Sūkta 44
- Devatā देवता
- 1, 3-14: Agni; 2: Agni, Aśvins, Uṣas
- Ṛṣi ऋषि
- Praskaṇva Kāṇva
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
Metres by ṛk
1st set of styles virāṭsataḥpaṅkti (2, 4, 8, 14); upariṣṭādvirāḍ bṛhatī (1, 5); bhurigbṛhatī (6, 12); nicṛtpathyābṛhatī (7, 11); nicṛdupariṣṭād bṛhatī (3); ārcītriṣṭup (9); virāḍvistārapaṅkti (10); pathyāvṛhatī (13)
2nd set of styles bṛhatī (1, 3, 5, 7, 9, 11, 13); satobṛhatī (2, 4, 6, 8, 10, 12, 14)
-
Ṛk 1
अग्ने॒ विव॑स्वदु॒षस॑श्चि॒त्रं राधो॑ अमर्त्य ।
आ दा॒शुषे॑ जातवेदो वहा॒ त्वम॒द्या दे॒वाँ उ॑ष॒र्बुधः॑ ॥अग्ने विवस्वद् उषसश् चित्रं राधो अमर्त्य |
आ दाशुषे जातवेदो वहा त्वम् अद्या देवां उषर्बुधः ||ágne vívasvaduṣásaścitrám rā́dho amartya ǀ
ā́ dāśúṣe jātavedo vahā tvámadyā́ devā́m̐ uṣarbúdhaḥ ǁagne vivasvad uṣasaś citraṃ rādho amartya |
ā dāśuṣe jātavedo vahā tvam adyā devāṃ uṣarbudhaḥ ||अग्ने॑ । विव॑स्वत् । उ॒षसः॑ । चि॒त्रम् । राधः॑ । अ॒म॒र्त्य॒ ।
आ । दा॒शुषे॑ । जा॒त॒ऽवे॒दः॒ । व॒ह॒ । त्वम् । अ॒द्य । दे॒वान् । उ॒षः॒ऽबुधः॑ ॥अग्ने । विवस्वत् । उषसः । चित्रम् । राधः । अमर्त्य ।
आ । दाशुषे । जातऽवेदः । वह । त्वम् । अद्य । देवान् । उषःऽबुधः ॥ágne ǀ vívasvat ǀ uṣásaḥ ǀ citrám ǀ rā́dhaḥ ǀ amartya ǀ
ā́ ǀ dāśúṣe ǀ jāta-vedaḥ ǀ vaha ǀ tvám ǀ adyá ǀ devā́n ǀ uṣaḥ-búdhaḥ ǁagne ǀ vivasvat ǀ uṣasaḥ ǀ citram ǀ rādhaḥ ǀ amartya ǀ
ā ǀ dāśuṣe ǀ jāta-vedaḥ ǀ vaha ǀ tvam ǀ adya ǀ devān ǀ uṣaḥ-budhaḥ ǁ1.44.1 Aṣṭaka 1.3.28.1Anuvāka 1.9.1
-
Ṛk 2
जुष्टो॒ हि दू॒तो असि॑ हव्य॒वाह॒नोऽग्ने॑ र॒थीर॑ध्व॒राणां॑ ।
स॒जूर॒श्विभ्या॑मु॒षसा॑ सु॒वीर्य॑म॒स्मे धे॑हि॒ श्रवो॑ बृ॒हत् ॥जुष्टो हि दूतो असि हव्यवाहनो ऽग्ने रथीर् अध्वराणाम् |
सजूर् अश्विभ्याम् उषसा सुवीर्यम् अस्मे धेहि श्रवो बृहत् ||júṣṭo hí dūtó ási havyavā́hanó’gne rathī́radhvarā́ṇām ǀ
sajū́raśvíbhyāmuṣásā suvī́ryamasmé dhehi śrávo bṛhát ǁjuṣṭo hi dūto asi havyavāhano 'gne rathīr adhvarāṇām |
