Sūkta 57
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Savya Āṅgirasa
- Chandas छन्दस्
- Jagatī
Metres by ṛk
1st set of styles jagatī (1, 2, 4); virāḍjagatī (3); bhuriktriṣṭup (5); nicṛjjagatī (6)
2nd set of styles jagatī
-
Ṛk 1
प्र मंहि॑ष्ठाय बृह॒ते बृ॒हद्र॑ये स॒त्यशु॑ष्माय त॒वसे॑ म॒तिं भ॑रे ।
अ॒पामि॑व प्रव॒णे यस्य॑ दु॒र्धरं॒ राधो॑ वि॒श्वायु॒ शव॑से॒ अपा॑वृतं ॥प्र मंहिष्ठाय बृहते बृहद्रये सत्यशुष्माय तवसे मतिम् भरे |
अपाम् इव प्रवणे यस्य दुर्धरं राधो विश्वायु शवसे अपावृतम् ||prá máṃhiṣṭhāya bṛhaté bṛhádraye satyáśuṣmāya taváse matím bhare ǀ
apā́miva pravaṇé yásya durdháram rā́dho viśvā́yu śávase ápāvṛtam ǁpra maṃhiṣṭhāya bṛhate bṛhadraye satyaśuṣmāya tavase matim bhare |
apām iva pravaṇe yasya durdharaṃ rādho viśvāyu śavase apāvṛtam ||प्र । मंहि॑ष्ठाय । बृ॒ह॒ते । बृ॒हत्ऽर॑ये । स॒त्यऽशु॑ष्माय । त॒वसे॑ । म॒तिम् । भ॒रे॒ ।
अ॒पाम्ऽइ॑व । प्र॒व॒णे । यस्य॑ । दुः॒ऽधर॑म् । राधः॑ । वि॒श्वऽआ॑यु । शव॑से । अप॑ऽवृतम् ॥प्र । मंहिष्ठाय । बृहते । बृहत्ऽरये । सत्यऽशुष्माय । तवसे । मतिम् । भरे ।
अपाम्ऽइव । प्रवणे । यस्य । दुःऽधरम् । राधः । विश्वऽआयु । शवसे । अपऽवृतम् ॥prá ǀ máṃhiṣṭhāya ǀ bṛhaté ǀ bṛhát-raye ǀ satyá-śuṣmāya ǀ taváse ǀ matím ǀ bhare ǀ
apā́m-iva ǀ pravaṇé ǀ yásya ǀ duḥ-dháram ǀ rā́dhaḥ ǀ viśvá-āyu ǀ śávase ǀ ápa-vṛtam ǁpra ǀ maṃhiṣṭhāya ǀ bṛhate ǀ bṛhat-raye ǀ satya-śuṣmāya ǀ tavase ǀ matim ǀ bhare ǀ
apām-iva ǀ pravaṇe ǀ yasya ǀ duḥ-dharam ǀ rādhaḥ ǀ viśva-āyu ǀ śavase ǀ apa-vṛtam ǁ1.57.1 Aṣṭaka 1.4.22.1Anuvāka 1.10.67
-
Ṛk 2
अध॑ ते॒ विश्व॒मनु॑ हासदि॒ष्टय॒ आपो॑ नि॒म्नेव॒ सव॑ना ह॒विष्म॑तः ।
यत्पर्व॑ते॒ न स॒मशी॑त हर्य॒त इंद्र॑स्य॒ वज्रः॒ श्नथि॑ता हिर॒ण्ययः॑ ॥अध ते विश्वम् अनु हासद् इष्टय आपो निम्नेव सवना हविष्मतः |
यत् पर्वते न समशीत हर्यत इन्द्रस्य वज्रः श्नथिता हिरण्ययः ||ádha te víśvamánu hāsadiṣṭáya ā́po nimnéva sávanā havíṣmataḥ ǀ
yátpárvate ná samáśīta haryatá índrasya vájraḥ śnáthitā hiraṇyáyaḥ ǁadha te viśvam anu hāsad iṣṭaya āpo nimneva savanā haviṣmataḥ |
yat parvate na samaśīta haryata indrasya vajraḥ śnathitā hiraṇyayaḥ ||अध॑ । ते॒ । विश्व॑म् । अनु॑ । ह॒ । अ॒स॒त् । इ॒ष्टये॑ । आपः॑ । नि॒म्नाऽइ॑व । सव॑ना । ह॒विष्म॑तः ।
