Sūkta 13
- Devatā देवता
- 1: Agni; 2: Tanūnapāt; 3: Narāśaṃsa; 4: Iḷa; 5: Barhis; 6: Devīr Dvāraḥ; 7: Uṣāsānaktā; 8: Hotṛ (Two Divine Wise Priests); 9: Sarasvatī, Iḷā, Bhāratī; 10: Tvaṣṭṛ; 11: Vanaspati; 12: Svāhākṛtis
- Ṛṣi ऋषि
- Medhātithi Kāṇva
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (1-6, 10); pipīlikāmadhyānicṛdgāyatrī (7, 8, 11, 12); nicṛdgāyatrī (9)
2nd set of styles gāyatrī
-
Ṛk 1
सुस॑मिद्धो न॒ आ व॑ह दे॒वाँ अ॑ग्ने ह॒विष्म॑ते ।
होतः॑ पावक॒ यक्षि॑ च ॥सुसमिद्धो न आ वह देवां अग्ने हविष्मते |
होतः पावक यक्षि च ||súsamiddho na ā́ vaha devā́m̐ agne havíṣmate ǀ
hótaḥ pāvaka yákṣi ca ǁsusamiddho na ā vaha devāṃ agne haviṣmate |
hotaḥ pāvaka yakṣi ca ||सुऽस॑मिद्धः । नः॒ । आ । व॒ह॒ । दे॒वान् । अ॒ग्ने॒ । ह॒विष्म॑ते ।
होत॒रिति॑ । पा॒व॒क॒ । यक्षि॑ । च॒ ॥सुऽसमिद्धः । नः । आ । वह । देवान् । अग्ने । हविष्मते ।
होतरिति । पावक । यक्षि । च ॥sú-samiddhaḥ ǀ naḥ ǀ ā́ ǀ vaha ǀ devā́n ǀ agne ǀ havíṣmate ǀ
hótaríti ǀ pāvaka ǀ yákṣi ǀ ca ǁsu-samiddhaḥ ǀ naḥ ǀ ā ǀ vaha ǀ devān ǀ agne ǀ haviṣmate ǀ
hotariti ǀ pāvaka ǀ yakṣi ǀ ca ǁ1.13.1 Aṣṭaka 1.1.24.1Anuvāka 1.4.13
-
Ṛk 2
मधु॑मंतं तनूनपाद्य॒ज्ञं दे॒वेषु॑ नः कवे ।
अ॒द्या कृ॑णुहि वी॒तये॑ ॥मधुमन्तं तनूनपाद् यज्ञं देवेषु नः कवे |
अद्या कृणुहि वीतये ||mádhumantam tanūnapādyajñám devéṣu naḥ kave ǀ
adyā́ kṛṇuhi vītáye ǁmadhumantaṃ tanūnapād yajñaṃ deveṣu naḥ kave |
adyā kṛṇuhi vītaye ||मधु॑ऽमन्तम् । त॒नू॒ऽन॒पा॒त् । य॒ज्ञम् । दे॒वेषु॑ । नः॒ । क॒वे॒ ।
अ॒द्य । कृ॒णु॒हि॒ । वी॒तये॑ ॥मधुऽमन्तम् । तनूऽनपात् । यज्ञम् । देवेषु । नः । कवे ।
अद्य । कृणुहि । वीतये ॥mádhu-mantam ǀ tanū-napāt ǀ yajñám ǀ devéṣu ǀ naḥ ǀ kave ǀ
adyá ǀ kṛṇuhi ǀ vītáye ǁmadhu-mantam ǀ tanū-napāt ǀ yajñam ǀ deveṣu ǀ naḥ ǀ kave ǀ