sajūr aśvibhyām uṣasā suvīryam asme dhehi śravo bṛhat ||जुष्टः॑ । हि । दू॒तः । असि॑ । ह॒व्य॒ऽवाह॑नः । अग्ने॑ । र॒थीः । अ॒ध्व॒राणा॑म् ।
स॒ऽजूः । अ॒श्विऽभ्या॑म् । उ॒षसा॑ । सु॒ऽवीर्य॑म् । अ॒स्मे इति॑ । धे॒हि॒ । श्रवः॑ । बृ॒हत् ॥जुष्टः । हि । दूतः । असि । हव्यऽवाहनः । अग्ने । रथीः । अध्वराणाम् ।
सऽजूः । अश्विऽभ्याम् । उषसा । सुऽवीर्यम् । अस्मे इति । धेहि । श्रवः । बृहत् ॥júṣṭaḥ ǀ hí ǀ dūtáḥ ǀ ási ǀ havya-vā́hanaḥ ǀ ágne ǀ rathī́ḥ ǀ adhvarā́ṇām ǀ
sa-jū́ḥ ǀ aśví-bhyām ǀ uṣásā ǀ su-vī́ryam ǀ asmé íti ǀ dhehi ǀ śrávaḥ ǀ bṛhát ǁjuṣṭaḥ ǀ hi ǀ dūtaḥ ǀ asi ǀ havya-vāhanaḥ ǀ agne ǀ rathīḥ ǀ adhvarāṇām ǀ
sa-jūḥ ǀ aśvi-bhyām ǀ uṣasā ǀ su-vīryam ǀ asme iti ǀ dhehi ǀ śravaḥ ǀ bṛhat ǁ1.44.2 Aṣṭaka 1.3.28.2Anuvāka 1.9.2
-
Ṛk 3
अ॒द्या दू॒तं वृ॑णीमहे॒ वसु॑म॒ग्निं पु॑रुप्रि॒यं ।
धू॒मके॑तुं॒ भाऋ॑जीकं॒ व्यु॑ष्टिषु य॒ज्ञाना॑मध्वर॒श्रियं॑ ॥अद्या दूतं वृणीमहे वसुम् अग्निम् पुरुप्रियम् |
धूमकेतुम् भाऋजीकं व्युष्टिषु यज्ञानाम् अध्वरश्रियम् ||adyā́ dūtám vṛṇīmahe vásumagním purupriyám ǀ
dhūmáketum bhā́ṛjīkam vyúṣṭiṣu yajñā́nāmadhvaraśríyam ǁadyā dūtaṃ vṛṇīmahe vasum agnim purupriyam |
dhūmaketum bhāṛjīkaṃ vyuṣṭiṣu yajñānām adhvaraśriyam ||अ॒द्य । दू॒तम् । वृ॒णी॒म॒हे॒ । वसु॑म् । अ॒ग्निम् । पु॒रु॒ऽप्रि॒यम् ।
धू॒मऽके॑तुम् । भाःऽऋ॑जीकम् । विऽउ॑ष्टिषु । य॒ज्ञाना॑म् । अ॒ध्व॒र॒ऽश्रिय॑म् ॥अद्य । दूतम् । वृणीमहे । वसुम् । अग्निम् । पुरुऽप्रियम् ।
धूमऽकेतुम् । भाःऽऋजीकम् । विऽउष्टिषु । यज्ञानाम् । अध्वरऽश्रियम् ॥adyá ǀ dūtám ǀ vṛṇīmahe ǀ vásum ǀ agním ǀ puru-priyám ǀ
dhūmá-ketum ǀ bhā́ḥ-ṛjīkam ǀ ví-uṣṭiṣu ǀ yajñā́nām ǀ adhvara-śríyam ǁadya ǀ dūtam ǀ vṛṇīmahe ǀ vasum ǀ agnim ǀ puru-priyam ǀ
dhūma-ketum ǀ bhāḥ-ṛjīkam ǀ vi-uṣṭiṣu ǀ yajñānām ǀ adhvara-śriyam ǁ1.44.3 Aṣṭaka 1.3.28.3Anuvāka 1.9.3
-
Ṛk 4
श्रेष्ठं॒ यवि॑ष्ठ॒मति॑थिं॒ स्वा॑हुतं॒ जुष्टं॒ जना॑य दा॒शुषे॑ ।
दे॒वाँ अच्छा॒ यात॑वे जा॒तवे॑दसम॒ग्निमी॑ळे॒ व्यु॑ष्टिषु ॥श्रेष्ठं यविष्ठम् अतिथिं स्वाहुतं जुष्टं जनाय दाशुषे |