यत् । पर्व॑ते । न । स॒म्ऽअशी॑त । ह॒र्य॒तः । इन्द्र॑स्य । वज्रः॑ । श्नथि॑ता । हि॒र॒ण्ययः॑ ॥अध । ते । विश्वम् । अनु । ह । असत् । इष्टये । आपः । निम्नाऽइव । सवना । हविष्मतः ।
यत् । पर्वते । न । सम्ऽअशीत । हर्यतः । इन्द्रस्य । वज्रः । श्नथिता । हिरण्ययः ॥ádha ǀ te ǀ víśvam ǀ ánu ǀ ha ǀ asat ǀ iṣṭáye ǀ ā́paḥ ǀ nimnā́-iva ǀ sávanā ǀ havíṣmataḥ ǀ
yát ǀ párvate ǀ ná ǀ sam-áśīta ǀ haryatáḥ ǀ índrasya ǀ vájraḥ ǀ śnáthitā ǀ hiraṇyáyaḥ ǁadha ǀ te ǀ viśvam ǀ anu ǀ ha ǀ asat ǀ iṣṭaye ǀ āpaḥ ǀ nimnā-iva ǀ savanā ǀ haviṣmataḥ ǀ
yat ǀ parvate ǀ na ǀ sam-aśīta ǀ haryataḥ ǀ indrasya ǀ vajraḥ ǀ śnathitā ǀ hiraṇyayaḥ ǁ1.57.2 Aṣṭaka 1.4.22.2Anuvāka 1.10.68
-
Ṛk 3
अ॒स्मै भी॒माय॒ नम॑सा॒ सम॑ध्व॒र उषो॒ न शु॑भ्र॒ आ भ॑रा॒ पनी॑यसे ।
यस्य॒ धाम॒ श्रव॑से॒ नामें॑द्रि॒यं ज्योति॒रका॑रि ह॒रितो॒ नाय॑से ॥अस्मै भीमाय नमसा सम् अध्वर उषो न शुभ्र आ भरा पनीयसे |
यस्य धाम श्रवसे नामेन्द्रियं ज्योतिर् अकारि हरितो नायसे ||asmái bhīmā́ya námasā sámadhvará úṣo ná śubhra ā́ bharā pánīyase ǀ
yásya dhā́ma śrávase nā́mendriyám jyótirákāri haríto nā́yase ǁasmai bhīmāya namasā sam adhvara uṣo na śubhra ā bharā panīyase |
yasya dhāma śravase nāmendriyaṃ jyotir akāri harito nāyase ||अ॒स्मै । भी॒माय॑ । नम॑सा । सम् । अ॒ध्व॒रे । उषः॑ । न । शु॒भ्रे॒ । आ । भ॒र॒ । पनी॑यसे ।
यस्य॑ । धाम॑ । श्रव॑से । नाम॑ । इ॒न्द्रि॒यम् । ज्योतिः॑ । अका॑रि । ह॒रितः॑ । न । अय॑से ॥अस्मै । भीमाय । नमसा । सम् । अध्वरे । उषः । न । शुभ्रे । आ । भर । पनीयसे ।
यस्य । धाम । श्रवसे । नाम । इन्द्रियम् । ज्योतिः । अकारि । हरितः । न । अयसे ॥asmái ǀ bhīmā́ya ǀ námasā ǀ sám ǀ adhvaré ǀ úṣaḥ ǀ ná ǀ śubhre ǀ ā́ ǀ bhara ǀ pánīyase ǀ
yásya ǀ dhā́ma ǀ śrávase ǀ nā́ma ǀ indriyám ǀ jyótiḥ ǀ ákāri ǀ harítaḥ ǀ ná ǀ áyase ǁasmai ǀ bhīmāya ǀ namasā ǀ sam ǀ adhvare ǀ uṣaḥ ǀ na ǀ śubhre ǀ ā ǀ bhara ǀ panīyase ǀ
yasya ǀ dhāma ǀ śravase ǀ nāma ǀ indriyam ǀ jyotiḥ ǀ akāri ǀ haritaḥ ǀ na ǀ ayase ǁ1.57.3 Aṣṭaka 1.4.22.3Anuvāka 1.10.69
-
Ṛk 4
इ॒मे त॑ इंद्र॒ ते व॒यं पु॑रुष्टुत॒ ये त्वा॒रभ्य॒ चरा॑मसि प्रभूवसो ।