adya ǀ kṛṇuhi ǀ vītaye ǁ1.13.2 Aṣṭaka 1.1.24.2Anuvāka 1.4.14
-
Ṛk 3
नरा॒शंस॑मि॒ह प्रि॒यम॒स्मिन्य॒ज्ञ उप॑ ह्वये ।
मधु॑जिह्वं हवि॒ष्कृतं॑ ॥नराशंसम् इह प्रियम् अस्मिन् यज्ञ उप ह्वये |
मधुजिह्वं हविष्कृतम् ||nárāśáṃsamihá priyámasmínyajñá úpa hvaye ǀ
mádhujihvam haviṣkṛ́tam ǁnarāśaṃsam iha priyam asmin yajña upa hvaye |
madhujihvaṃ haviṣkṛtam ||नरा॒शंस॑म् । इ॒ह । प्रि॒यम् । अ॒स्मिन् । य॒ज्ञे । उप॑ । ह्व॒ये॒ ।
मधु॑ऽजिह्वम् । ह॒विः॒ऽकृत॑म् ॥नराशंसम् । इह । प्रियम् । अस्मिन् । यज्ञे । उप । ह्वये ।
मधुऽजिह्वम् । हविःऽकृतम् ॥nárāśáṃsam ǀ ihá ǀ priyám ǀ asmín ǀ yajñé ǀ úpa ǀ hvaye ǀ
mádhu-jihvam ǀ haviḥ-kṛ́tam ǁnarāśaṃsam ǀ iha ǀ priyam ǀ asmin ǀ yajñe ǀ upa ǀ hvaye ǀ
madhu-jihvam ǀ haviḥ-kṛtam ǁ1.13.3 Aṣṭaka 1.1.24.3Anuvāka 1.4.15
-
Ṛk 4
अग्ने॑ सु॒खत॑मे॒ रथे॑ दे॒वाँ ई॑ळि॒त आ व॑ह ।
असि॒ होता॒ मनु॑र्हितः ॥अग्ने सुखतमे रथे देवां ईऌइत आ वह |
असि होता मनुर्हितः ||ágne sukhátame ráthe devā́m̐ īḷitá ā́ vaha ǀ
ási hótā mánurhitaḥ ǁagne sukhatame rathe devāṃ īḷita ā vaha |
asi hotā manurhitaḥ ||अग्ने॑ । सु॒खऽत॑मे । रथे॑ । दे॒वान् । ई॒ळि॒तः । आ । व॒ह॒ ।
असि॑ । होता॑ । मनुः॑ऽहितः ॥अग्ने । सुखऽतमे । रथे । देवान् । ईळितः । आ । वह ।
असि । होता । मनुःऽहितः ॥ágne ǀ sukhá-tame ǀ ráthe ǀ devā́n ǀ īḷitáḥ ǀ ā́ ǀ vaha ǀ
ási ǀ hótā ǀ mánuḥ-hitaḥ ǁagne ǀ sukha-tame ǀ rathe ǀ devān ǀ īḷitaḥ ǀ ā ǀ vaha ǀ
asi ǀ hotā ǀ manuḥ-hitaḥ ǁ1.13.4 Aṣṭaka 1.1.24.4Anuvāka 1.4.16
-
Ṛk 5
स्तृ॒णी॒त ब॒र्हिरा॑नु॒षग्घृ॒तपृ॑ष्ठं मनीषिणः ।
यत्रा॒मृत॑स्य॒ चक्ष॑णं ॥स्तृणीत बर्हिर् आनुषग् घृतपृष्ठम् मनीषिणः |
यत्रामृतस्य चक्षणम् ||stṛṇītá barhírānuṣágghṛtápṛṣṭham manīṣiṇaḥ ǀ
yátrāmṛ́tasya cákṣaṇam ǁstṛṇīta barhir ānuṣag ghṛtapṛṣṭham manīṣiṇaḥ |
yatrāmṛtasya cakṣaṇam ||स्तृ॒णी॒त । ब॒र्हिः । आ॒नु॒षक् । घृ॒तऽपृ॑ष्ठम् । म॒नी॒षि॒णः॒ ।