देवां अच्छा यातवे जातवेदसम् अग्निम् ईळे व्युष्टिषु ||śréṣṭham yáviṣṭhamátithim svā́hutam júṣṭam jánāya dāśúṣe ǀ
devā́m̐ ácchā yā́tave jātávedasamagnímīḷe vyúṣṭiṣu ǁśreṣṭhaṃ yaviṣṭham atithiṃ svāhutaṃ juṣṭaṃ janāya dāśuṣe |
devāṃ acchā yātave jātavedasam agnim īḷe vyuṣṭiṣu ||श्रेष्ठ॑म् । यवि॑ष्ठम् । अति॑थिम् । सुऽआ॑हुतम् । जुष्ट॑म् । जना॑य । दा॒शुषे॑ ।
दे॒वान् । अच्छ॑ । यात॑वे । जा॒तऽवे॑दसम् । अ॒ग्निम् । ई॒ळे॒ । विऽउ॑ष्टिषु ॥श्रेष्ठम् । यविष्ठम् । अतिथिम् । सुऽआहुतम् । जुष्टम् । जनाय । दाशुषे ।
देवान् । अच्छ । यातवे । जातऽवेदसम् । अग्निम् । ईळे । विऽउष्टिषु ॥śréṣṭham ǀ yáviṣṭham ǀ átithim ǀ sú-āhutam ǀ júṣṭam ǀ jánāya ǀ dāśúṣe ǀ
devā́n ǀ áccha ǀ yā́tave ǀ jātá-vedasam ǀ agním ǀ īḷe ǀ ví-uṣṭiṣu ǁśreṣṭham ǀ yaviṣṭham ǀ atithim ǀ su-āhutam ǀ juṣṭam ǀ janāya ǀ dāśuṣe ǀ
devān ǀ accha ǀ yātave ǀ jāta-vedasam ǀ agnim ǀ īḷe ǀ vi-uṣṭiṣu ǁ1.44.4 Aṣṭaka 1.3.28.4Anuvāka 1.9.4
-
Ṛk 5
स्त॒वि॒ष्यामि॒ त्वाम॒हं विश्व॑स्यामृत भोजन ।
अग्ने॑ त्रा॒तार॑म॒मृतं॑ मियेध्य॒ यजि॑ष्ठं हव्यवाहन ॥स्तविष्यामि त्वाम् अहं विश्वस्यामृत भोजन |
अग्ने त्रातारम् अमृतम् मियेध्य यजिष्ठं हव्यवाहन ||staviṣyā́mi tvā́mahám víśvasyāmṛta bhojana ǀ
ágne trātā́ramamṛ́tam miyedhya yájiṣṭham havyavāhana ǁstaviṣyāmi tvām ahaṃ viśvasyāmṛta bhojana |
agne trātāram amṛtam miyedhya yajiṣṭhaṃ havyavāhana ||स्त॒वि॒ष्यामि॑ । त्वाम् । अ॒हम् । विश्व॑स्य । अ॒मृ॒त॒ । भो॒ज॒न॒ ।
अग्ने॑ । त्रा॒तार॑म् । अ॒मृत॑म् । मि॒ये॒ध्य॒ । यजि॑ष्ठम् । ह॒व्य॒ऽवा॒ह॒न॒ ॥स्तविष्यामि । त्वाम् । अहम् । विश्वस्य । अमृत । भोजन ।
अग्ने । त्रातारम् । अमृतम् । मियेध्य । यजिष्ठम् । हव्यऽवाहन ॥staviṣyā́mi ǀ tvā́m ǀ ahám ǀ víśvasya ǀ amṛta ǀ bhojana ǀ
ágne ǀ trātā́ram ǀ amṛ́tam ǀ miyedhya ǀ yájiṣṭham ǀ havya-vāhana ǁstaviṣyāmi ǀ tvām ǀ aham ǀ viśvasya ǀ amṛta ǀ bhojana ǀ
agne ǀ trātāram ǀ amṛtam ǀ miyedhya ǀ yajiṣṭham ǀ havya-vāhana ǁ1.44.5 Aṣṭaka 1.3.28.5Anuvāka 1.9.5
-
Ṛk 6
सु॒शंसो॑ बोधि गृण॒ते य॑विष्ठ्य॒ मधु॑जिह्वः॒ स्वा॑हुतः ।