न॒हि त्वद॒न्यो गि॑र्वणो॒ गिरः॒ सघ॑त्क्षो॒णीरि॑व॒ प्रति॑ नो हर्य॒ तद्वचः॑ ॥इमे त इन्द्र ते वयम् पुरुष्टुत ये त्वारभ्य चरामसि प्रभूवसो |
नहि त्वद् अन्यो गिर्वणो गिरः सघत् क्षोणीर् इव प्रति नो हर्य तद् वचः ||imé ta indra té vayám puruṣṭuta yé tvārábhya cárāmasi prabhūvaso ǀ
nahí tvádanyó girvaṇo gíraḥ sághatkṣoṇī́riva práti no harya tádvácaḥ ǁime ta indra te vayam puruṣṭuta ye tvārabhya carāmasi prabhūvaso |
nahi tvad anyo girvaṇo giraḥ saghat kṣoṇīr iva prati no harya tad vacaḥ ||इ॒मे । ते॒ । इ॒न्द्र॒ । ते । व॒यम् । पु॒रु॒ऽस्तु॒त॒ । ये । त्वा॒ । आ॒ऽरभ्य॑ । चरा॑मसि । प्र॒भु॒व॒सो॒ इति॑ प्रभुऽवसो ।
न॒हि । त्वत् । अ॒न्यः । गि॒र्व॒णः॒ । गिरः॑ । सघ॑त् । क्षो॒णीःऽइ॑व । प्रति॑ । नः॒ । ह॒र्य॒ । तत् । वचः॑ ॥इमे । ते । इन्द्र । ते । वयम् । पुरुऽस्तुत । ये । त्वा । आऽरभ्य । चरामसि । प्रभुवसो इति प्रभुऽवसो ।
नहि । त्वत् । अन्यः । गिर्वणः । गिरः । सघत् । क्षोणीःऽइव । प्रति । नः । हर्य । तत् । वचः ॥imé ǀ te ǀ indra ǀ té ǀ vayám ǀ puru-stuta ǀ yé ǀ tvā ǀ ā-rábhya ǀ cárāmasi ǀ prabhuvaso íti prabhu-vaso ǀ
nahí ǀ tvát ǀ anyáḥ ǀ girvaṇaḥ ǀ gíraḥ ǀ sághat ǀ kṣoṇī́ḥ-iva ǀ práti ǀ naḥ ǀ harya ǀ tát ǀ vácaḥ ǁime ǀ te ǀ indra ǀ te ǀ vayam ǀ puru-stuta ǀ ye ǀ tvā ǀ ā-rabhya ǀ carāmasi ǀ prabhuvaso iti prabhu-vaso ǀ
nahi ǀ tvat ǀ anyaḥ ǀ girvaṇaḥ ǀ giraḥ ǀ saghat ǀ kṣoṇīḥ-iva ǀ prati ǀ naḥ ǀ harya ǀ tat ǀ vacaḥ ǁ1.57.4 Aṣṭaka 1.4.22.4Anuvāka 1.10.70
-
Ṛk 5
भूरि॑ त इंद्र वी॒र्यं१॒॑ तव॑ स्मस्य॒स्य स्तो॒तुर्म॑घव॒न्काम॒मा पृ॑ण ।
अनु॑ ते॒ द्यौर्बृ॑ह॒ती वी॒र्यं॑ मम इ॒यं च॑ ते पृथि॒वी ने॑म॒ ओज॑से ॥भूरि त इन्द्र वीर्यं तव स्मस्य् अस्य स्तोतुर् मघवन् कामम् आ पृण |
अनु ते द्यौर् बृहती वीर्यम् मम इयं च ते पृथिवी नेम ओजसे ||bhū́ri ta indra vīryám táva smasyasyá stotúrmaghavankā́mamā́ pṛṇa ǀ
ánu te dyáurbṛhatī́ vīryám mama iyám ca te pṛthivī́ nema ójase ǁbhūri ta indra vīryaṃ tava smasy asya stotur maghavan kāmam ā pṛṇa |
anu te dyaur bṛhatī vīryam mama iyaṃ ca te pṛthivī nema ojase ||भूरि॑ । ते॒ । इ॒न्द्र॒ । वी॒र्य॑म् । तव॑ । स्म॒सि॒ । अ॒स्य । स्तो॒तुः । म॒घ॒ऽव॒न् । काम॑म् । आ । पृ॒ण॒ ।
