājān ǀ rathyaḥ ǀ aśva-budhyān ǀ iṣe ǀ yandhi ǀ śravase ǀ sūnṛtāyai ǁ1.121.14 Aṣṭaka 1.8.26.4Anuvāka 1.18.14
-
Ṛk 15
मा सा ते॑ अ॒स्मत्सु॑म॒तिर्वि द॑स॒द्वाज॑प्रमहः॒ समिषो॑ वरंत ।
आ नो॑ भज मघव॒न्गोष्व॒र्यो मंहि॑ष्ठास्ते सध॒मादः॑ स्याम ॥मा सा ते अस्मत् सुमतिर् वि दसद् वाजप्रमहः सम् इषो वरन्त |
आ नो भज मघवन् गोष्व् अर्यो मंहिष्ठास् ते सधमादः स्याम ||mā́ sā́ te asmátsumatírví dasadvā́japramahaḥ sámíṣo varanta ǀ
ā́ no bhaja maghavangóṣvaryó máṃhiṣṭhāste sadhamā́daḥ syāma ǁmā sā te asmat sumatir vi dasad vājapramahaḥ sam iṣo varanta |
ā no bhaja maghavan goṣv aryo maṃhiṣṭhās te sadhamādaḥ syāma ||मा । सा । ते॒ । अ॒स्मत् । सु॒ऽम॒तिः । वि । द॒स॒त् । वाज॑ऽप्रमहः । सम् । इषः॑ । व॒र॒न्त॒ ।
आ । नः॒ । भ॒ज॒ । म॒घ॒ऽव॒न् । गोषु॑ । अ॒र्यः । मंहि॑ष्ठाः । ते॒ । स॒ध॒ऽमादः॑ । स्या॒म॒ ॥मा । सा । ते । अस्मत् । सुऽमतिः । वि । दसत् । वाजऽप्रमहः । सम् । इषः । वरन्त ।
आ । नः । भज । मघऽवन् । गोषु । अर्यः । मंहिष्ठाः । ते । सधऽमादः । स्याम ॥mā́ ǀ sā́ ǀ te ǀ asmát ǀ su-matíḥ ǀ ví ǀ dasat ǀ vā́ja-pramahaḥ ǀ sám ǀ íṣaḥ ǀ varanta ǀ
ā́ ǀ naḥ ǀ bhaja ǀ magha-van ǀ góṣu ǀ aryáḥ ǀ máṃhiṣṭhāḥ ǀ te ǀ sadha-mā́daḥ ǀ syāma ǁmā ǀ sā ǀ te ǀ asmat ǀ su-matiḥ ǀ vi ǀ dasat ǀ vāja-pramahaḥ ǀ sam ǀ iṣaḥ ǀ varanta ǀ
ā ǀ naḥ ǀ bhaja ǀ magha-van ǀ goṣu ǀ aryaḥ ǀ maṃhiṣṭhāḥ ǀ te ǀ sadha-mādaḥ ǀ syāma ǁ1.121.15 Aṣṭaka 1.8.26.5Anuvāka 1.18.15
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.