प्रस्क॑ण्वस्य प्रति॒रन्नायु॑र्जी॒वसे॑ नम॒स्या दैव्यं॒ जनं॑ ॥सुशंसो बोधि गृणते यविष्ठ्य मधुजिह्वः स्वाहुतः |
प्रस्कण्वस्य प्रतिरन्न् आयुर् जीवसे नमस्या दैव्यं जनम् ||suśáṃso bodhi gṛṇaté yaviṣṭhya mádhujihvaḥ svā́hutaḥ ǀ
práskaṇvasya pratiránnā́yurjīváse namasyā́ dáivyam jánam ǁsuśaṃso bodhi gṛṇate yaviṣṭhya madhujihvaḥ svāhutaḥ |
praskaṇvasya pratirann āyur jīvase namasyā daivyaṃ janam ||सु॒ऽशंसः॑ । बो॒धि॒ । गृ॒ण॒ते । य॒वि॒ष्ठ्य॒ । मधु॑ऽजिह्वः । सुऽआ॑हुतः ।
प्रस्क॑ण्वस्य । प्र॒ऽति॒रन् । आयुः॑ । जी॒वसे॑ । न॒म॒स्य । दैव्य॑म् । जन॑म् ॥सुऽशंसः । बोधि । गृणते । यविष्ठ्य । मधुऽजिह्वः । सुऽआहुतः ।
प्रस्कण्वस्य । प्रऽतिरन् । आयुः । जीवसे । नमस्य । दैव्यम् । जनम् ॥su-śáṃsaḥ ǀ bodhi ǀ gṛṇaté ǀ yaviṣṭhya ǀ mádhu-jihvaḥ ǀ sú-āhutaḥ ǀ
práskaṇvasya ǀ pra-tirán ǀ ā́yuḥ ǀ jīváse ǀ namasyá ǀ dáivyam ǀ jánam ǁsu-śaṃsaḥ ǀ bodhi ǀ gṛṇate ǀ yaviṣṭhya ǀ madhu-jihvaḥ ǀ su-āhutaḥ ǀ
praskaṇvasya ǀ pra-tiran ǀ āyuḥ ǀ jīvase ǀ namasya ǀ daivyam ǀ janam ǁ1.44.6 Aṣṭaka 1.3.29.1Anuvāka 1.9.6
-
Ṛk 7
होता॑रं वि॒श्ववे॑दसं॒ सं हि त्वा॒ विश॑ इं॒धते॑ ।
स आ व॑ह पुरुहूत॒ प्रचे॑त॒सोऽग्ने॑ दे॒वाँ इ॒ह द्र॒वत् ॥होतारं विश्ववेदसं सं हि त्वा विश इन्धते |
स आ वह पुरुहूत प्रचेतसो ऽग्ने देवां इह द्रवत् ||hótāram viśvávedasam sám hí tvā víśa indháte ǀ
sá ā́ vaha puruhūta prácetasó’gne devā́m̐ ihá dravát ǁhotāraṃ viśvavedasaṃ saṃ hi tvā viśa indhate |
sa ā vaha puruhūta pracetaso 'gne devāṃ iha dravat ||होता॑रम् । वि॒श्वऽवे॑दसम् । सम् । हि । त्वा॒ । विशः॑ । इ॒न्धते॑ ।
सः । आ । व॒ह॒ । पु॒रु॒ऽहू॒त॒ । प्रऽचे॑तसः । अग्ने॑ । दे॒वान् । इ॒ह । द्र॒वत् ॥होतारम् । विश्वऽवेदसम् । सम् । हि । त्वा । विशः । इन्धते ।
सः । आ । वह । पुरुऽहूत । प्रऽचेतसः । अग्ने । देवान् । इह । द्रवत् ॥hótāram ǀ viśvá-vedasam ǀ sám ǀ hí ǀ tvā ǀ víśaḥ ǀ indháte ǀ
sáḥ ǀ ā́ ǀ vaha ǀ puru-hūta ǀ prá-cetasaḥ ǀ ágne ǀ devā́n ǀ ihá ǀ dravát ǁhotāram ǀ viśva-vedasam ǀ sam ǀ hi ǀ tvā ǀ viśaḥ ǀ indhate ǀ
