Ṛgveda · Maṇḍala 1 · Sūkta 121
Ṛk 1.121.10
Saṃhitā
पु॒रा यत्सूर॒स्तम॑सो॒ अपी॑ते॒स्तम॑द्रिवः फलि॒गं हे॒तिम॑स्य ।
शुष्ण॑स्य चि॒त्परि॑हितं॒ यदोजो॑ दि॒वस्परि॒ सुग्र॑थितं॒ तदादः॑ ॥
पुरा यत् सूरस् तमसो अपीतेस् तम् अद्रिवः फलिगं हेतिम् अस्य |
शुष्णस्य चित् परिहितं यद् ओजो दिवस् परि सुग्रथितं तद् आदः ||
purā́ yátsū́rastámaso ápītestámadrivaḥ phaligám hetímasya ǀ
śúṣṇasya citpárihitam yádójo diváspári súgrathitam tádā́daḥ ǁ
purā yat sūras tamaso apītes tam adrivaḥ phaligaṃ hetim asya |
śuṣṇasya cit parihitaṃ yad ojo divas pari sugrathitaṃ tad ādaḥ ||
Padapāṭha
पु॒रा । यत् । सूरः॑ । तम॑सः । अपि॑ऽइतेः । तम् । अ॒द्रि॒ऽवः॒ । फ॒लि॒ऽगम् । हे॒तिम् । अ॒स्य॒ ।
शुष्ण॑स्य । चि॒त् । परि॑ऽहितम् । यत् । ओजः॑ । दि॒वः । परि॑ । सुऽग्र॑थितम् । तत् । आ । अ॒द॒रित्य॑दः ॥
पुरा । यत् । सूरः । तमसः । अपिऽइतेः । तम् । अद्रिऽवः । फलिऽगम् । हेतिम् । अस्य ।
शुष्णस्य । चित् । परिऽहितम् । यत् । ओजः । दिवः । परि । सुऽग्रथितम् । तत् । आ । अदरित्यदः ॥
purā́ ǀ yát ǀ sū́raḥ ǀ támasaḥ ǀ ápi-iteḥ ǀ tám ǀ adri-vaḥ ǀ phali-gám ǀ hetím ǀ asya ǀ
śúṣṇasya ǀ cit ǀ pári-hitam ǀ yát ǀ ójaḥ ǀ diváḥ ǀ pári ǀ sú-grathitam ǀ tát ǀ ā́ ǀ adarítyadaḥ ǁ
purā ǀ yat ǀ sūraḥ ǀ tamasaḥ ǀ api-iteḥ ǀ tam ǀ adri-vaḥ ǀ phali-gam ǀ hetim ǀ asya ǀ
śuṣṇasya ǀ cit ǀ pari-hitam ǀ yat ǀ ojaḥ ǀ divaḥ ǀ pari ǀ su-grathitam ǀ tat ǀ ā ǀ adarityadaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.121.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.25.05
- Maṇḍala · Anuvāka · Ṛk
- 1.18.010
- Devatā देवता
- Indra Or Viśvedevās
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.