यत्र॑ । अ॒मृत॑स्य । चक्ष॑णम् ॥स्तृणीत । बर्हिः । आनुषक् । घृतऽपृष्ठम् । मनीषिणः ।
यत्र । अमृतस्य । चक्षणम् ॥stṛṇītá ǀ barhíḥ ǀ ānuṣák ǀ ghṛtá-pṛṣṭham ǀ manīṣiṇaḥ ǀ
yátra ǀ amṛ́tasya ǀ cákṣaṇam ǁstṛṇīta ǀ barhiḥ ǀ ānuṣak ǀ ghṛta-pṛṣṭham ǀ manīṣiṇaḥ ǀ
yatra ǀ amṛtasya ǀ cakṣaṇam ǁ1.13.5 Aṣṭaka 1.1.24.5Anuvāka 1.4.17
-
Ṛk 6
वि श्र॑यंतामृता॒वृधो॒ द्वारो॑ दे॒वीर॑स॒श्चतः॑ ।
अ॒द्या नू॒नं च॒ यष्ट॑वे ॥वि श्रयन्ताम् ऋतावृधो द्वारो देवीर् असश्चतः |
अद्या नूनं च यष्टवे ||ví śrayantāmṛtāvṛ́dho dvā́ro devī́rasaścátaḥ ǀ
adyā́ nūnám ca yáṣṭave ǁvi śrayantām ṛtāvṛdho dvāro devīr asaścataḥ |
adyā nūnaṃ ca yaṣṭave ||वि । श्र॒य॒न्ता॒म् । ऋ॒त॒ऽवृधः॑ । द्वारः॑ । दे॒वीः । अ॒स॒श्चतः॑ ।
अ॒द्य । नू॒नम् । च॒ । यष्ट॑वे ॥वि । श्रयन्ताम् । ऋतऽवृधः । द्वारः । देवीः । असश्चतः ।
अद्य । नूनम् । च । यष्टवे ॥ví ǀ śrayantām ǀ ṛta-vṛ́dhaḥ ǀ dvā́raḥ ǀ devī́ḥ ǀ asaścátaḥ ǀ
adyá ǀ nūnám ǀ ca ǀ yáṣṭave ǁvi ǀ śrayantām ǀ ṛta-vṛdhaḥ ǀ dvāraḥ ǀ devīḥ ǀ asaścataḥ ǀ
adya ǀ nūnam ǀ ca ǀ yaṣṭave ǁ1.13.6 Aṣṭaka 1.1.24.6Anuvāka 1.4.18
-
Ṛk 7
नक्तो॒षासा॑ सु॒पेश॑सा॒स्मिन्य॒ज्ञ उप॑ ह्वये ।
इ॒दं नो॑ ब॒र्हिरा॒सदे॑ ॥नक्तोषासा सुपेशसास्मिन् यज्ञ उप ह्वये |
इदं नो बर्हिर् आसदे ||náktoṣā́sā supéśasāsmínyajñá úpa hvaye ǀ
idám no barhírāsáde ǁnaktoṣāsā supeśasāsmin yajña upa hvaye |
idaṃ no barhir āsade ||नक्तो॒षसा॑ । सु॒ऽपेश॑सा । अ॒स्मिन् । य॒ज्ञे । उप॑ । ह्व॒ये॒ ।
इ॒दम् । नः॒ । ब॒र्हिः । आ॒ऽसदे॑ ॥नक्तोषसा । सुऽपेशसा । अस्मिन् । यज्ञे । उप । ह्वये ।
इदम् । नः । बर्हिः । आऽसदे ॥náktoṣásā ǀ su-péśasā ǀ asmín ǀ yajñé ǀ úpa ǀ hvaye ǀ
idám ǀ naḥ ǀ barhíḥ ǀ ā-sáde ǁnaktoṣasā ǀ su-peśasā ǀ asmin ǀ yajñe ǀ upa ǀ hvaye ǀ
idam ǀ naḥ ǀ barhiḥ ǀ ā-sade ǁ1.13.7 Aṣṭaka 1.1.25.1Anuvāka 1.4.19
-
Ṛk 8