saḥ ǀ ā ǀ vaha ǀ puru-hūta ǀ pra-cetasaḥ ǀ agne ǀ devān ǀ iha ǀ dravat ǁ1.44.7 Aṣṭaka 1.3.29.2Anuvāka 1.9.7
-
Ṛk 8
स॒वि॒तार॑मु॒षस॑म॒श्विना॒ भग॑म॒ग्निं व्यु॑ष्टिषु॒ क्षपः॑ ।
कण्वा॑सस्त्वा सु॒तसो॑मास इंधते हव्य॒वाहं॑ स्वध्वर ॥सवितारम् उषसम् अश्विना भगम् अग्निं व्युष्टिषु क्षपः |
कण्वासस् त्वा सुतसोमास इन्धते हव्यवाहं स्वध्वर ||savitā́ramuṣásamaśvínā bhágamagním vyúṣṭiṣu kṣápaḥ ǀ
káṇvāsastvā sutásomāsa indhate havyavā́ham svadhvara ǁsavitāram uṣasam aśvinā bhagam agniṃ vyuṣṭiṣu kṣapaḥ |
kaṇvāsas tvā sutasomāsa indhate havyavāhaṃ svadhvara ||स॒वि॒तार॑म् । उ॒षस॑म् । अ॒श्विना॑ । भग॑म् । अ॒ग्निम् । विऽउ॑ष्टिषु । क्षपः॑ ।
कण्वा॑सः । त्वा॒ । सु॒तऽसो॑मासः । इ॒न्ध॒ते॒ । ह॒व्य॒ऽवाह॑म् । सु॒ऽअ॒ध्व॒र॒ ॥सवितारम् । उषसम् । अश्विना । भगम् । अग्निम् । विऽउष्टिषु । क्षपः ।
कण्वासः । त्वा । सुतऽसोमासः । इन्धते । हव्यऽवाहम् । सुऽअध्वर ॥savitā́ram ǀ uṣásam ǀ aśvínā ǀ bhágam ǀ agním ǀ ví-uṣṭiṣu ǀ kṣápaḥ ǀ
káṇvāsaḥ ǀ tvā ǀ sutá-somāsaḥ ǀ indhate ǀ havya-vā́ham ǀ su-adhvara ǁsavitāram ǀ uṣasam ǀ aśvinā ǀ bhagam ǀ agnim ǀ vi-uṣṭiṣu ǀ kṣapaḥ ǀ
kaṇvāsaḥ ǀ tvā ǀ suta-somāsaḥ ǀ indhate ǀ havya-vāham ǀ su-adhvara ǁ1.44.8 Aṣṭaka 1.3.29.3Anuvāka 1.9.8
-
Ṛk 9
पति॒र्ह्य॑ध्व॒राणा॒मग्ने॑ दू॒तो वि॒शामसि॑ ।
उ॒ष॒र्बुध॒ आ व॑ह॒ सोम॑पीतये दे॒वाँ अ॒द्य स्व॒र्दृशः॑ ॥पतिर् ह्य् अध्वराणाम् अग्ने दूतो विशाम् असि |
उषर्बुध आ वह सोमपीतये देवां अद्य स्वर्दृशः ||pátirhyádhvarā́ṇāmágne dūtó viśā́mási ǀ
uṣarbúdha ā́ vaha sómapītaye devā́m̐ adyá svardṛ́śaḥ ǁpatir hy adhvarāṇām agne dūto viśām asi |
uṣarbudha ā vaha somapītaye devāṃ adya svardṛśaḥ ||पतिः॑ । हि । अ॒ध्व॒राणा॑म् । अग्ने॑ । दू॒तः । वि॒शाम् । असि॑ ।
उ॒षः॒ऽबुधः॑ । आ । व॒ह॒ । सोम॑ऽपीतये । दे॒वान् । अ॒द्य । स्वः॒ऽदृशः॑ ॥पतिः । हि । अध्वराणाम् । अग्ने । दूतः । विशाम् । असि ।
उषःऽबुधः । आ । वह । सोमऽपीतये । देवान् । अद्य । स्वःऽदृशः ॥pátiḥ ǀ hí ǀ adhvarā́ṇām ǀ ágne ǀ dūtáḥ ǀ viśā́m ǀ ási ǀ
