Ṛgveda · Maṇḍala 1 · Sūkta 107
Ṛk 1.107.2
Saṃhitā
उप॑ नो दे॒वा अव॒सा ग॑मं॒त्वंगि॑रसां॒ साम॑भिः स्तू॒यमा॑नाः ।
इंद्र॑ इंद्रि॒यैर्म॒रुतो॑ म॒रुद्भि॑रादि॒त्यैर्नो॒ अदि॑तिः॒ शर्म॑ यंसत् ॥
उप नो देवा अवसा गमन्त्व् अङ्गिरसां सामभि स्तूयमानाः |
इन्द्र इन्द्रियैर् मरुतो मरुद्भिर् आदित्यैर् नो अदितिः शर्म यंसत् ||
úpa no devā́ ávasā́ gamantváṅgirasām sā́mabhiḥ stūyámānāḥ ǀ
índra indriyáirmarúto marúdbhirādityáirno áditiḥ śárma yaṃsat ǁ
upa no devā avasā gamantv aṅgirasāṃ sāmabhi stūyamānāḥ |
indra indriyair maruto marudbhir ādityair no aditiḥ śarma yaṃsat ||
Padapāṭha
उप॑ । नः॒ । दे॒वाः । अव॑सा । आ । ग॒म॒न्तु॒ । अङ्गि॑रसाम् । साम॑ऽभिः । स्तू॒यमा॑नाः ।
इन्द्रः॑ । इ॒न्द्रि॒यैः । म॒रुतः॑ । म॒रुत्ऽभिः॑ । आ॒दि॒त्यैः । नः॒ । अदि॑तिः । शर्म॑ । यं॒स॒त् ॥
उप । नः । देवाः । अवसा । आ । गमन्तु । अङ्गिरसाम् । सामऽभिः । स्तूयमानाः ।
इन्द्रः । इन्द्रियैः । मरुतः । मरुत्ऽभिः । आदित्यैः । नः । अदितिः । शर्म । यंसत् ॥
úpa ǀ naḥ ǀ devā́ḥ ǀ ávasā ǀ ā́ ǀ gamantu ǀ áṅgirasām ǀ sā́ma-bhiḥ ǀ stūyámānāḥ ǀ
índraḥ ǀ indriyáiḥ ǀ marútaḥ ǀ marút-bhiḥ ǀ ādityáiḥ ǀ naḥ ǀ áditiḥ ǀ śárma ǀ yaṃsat ǁ
upa ǀ naḥ ǀ devāḥ ǀ avasā ǀ ā ǀ gamantu ǀ aṅgirasām ǀ sāma-bhiḥ ǀ stūyamānāḥ ǀ
indraḥ ǀ indriyaiḥ ǀ marutaḥ ǀ marut-bhiḥ ǀ ādityaiḥ ǀ naḥ ǀ aditiḥ ǀ śarma ǀ yaṃsat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.107.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.7.25.02
- Maṇḍala · Anuvāka · Ṛk
- 1.16.009
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.