Ṛgveda · Maṇḍala 1 · Sūkta 121
Ṛk 1.121.13
Saṃhitā
त्वं सूरो॑ ह॒रितो॑ रामयो॒ नॄन्भर॑च्च॒क्रमेत॑शो॒ नायमिं॑द्र ।
प्रास्य॑ पा॒रं न॑व॒तिं ना॒व्या॑ना॒मपि॑ क॒र्तम॑वर्त॒योऽय॑ज्यून् ॥
त्वं सूरो हरितो रामयो नॄन् भरच् चक्रम् एतशो नायम् इन्द्र |
प्रास्य पारं नवतिं नाव्यानाम् अपि कर्तम् अवर्तयो ऽयज्यून् ||
tvám sū́ro haríto rāmayo nṝ́nbháraccakrámétaśo nā́yámindra ǀ
prā́sya pārám navatím nāvyā́nāmápi kartámavartayó’yajyūn ǁ
tvaṃ sūro harito rāmayo nṝn bharac cakram etaśo nāyam indra |
prāsya pāraṃ navatiṃ nāvyānām api kartam avartayo 'yajyūn ||
Padapāṭha
त्वम् । सूरः॑ । ह॒रितः॑ । र॒म॒यः॒ । नॄन् । भर॑त् । च॒क्रम् । एत॑शः । न । अ॒यम् । इ॒न्द्र॒ ।
प्र॒ऽअस्य॑ । पा॒रम् । न॒व॒तिम् । ना॒व्या॑नाम् । अपि॑ । क॒र्तम् । अ॒व॒र्त॒यः॒ । अय॑ज्यून् ॥
त्वम् । सूरः । हरितः । रमयः । नॄन् । भरत् । चक्रम् । एतशः । न । अयम् । इन्द्र ।
प्रऽअस्य । पारम् । नवतिम् । नाव्यानाम् । अपि । कर्तम् । अवर्तयः । अयज्यून् ॥
tvám ǀ sū́raḥ ǀ harítaḥ ǀ ramayaḥ ǀ nṝ́n ǀ bhárat ǀ cakrám ǀ étaśaḥ ǀ ná ǀ ayám ǀ indra ǀ
pra-ásya ǀ pārám ǀ navatím ǀ nāvyā́nām ǀ ápi ǀ kartám ǀ avartayaḥ ǀ áyajyūn ǁ
tvam ǀ sūraḥ ǀ haritaḥ ǀ ramayaḥ ǀ nṝn ǀ bharat ǀ cakram ǀ etaśaḥ ǀ na ǀ ayam ǀ indra ǀ
pra-asya ǀ pāram ǀ navatim ǀ nāvyānām ǀ api ǀ kartam ǀ avartayaḥ ǀ ayajyūn ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.121.13
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.26.03
- Maṇḍala · Anuvāka · Ṛk
- 1.18.013
- Devatā देवता
- Indra Or Viśvedevās
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.