uṣaḥ-búdhaḥ ǀ ā́ ǀ vaha ǀ sóma-pītaye ǀ devā́n ǀ adyá ǀ svaḥ-dṛ́śaḥ ǁpatiḥ ǀ hi ǀ adhvarāṇām ǀ agne ǀ dūtaḥ ǀ viśām ǀ asi ǀ
uṣaḥ-budhaḥ ǀ ā ǀ vaha ǀ soma-pītaye ǀ devān ǀ adya ǀ svaḥ-dṛśaḥ ǁ1.44.9 Aṣṭaka 1.3.29.4Anuvāka 1.9.9
-
Ṛk 10
अग्ने॒ पूर्वा॒ अनू॒षसो॑ विभावसो दी॒देथ॑ वि॒श्वद॑र्शतः ।
असि॒ ग्रामे॑ष्ववि॒ता पु॒रोहि॒तोऽसि॑ य॒ज्ञेषु॒ मानु॑षः ॥अग्ने पूर्वा अनूषसो विभावसो दीदेथ विश्वदर्शतः |
असि ग्रामेष्व् अविता पुरोहितो ऽसि यज्ञेषु मानुषः ||ágne pū́rvā ánūṣáso vibhāvaso dīdétha viśvádarśataḥ ǀ
ási grā́meṣvavitā́ puróhitó’si yajñéṣu mā́nuṣaḥ ǁagne pūrvā anūṣaso vibhāvaso dīdetha viśvadarśataḥ |
asi grāmeṣv avitā purohito 'si yajñeṣu mānuṣaḥ ||अग्ने॑ । पूर्वाः॑ । अनु॑ । उ॒षसः॑ । वि॒भा॒व॒सो॒ इति॑ विभाऽवसो । दी॒देथ॑ । वि॒श्वऽद॑र्शतः ।
असि॑ । ग्रामे॑षु । अ॒वि॒ता । पु॒रःऽहि॑तः । असि॑ । य॒ज्ञेषु॑ । मानु॑षः ॥अग्ने । पूर्वाः । अनु । उषसः । विभावसो इति विभाऽवसो । दीदेथ । विश्वऽदर्शतः ।
असि । ग्रामेषु । अविता । पुरःऽहितः । असि । यज्ञेषु । मानुषः ॥ágne ǀ pū́rvāḥ ǀ ánu ǀ uṣásaḥ ǀ vibhāvaso íti vibhā-vaso ǀ dīdétha ǀ viśvá-darśataḥ ǀ
ási ǀ grā́meṣu ǀ avitā́ ǀ puráḥ-hitaḥ ǀ ási ǀ yajñéṣu ǀ mā́nuṣaḥ ǁagne ǀ pūrvāḥ ǀ anu ǀ uṣasaḥ ǀ vibhāvaso iti vibhā-vaso ǀ dīdetha ǀ viśva-darśataḥ ǀ
asi ǀ grāmeṣu ǀ avitā ǀ puraḥ-hitaḥ ǀ asi ǀ yajñeṣu ǀ mānuṣaḥ ǁ1.44.10 Aṣṭaka 1.3.29.5Anuvāka 1.9.10
-
Ṛk 11
नि त्वा॑ य॒ज्ञस्य॒ साध॑न॒मग्ने॒ होता॑रमृ॒त्विजं॑ ।
म॒नु॒ष्वद्दे॑व धीमहि॒ प्रचे॑तसं जी॒रं दू॒तमम॑र्त्यं ॥नि त्वा यज्ञस्य साधनम् अग्ने होतारम् ऋत्विजम् |
मनुष्वद् देव धीमहि प्रचेतसं जीरं दूतम् अमर्त्यम् ||ní tvā yajñásya sā́dhanamágne hótāramṛtvíjam ǀ
manuṣváddeva dhīmahi prácetasam jīrám dūtámámartyam ǁni tvā yajñasya sādhanam agne hotāram ṛtvijam |
manuṣvad deva dhīmahi pracetasaṃ jīraṃ dūtam amartyam ||नि । त्वा॒ । य॒ज्ञस्य॑ । साध॑नम् । अग्ने॑ । होता॑रम् । ऋ॒त्विज॑म् ।
