Ṛgveda · Maṇḍala 1 · Sūkta 121
Ṛk 1.121.14
Saṃhitā
त्वं नो॑ अ॒स्या इं॑द्र दु॒र्हणा॑याः पा॒हि व॑ज्रिवो दुरि॒ताद॒भीके॑ ।
प्र नो॒ वाजा॑न्र॒थ्यो॒३॒॑ अश्व॑बुध्यानि॒षे यं॑धि॒ श्रव॑से सू॒नृता॑यै ॥
त्वं नो अस्या इन्द्र दुर्हणायाः पाहि वज्रिवो दुरिताद् अभीके |
प्र नो वाजान् रथ्यो अश्वबुध्यान् इषे यन्धि श्रवसे सूनृतायै ||
tvám no asyā́ indra durháṇāyāḥ pāhí vajrivo duritā́dabhī́ke ǀ
prá no vā́jānrathyó áśvabudhyāniṣé yandhi śrávase sūnṛ́tāyai ǁ
tvaṃ no asyā indra durhaṇāyāḥ pāhi vajrivo duritād abhīke |
pra no vājān rathyo aśvabudhyān iṣe yandhi śravase sūnṛtāyai ||
Padapāṭha
त्वम् । नः॒ । अ॒स्याः । इ॒न्द्र॒ । दुः॒ऽहना॑याः । पा॒हि । व॒ज्रि॒ऽवः॒ । दुः॒ऽइ॒तात् । अ॒भीके॑ ।
प्र । नः॒ । वाजा॑न् । र॒थ्यः॑ । अश्व॑ऽबुध्यान् । इ॒षे । य॒न्धि॒ । श्रव॑से । सू॒नृता॑यै ॥
त्वम् । नः । अस्याः । इन्द्र । दुःऽहनायाः । पाहि । वज्रिऽवः । दुःऽइतात् । अभीके ।
प्र । नः । वाजान् । रथ्यः । अश्वऽबुध्यान् । इषे । यन्धि । श्रवसे । सूनृतायै ॥
tvám ǀ naḥ ǀ asyā́ḥ ǀ indra ǀ duḥ-hánāyāḥ ǀ pāhí ǀ vajri-vaḥ ǀ duḥ-itā́t ǀ abhī́ke ǀ
prá ǀ naḥ ǀ vā́jān ǀ rathyáḥ ǀ áśva-budhyān ǀ iṣé ǀ yandhi ǀ śrávase ǀ sūnṛ́tāyai ǁ
tvam ǀ naḥ ǀ asyāḥ ǀ indra ǀ duḥ-hanāyāḥ ǀ pāhi ǀ vajri-vaḥ ǀ duḥ-itāt ǀ abhīke ǀ
pra ǀ naḥ ǀ vājān ǀ rathyaḥ ǀ aśva-budhyān ǀ iṣe ǀ yandhi ǀ śravase ǀ sūnṛtāyai ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.121.14
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.26.04
- Maṇḍala · Anuvāka · Ṛk
- 1.18.014
- Devatā देवता
- Indra Or Viśvedevās
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.