ता सु॑जि॒ह्वा उप॑ ह्वये॒ होता॑रा॒ दैव्या॑ क॒वी ।
य॒ज्ञं नो॑ यक्षतामि॒मं ॥ता सुजिह्वा उप ह्वये होतारा दैव्या कवी |
यज्ञं नो यक्षताम् इमम् ||tā́ sujihvā́ úpa hvaye hótārā dáivyā kavī́ ǀ
yajñám no yakṣatāmimám ǁtā sujihvā upa hvaye hotārā daivyā kavī |
yajñaṃ no yakṣatām imam ||ता । सु॒ऽजि॒ह्वौ । उप॑ । ह्व॒ये॒ । होता॑रा । दैव्या॑ । क॒वी इति॑ ।
य॒ज्ञम् । नः॒ । य॒क्ष॒ता॒म् । इ॒मम् ॥ता । सुऽजिह्वौ । उप । ह्वये । होतारा । दैव्या । कवी इति ।
यज्ञम् । नः । यक्षताम् । इमम् ॥tā́ ǀ su-jihváu ǀ úpa ǀ hvaye ǀ hótārā ǀ dáivyā ǀ kavī́ íti ǀ
yajñám ǀ naḥ ǀ yakṣatām ǀ imám ǁtā ǀ su-jihvau ǀ upa ǀ hvaye ǀ hotārā ǀ daivyā ǀ kavī iti ǀ
yajñam ǀ naḥ ǀ yakṣatām ǀ imam ǁ1.13.8 Aṣṭaka 1.1.25.2Anuvāka 1.4.20
-
Ṛk 9
इळा॒ सर॑स्वती म॒ही ति॒स्रो दे॒वीर्म॑यो॒भुवः॑ ।
ब॒र्हिः सी॑दंत्व॒स्रिधः॑ ॥इऌआ सरस्वती मही तिस्रो देवीर् मयोभुवः |
बर्हिः सीदन्त्व् अस्रिधः ||íḷā sárasvatī mahī́ tisró devī́rmayobhúvaḥ ǀ
barhíḥ sīdantvasrídhaḥ ǁiḷā sarasvatī mahī tisro devīr mayobhuvaḥ |
barhiḥ sīdantv asridhaḥ ||इळा॑ । सर॑स्वती । म॒ही । ति॒स्रः । दे॒वीः । म॒यः॒ऽभुवः॑ ।
ब॒र्हिः । सी॒द॒न्तु॒ । अ॒स्रिधः॑ ॥इळा । सरस्वती । मही । तिस्रः । देवीः । मयःऽभुवः ।
बर्हिः । सीदन्तु । अस्रिधः ॥íḷā ǀ sárasvatī ǀ mahī́ ǀ tisráḥ ǀ devī́ḥ ǀ mayaḥ-bhúvaḥ ǀ
barhíḥ ǀ sīdantu ǀ asrídhaḥ ǁiḷā ǀ sarasvatī ǀ mahī ǀ tisraḥ ǀ devīḥ ǀ mayaḥ-bhuvaḥ ǀ
barhiḥ ǀ sīdantu ǀ asridhaḥ ǁ1.13.9 Aṣṭaka 1.1.25.3Anuvāka 1.4.21
-
Ṛk 10
इ॒ह त्वष्टा॑रमग्रि॒यं वि॒श्वरू॑प॒मुप॑ ह्वये ।
अ॒स्माक॑मस्तु॒ केव॑लः ॥इह त्वष्टारम् अग्रियं विश्वरूपम् उप ह्वये |
अस्माकम् अस्तु केवलः ||ihá tváṣṭāramagriyám viśvárūpamúpa hvaye ǀ
asmā́kamastu kévalaḥ ǁiha tvaṣṭāram agriyaṃ viśvarūpam upa hvaye |
asmākam astu kevalaḥ ||इ॒ह । त्वष्टा॑रम् । अ॒ग्रि॒यम् । वि॒श्वऽरू॑पम् । उप॑ । ह्व॒ये॒ ।