म॒नु॒ष्वत् । दे॒व॒ । धी॒म॒हि॒ । प्रऽचे॑तसम् । जी॒रम् । दू॒तम् । अम॑र्त्यम् ॥नि । त्वा । यज्ञस्य । साधनम् । अग्ने । होतारम् । ऋत्विजम् ।
मनुष्वत् । देव । धीमहि । प्रऽचेतसम् । जीरम् । दूतम् । अमर्त्यम् ॥ní ǀ tvā ǀ yajñásya ǀ sā́dhanam ǀ ágne ǀ hótāram ǀ ṛtvíjam ǀ
manuṣvát ǀ deva ǀ dhīmahi ǀ prá-cetasam ǀ jīrám ǀ dūtám ǀ ámartyam ǁni ǀ tvā ǀ yajñasya ǀ sādhanam ǀ agne ǀ hotāram ǀ ṛtvijam ǀ
manuṣvat ǀ deva ǀ dhīmahi ǀ pra-cetasam ǀ jīram ǀ dūtam ǀ amartyam ǁ1.44.11 Aṣṭaka 1.3.30.1Anuvāka 1.9.11
-
Ṛk 12
यद्दे॒वानां॑ मित्रमहः पु॒रोहि॒तोऽंत॑रो॒ यासि॑ दू॒त्यं॑ ।
सिंधो॑रिव॒ प्रस्व॑नितास ऊ॒र्मयो॒ऽग्नेर्भ्रा॑जंते अ॒र्चयः॑ ॥यद् देवानाम् मित्रमहः पुरोहितो ऽन्तरो यासि दूत्यम् |
सिन्धोर् इव प्रस्वनितास ऊर्मयो ऽग्नेर् भ्राजन्ते अर्चयः ||yáddevā́nām mitramahaḥ puróhitó’ntaro yā́si dūtyám ǀ
síndhoriva prásvanitāsa ūrmáyo’gnérbhrājante arcáyaḥ ǁyad devānām mitramahaḥ purohito 'ntaro yāsi dūtyam |
sindhor iva prasvanitāsa ūrmayo 'gner bhrājante arcayaḥ ||यत् । दे॒वाना॑म् । मि॒त्र॒ऽम॒हः॒ । पु॒रःऽहि॑तः । अन्त॑रः । यासि॑ । दू॒त्य॑म् ।
सिन्धोः॑ऽइव । प्रऽस्व॑नितासः । ऊ॒र्मयः॑ । अ॒ग्नेः । भ्रा॒ज॒न्ते॒ । अ॒र्चयः॑ ॥यत् । देवानाम् । मित्रऽमहः । पुरःऽहितः । अन्तरः । यासि । दूत्यम् ।
सिन्धोःऽइव । प्रऽस्वनितासः । ऊर्मयः । अग्नेः । भ्राजन्ते । अर्चयः ॥yát ǀ devā́nām ǀ mitra-mahaḥ ǀ puráḥ-hitaḥ ǀ ántaraḥ ǀ yā́si ǀ dūtyám ǀ
síndhoḥ-iva ǀ prá-svanitāsaḥ ǀ ūrmáyaḥ ǀ agnéḥ ǀ bhrājante ǀ arcáyaḥ ǁyat ǀ devānām ǀ mitra-mahaḥ ǀ puraḥ-hitaḥ ǀ antaraḥ ǀ yāsi ǀ dūtyam ǀ
sindhoḥ-iva ǀ pra-svanitāsaḥ ǀ ūrmayaḥ ǀ agneḥ ǀ bhrājante ǀ arcayaḥ ǁ1.44.12 Aṣṭaka 1.3.30.2Anuvāka 1.9.12
-
Ṛk 13
श्रु॒धि श्रु॑त्कर्ण॒ वह्नि॑भिर्दे॒वैर॑ग्ने स॒याव॑भिः ।
आ सी॑दंतु ब॒र्हिषि॑ मि॒त्रो अ॑र्य॒मा प्रा॑त॒र्यावा॑णो अध्व॒रं ॥श्रुधि श्रुत्कर्ण वह्निभिर् देवैर् अग्ने सयावभिः |
आ सीदन्तु बर्हिषि मित्रो अर्यमा प्रातर्यावाणो अध्वरम् ||śrudhí śrutkarṇa váhnibhirdeváiragne sayā́vabhiḥ ǀ
