Sūkta 107
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles virāṭtrisṭup (1); nicṛttriṣṭup (2); triṣṭup (3)
2nd set of styles triṣṭubh
-
Ṛk 1
य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृळ॒यंतः॑ ।
आ वो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्यादं॒होश्चि॒द्या व॑रिवो॒वित्त॒रास॑त् ॥यज्ञो देवानाम् प्रत्य् एति सुम्नम् आदित्यासो भवता मृऌअयन्तः |
आ वो ऽर्वाची सुमतिर् ववृत्याद् अंहोश् चिद् या वरिवोवित्तरासत् ||yajñó devā́nām prátyeti sumnámā́dityāso bhávatā mṛḷayántaḥ ǀ
ā́ vo’rvā́cī sumatírvavṛtyādaṃhóścidyā́ varivovíttarā́sat ǁyajño devānām praty eti sumnam ādityāso bhavatā mṛḷayantaḥ |
ā vo 'rvācī sumatir vavṛtyād aṃhoś cid yā varivovittarāsat ||य॒ज्ञः । दे॒वाना॑म् । प्रति॑ । ए॒ति॒ । सु॒म्नम् । आदि॑त्यासः । भव॑त । मृ॒ळ॒यन्तः॑ ।
आ । वः॒ । अ॒र्वाची॑ । सु॒ऽम॒तिः । व॒वृ॒त्या॒त् । अं॒होः । चि॒त् । या । व॒रि॒वो॒वित्ऽत॑रा । अस॑त् ॥यज्ञः । देवानाम् । प्रति । एति । सुम्नम् । आदित्यासः । भवत । मृळयन्तः ।
आ । वः । अर्वाची । सुऽमतिः । ववृत्यात् । अंहोः । चित् । या । वरिवोवित्ऽतरा । असत् ॥yajñáḥ ǀ devā́nām ǀ práti ǀ eti ǀ sumnám ǀ ā́dityāsaḥ ǀ bhávata ǀ mṛḷayántaḥ ǀ
ā́ ǀ vaḥ ǀ arvā́cī ǀ su-matíḥ ǀ vavṛtyāt ǀ aṃhóḥ ǀ cit ǀ yā́ ǀ varivovít-tarā ǀ ásat ǁyajñaḥ ǀ devānām ǀ prati ǀ eti ǀ sumnam ǀ ādityāsaḥ ǀ bhavata ǀ mṛḷayantaḥ ǀ
ā ǀ vaḥ ǀ arvācī ǀ su-matiḥ ǀ vavṛtyāt ǀ aṃhoḥ ǀ cit ǀ yā ǀ varivovit-tarā ǀ asat ǁ1.107.1 Aṣṭaka 1.7.25.1Anuvāka 1.16.8
-
Ṛk 2
उप॑ नो दे॒वा अव॒सा ग॑मं॒त्वंगि॑रसां॒ साम॑भिः स्तू॒यमा॑नाः ।
इंद्र॑ इंद्रि॒यैर्म॒रुतो॑ म॒रुद्भि॑रादि॒त्यैर्नो॒ अदि॑तिः॒ शर्म॑ यंसत् ॥उप नो देवा अवसा गमन्त्व् अङ्गिरसां सामभि स्तूयमानाः |
इन्द्र इन्द्रियैर् मरुतो मरुद्भिर् आदित्यैर् नो अदितिः शर्म यंसत् ||úpa no devā́ ávasā́ gamantváṅgirasām sā́mabhiḥ stūyámānāḥ ǀ
índra indriyáirmarúto marúdbhirādityáirno áditiḥ śárma yaṃsat ǁupa no devā avasā gamantv aṅgirasāṃ sāmabhi stūyamānāḥ |
indra indriyair maruto marudbhir ādityair no aditiḥ śarma yaṃsat ||उप॑ । नः॒ । दे॒वाः । अव॑सा । आ । ग॒म॒न्तु॒ । अङ्गि॑रसाम् । साम॑ऽभिः । स्तू॒यमा॑नाः ।
इन्द्रः॑ । इ॒न्द्रि॒यैः । म॒रुतः॑ । म॒रुत्ऽभिः॑ । आ॒दि॒त्यैः । नः॒ । अदि॑तिः । शर्म॑ । यं॒स॒त् ॥उप । नः । देवाः । अवसा । आ । गमन्तु । अङ्गिरसाम् । सामऽभिः । स्तूयमानाः ।
इन्द्रः । इन्द्रियैः । मरुतः । मरुत्ऽभिः । आदित्यैः । नः । अदितिः । शर्म । यंसत् ॥úpa ǀ naḥ ǀ devā́ḥ ǀ ávasā ǀ ā́ ǀ gamantu ǀ áṅgirasām ǀ sā́ma-bhiḥ ǀ stūyámānāḥ ǀ
índraḥ ǀ indriyáiḥ ǀ marútaḥ ǀ marút-bhiḥ ǀ ādityáiḥ ǀ naḥ ǀ áditiḥ ǀ śárma ǀ yaṃsat ǁupa ǀ naḥ ǀ devāḥ ǀ avasā ǀ ā ǀ gamantu ǀ aṅgirasām ǀ sāma-bhiḥ ǀ stūyamānāḥ ǀ
indraḥ ǀ indriyaiḥ ǀ marutaḥ ǀ marut-bhiḥ ǀ ādityaiḥ ǀ naḥ ǀ aditiḥ ǀ śarma ǀ yaṃsat ǁ1.107.2 Aṣṭaka 1.7.25.2Anuvāka 1.16.9
-
Ṛk 3
तन्न॒ इंद्र॒स्तद्वरु॑ण॒स्तद॒ग्निस्तद॑र्य॒मा तत्स॑वि॒ता चनो॑ धात् ।
तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥तन् न इन्द्रस् तद् वरुणस् तद् अग्निस् तद् अर्यमा तत् सविता चनो धात् |
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ||tánna índrastádváruṇastádagnístádaryamā́ tátsavitā́ cáno dhāt ǀ
tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyáuḥ ǁtan na indras tad varuṇas tad agnis tad aryamā tat savitā cano dhāt |
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||तत् । नः॒ । इन्द्रः॑ । तत् । वरु॑णः । तत् । अ॒ग्निः । तत् । अ॒र्य॒मा । तत् । स॒वि॒ता । चनः॑ । धा॒त् ।
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥तत् । नः । इन्द्रः । तत् । वरुणः । तत् । अग्निः । तत् । अर्यमा । तत् । सविता । चनः । धात् ।
तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥tát ǀ naḥ ǀ índraḥ ǀ tát ǀ váruṇaḥ ǀ tát ǀ agníḥ ǀ tát ǀ aryamā́ ǀ tát ǀ savitā́ ǀ cánaḥ ǀ dhāt ǀ
tát ǀ naḥ ǀ mitráḥ ǀ váruṇaḥ ǀ mamahantām ǀ áditiḥ ǀ síndhuḥ ǀ pṛthivī́ ǀ utá ǀ dyáuḥ ǁtat ǀ naḥ ǀ indraḥ ǀ tat ǀ varuṇaḥ ǀ tat ǀ agniḥ ǀ tat ǀ aryamā ǀ tat ǀ savitā ǀ canaḥ ǀ dhāt ǀ
tat ǀ naḥ ǀ mitraḥ ǀ varuṇaḥ ǀ mamahantām ǀ aditiḥ ǀ sindhuḥ ǀ pṛthivī ǀ uta ǀ dyauḥ ǁ1.107.3 Aṣṭaka 1.7.25.3Anuvāka 1.16.10
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.