Ṛk 1.57.6
Saṃhitā
त्वं तमिं॑द्र॒ पर्व॑तं म॒हामु॒रुं वज्रे॑ण वज्रिन्पर्व॒शश्च॑कर्तिथ ।
अवा॑सृजो॒ निवृ॑ताः॒ सर्त॒वा अ॒पः स॒त्रा विश्वं॑ दधिषे॒ केव॑लं॒ सहः॑ ॥
त्वं तम् इन्द्र पर्वतम् महाम् उरुं वज्रेण वज्रिन् पर्वशश् चकर्तिथ |
अवासृजो निवृताः सर्तवा अपः सत्रा विश्वं दधिषे केवलं सहः ||
tvám támindra párvatam mahā́murúm vájreṇa vajrinparvaśáścakartitha ǀ
ávāsṛjo nívṛtāḥ sártavā́ apáḥ satrā́ víśvam dadhiṣe kévalam sáhaḥ ǁ
tvaṃ tam indra parvatam mahām uruṃ vajreṇa vajrin parvaśaś cakartitha |
avāsṛjo nivṛtāḥ sartavā apaḥ satrā viśvaṃ dadhiṣe kevalaṃ sahaḥ ||
Padapāṭha
त्वम् । तम् । इ॒न्द्र॒ । पर्व॑तम् । म॒हाम् । उ॒रुम् । वज्रे॑ण । व॒ज्रि॒न् । प॒र्व॒ऽशः । च॒क॒र्ति॒थ॒ ।
अव॑ । अ॒सृ॒जः॒ । निऽवृ॑ताः । सर्त॒वै । अ॒पः । स॒त्रा । विश्व॑म् । द॒धि॒षे॒ । केव॑लम् । सहः॑ ॥
त्वम् । तम् । इन्द्र । पर्वतम् । महाम् । उरुम् । वज्रेण । वज्रिन् । पर्वऽशः । चकर्तिथ ।
अव । असृजः । निऽवृताः । सर्तवै । अपः । सत्रा । विश्वम् । दधिषे । केवलम् । सहः ॥
tvám ǀ tám ǀ indra ǀ párvatam ǀ mahā́m ǀ urúm ǀ vájreṇa ǀ vajrin ǀ parva-śáḥ ǀ cakartitha ǀ
áva ǀ asṛjaḥ ǀ ní-vṛtāḥ ǀ sártavái ǀ apáḥ ǀ satrā́ ǀ víśvam ǀ dadhiṣe ǀ kévalam ǀ sáhaḥ ǁ
tvam ǀ tam ǀ indra ǀ parvatam ǀ mahām ǀ urum ǀ vajreṇa ǀ vajrin ǀ parva-śaḥ ǀ cakartitha ǀ
ava ǀ asṛjaḥ ǀ ni-vṛtāḥ ǀ sartavai ǀ apaḥ ǀ satrā ǀ viśvam ǀ dadhiṣe ǀ kevalam ǀ sahaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.057.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.22.06
- Maṇḍala · Anuvāka · Ṛk
- 1.10.072
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Savya Āṅgirasa
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.