ā́ sīdantu barhíṣi mitró aryamā́ prātaryā́vāṇo adhvarám ǁśrudhi śrutkarṇa vahnibhir devair agne sayāvabhiḥ |
ā sīdantu barhiṣi mitro aryamā prātaryāvāṇo adhvaram ||श्रु॒धि । श्रु॒त्ऽक॒र्ण॒ । वह्नि॑ऽभिः । दे॒वैः । अ॒ग्ने॒ । स॒याव॑ऽभिः ।
आ । सी॒द॒न्तु॒ । ब॒र्हिषि॑ । मि॒त्रः । अ॒र्य॒मा । प्रा॒तः॒ऽयावा॑नः । अ॒ध्व॒रम् ॥श्रुधि । श्रुत्ऽकर्ण । वह्निऽभिः । देवैः । अग्ने । सयावऽभिः ।
आ । सीदन्तु । बर्हिषि । मित्रः । अर्यमा । प्रातःऽयावानः । अध्वरम् ॥śrudhí ǀ śrut-karṇa ǀ váhni-bhiḥ ǀ deváiḥ ǀ agne ǀ sayā́va-bhiḥ ǀ
ā́ ǀ sīdantu ǀ barhíṣi ǀ mitráḥ ǀ aryamā́ ǀ prātaḥ-yā́vānaḥ ǀ adhvarám ǁśrudhi ǀ śrut-karṇa ǀ vahni-bhiḥ ǀ devaiḥ ǀ agne ǀ sayāva-bhiḥ ǀ
ā ǀ sīdantu ǀ barhiṣi ǀ mitraḥ ǀ aryamā ǀ prātaḥ-yāvānaḥ ǀ adhvaram ǁ1.44.13 Aṣṭaka 1.3.30.3Anuvāka 1.9.13
-
Ṛk 14
शृ॒ण्वंतु॒ स्तोमं॑ म॒रुतः॑ सु॒दान॑वोऽग्निजि॒ह्वा ऋ॑ता॒वृधः॑ ।
पिब॑तु॒ सोमं॒ वरु॑णो धृ॒तव्र॑तो॒ऽश्विभ्या॑मु॒षसा॑ स॒जूः ॥शृण्वन्तु स्तोमम् मरुतः सुदानवो ऽग्निजिह्वा ऋतावृधः |
पिबतु सोमं वरुणो धृतव्रतो ऽश्विभ्याम् उषसा सजूः ||śṛṇvántu stómam marútaḥ sudā́navo’gnijihvā́ ṛtāvṛ́dhaḥ ǀ
píbatu sómam váruṇo dhṛtávrato’śvíbhyāmuṣásā sajū́ḥ ǁśṛṇvantu stomam marutaḥ sudānavo 'gnijihvā ṛtāvṛdhaḥ |
pibatu somaṃ varuṇo dhṛtavrato 'śvibhyām uṣasā sajūḥ ||शृ॒ण्वन्तु॑ । सोम॑म् । म॒रुतः॑ । सु॒ऽदान॑वः । अ॒ग्नि॒ऽजि॒ह्वाः । ऋ॒त॒ऽवृधः॑ ।
पिब॑तु । सोम॑म् । वरु॑णः । धृ॒तऽव्र॑तः । अ॒श्विऽभ्या॑म् । उ॒षसा॑ । स॒ऽजूः ॥शृण्वन्तु । सोमम् । मरुतः । सुऽदानवः । अग्निऽजिह्वाः । ऋतऽवृधः ।
पिबतु । सोमम् । वरुणः । धृतऽव्रतः । अश्विऽभ्याम् । उषसा । सऽजूः ॥śṛṇvántu ǀ sómam ǀ marútaḥ ǀ su-dā́navaḥ ǀ agni-jihvā́ḥ ǀ ṛta-vṛ́dhaḥ ǀ
píbatu ǀ sómam ǀ váruṇaḥ ǀ dhṛtá-vrataḥ ǀ aśví-bhyām ǀ uṣásā ǀ sa-jū́ḥ ǁśṛṇvantu ǀ somam ǀ marutaḥ ǀ su-dānavaḥ ǀ agni-jihvāḥ ǀ ṛta-vṛdhaḥ ǀ
pibatu ǀ somam ǀ varuṇaḥ ǀ dhṛta-vrataḥ ǀ aśvi-bhyām ǀ uṣasā ǀ sa-jūḥ ǁ1.44.14 Aṣṭaka 1.3.30.4Anuvāka 1.9.14
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.