अ॒स्माक॑म् । अ॒स्तु॒ । केव॑लः ॥इह । त्वष्टारम् । अग्रियम् । विश्वऽरूपम् । उप । ह्वये ।
अस्माकम् । अस्तु । केवलः ॥ihá ǀ tváṣṭāram ǀ agriyám ǀ viśvá-rūpam ǀ úpa ǀ hvaye ǀ
asmā́kam ǀ astu ǀ kévalaḥ ǁiha ǀ tvaṣṭāram ǀ agriyam ǀ viśva-rūpam ǀ upa ǀ hvaye ǀ
asmākam ǀ astu ǀ kevalaḥ ǁ1.13.10 Aṣṭaka 1.1.25.4Anuvāka 1.4.22
-
Ṛk 11
अव॑ सृजा वनस्पते॒ देव॑ दे॒वेभ्यो॑ ह॒विः ।
प्र दा॒तुर॑स्तु॒ चेत॑नं ॥अव सृजा वनस्पते देव देवेभ्यो हविः |
प्र दातुर् अस्तु चेतनम् ||áva sṛjā vanaspate déva devébhyo havíḥ ǀ
prá dātúrastu cétanam ǁava sṛjā vanaspate deva devebhyo haviḥ |
pra dātur astu cetanam ||अव॑ । सृ॒ज॒ । व॒न॒स्प॒ते॒ । देव॑ । दे॒वेभ्यः॑ । ह॒विः ।
प्र । दा॒तुः । अ॒स्तु॒ । चेत॑नम् ॥अव । सृज । वनस्पते । देव । देवेभ्यः । हविः ।
प्र । दातुः । अस्तु । चेतनम् ॥áva ǀ sṛja ǀ vanaspate ǀ déva ǀ devébhyaḥ ǀ havíḥ ǀ
prá ǀ dātúḥ ǀ astu ǀ cétanam ǁava ǀ sṛja ǀ vanaspate ǀ deva ǀ devebhyaḥ ǀ haviḥ ǀ
pra ǀ dātuḥ ǀ astu ǀ cetanam ǁ1.13.11 Aṣṭaka 1.1.25.5Anuvāka 1.4.23
-
Ṛk 12
स्वाहा॑ य॒ज्ञं कृ॑णोत॒नेंद्रा॑य॒ यज्व॑नो गृ॒हे ।
तत्र॑ दे॒वाँ उप॑ ह्वये ॥स्वाहा यज्ञं कृणोतनेन्द्राय यज्वनो गृहे |
तत्र देवां उप ह्वये ||svā́hā yajñám kṛṇotanéndrāya yájvano gṛhé ǀ
tátra devā́m̐ úpa hvaye ǁsvāhā yajñaṃ kṛṇotanendrāya yajvano gṛhe |
tatra devāṃ upa hvaye ||स्वाहा॑ । य॒ज्ञम् । कृ॒णो॒त॒न॒ । इन्द्रा॑य । यज्व॑नः । गृ॒हे ।
तत्र॑ । दे॒वान् । उप॑ । ह्व॒ये॒ ॥स्वाहा । यज्ञम् । कृणोतन । इन्द्राय । यज्वनः । गृहे ।
तत्र । देवान् । उप । ह्वये ॥svā́hā ǀ yajñám ǀ kṛṇotana ǀ índrāya ǀ yájvanaḥ ǀ gṛhé ǀ
tátra ǀ devā́n ǀ úpa ǀ hvaye ǁsvāhā ǀ yajñam ǀ kṛṇotana ǀ indrāya ǀ yajvanaḥ ǀ gṛhe ǀ
tatra ǀ devān ǀ upa ǀ hvaye ǁ1.13.12 Aṣṭaka 1.1.25.6Anuvāka 1.4.24
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.