अनु॑ । ते॒ । द्यौः । बृ॒ह॒ती । वी॒र्य॑म् । म॒मे॒ । इ॒यम् । च॒ । ते॒ । पृ॒थि॒वी । ने॒मे॒ । ओज॑से ॥भूरि । ते । इन्द्र । वीर्यम् । तव । स्मसि । अस्य । स्तोतुः । मघऽवन् । कामम् । आ । पृण ।
अनु । ते । द्यौः । बृहती । वीर्यम् । ममे । इयम् । च । ते । पृथिवी । नेमे । ओजसे ॥bhū́ri ǀ te ǀ indra ǀ vīryám ǀ táva ǀ smasi ǀ asyá ǀ stotúḥ ǀ magha-van ǀ kā́mam ǀ ā́ ǀ pṛṇa ǀ
ánu ǀ te ǀ dyáuḥ ǀ bṛhatī́ ǀ vīryám ǀ mame ǀ iyám ǀ ca ǀ te ǀ pṛthivī́ ǀ neme ǀ ójase ǁbhūri ǀ te ǀ indra ǀ vīryam ǀ tava ǀ smasi ǀ asya ǀ stotuḥ ǀ magha-van ǀ kāmam ǀ ā ǀ pṛṇa ǀ
anu ǀ te ǀ dyauḥ ǀ bṛhatī ǀ vīryam ǀ mame ǀ iyam ǀ ca ǀ te ǀ pṛthivī ǀ neme ǀ ojase ǁ1.57.5 Aṣṭaka 1.4.22.5Anuvāka 1.10.71
-
Ṛk 6
त्वं तमिं॑द्र॒ पर्व॑तं म॒हामु॒रुं वज्रे॑ण वज्रिन्पर्व॒शश्च॑कर्तिथ ।
अवा॑सृजो॒ निवृ॑ताः॒ सर्त॒वा अ॒पः स॒त्रा विश्वं॑ दधिषे॒ केव॑लं॒ सहः॑ ॥त्वं तम् इन्द्र पर्वतम् महाम् उरुं वज्रेण वज्रिन् पर्वशश् चकर्तिथ |
अवासृजो निवृताः सर्तवा अपः सत्रा विश्वं दधिषे केवलं सहः ||tvám támindra párvatam mahā́murúm vájreṇa vajrinparvaśáścakartitha ǀ
ávāsṛjo nívṛtāḥ sártavā́ apáḥ satrā́ víśvam dadhiṣe kévalam sáhaḥ ǁtvaṃ tam indra parvatam mahām uruṃ vajreṇa vajrin parvaśaś cakartitha |
avāsṛjo nivṛtāḥ sartavā apaḥ satrā viśvaṃ dadhiṣe kevalaṃ sahaḥ ||त्वम् । तम् । इ॒न्द्र॒ । पर्व॑तम् । म॒हाम् । उ॒रुम् । वज्रे॑ण । व॒ज्रि॒न् । प॒र्व॒ऽशः । च॒क॒र्ति॒थ॒ ।
अव॑ । अ॒सृ॒जः॒ । निऽवृ॑ताः । सर्त॒वै । अ॒पः । स॒त्रा । विश्व॑म् । द॒धि॒षे॒ । केव॑लम् । सहः॑ ॥त्वम् । तम् । इन्द्र । पर्वतम् । महाम् । उरुम् । वज्रेण । वज्रिन् । पर्वऽशः । चकर्तिथ ।
अव । असृजः । निऽवृताः । सर्तवै । अपः । सत्रा । विश्वम् । दधिषे । केवलम् । सहः ॥tvám ǀ tám ǀ indra ǀ párvatam ǀ mahā́m ǀ urúm ǀ vájreṇa ǀ vajrin ǀ parva-śáḥ ǀ cakartitha ǀ
áva ǀ asṛjaḥ ǀ ní-vṛtāḥ ǀ sártavái ǀ apáḥ ǀ satrā́ ǀ víśvam ǀ dadhiṣe ǀ kévalam ǀ sáhaḥ ǁtvam ǀ tam ǀ indra ǀ parvatam ǀ mahām ǀ urum ǀ vajreṇa ǀ vajrin ǀ parva-śaḥ ǀ cakartitha ǀ
ava ǀ asṛjaḥ ǀ ni-vṛtāḥ ǀ sartavai ǀ apaḥ ǀ satrā ǀ viśvam ǀ dadhiṣe ǀ kevalam ǀ sahaḥ ǁ1.57.6 Aṣṭaka 1.4.22.6Anuvāka 1.10.72
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.