Ṛgveda · Maṇḍala 1

Sūkta 110

Ṛbhus · Kutsa Āṅgirasa · 9 ṛks

Link
Devatā देवता
Ṛbhus
Ṛṣi ऋषि
Kutsa Āṅgirasa
Chandas छन्दस्
Jagatī, Triṣṭubh
Metres by ṛk

1st set of styles virāḍjagatī (2, 3, 7); jagatī (1, 4); nicṛjjagatī (6, 8); nicṛttriṣṭup (5); triṣṭup (9)

2nd set of styles jagatī (1-4, 6-8); triṣṭubh (5, 9)

  1. Ṛk 1

    त॒तं मे॒ अप॒स्तदु॑ तायते॒ पुनः॒ स्वादि॑ष्ठा धी॒तिरु॒चथा॑य शस्यते ।
    अ॒यं स॑मु॒द्र इ॒ह वि॒श्वदे॑व्यः॒ स्वाहा॑कृतस्य॒ समु॑ तृप्णुत ऋभवः ॥

    ततम् मे अपस् तद् उ तायते पुनः स्वादिष्ठा धीतिर् उचथाय शस्यते |
    अयं समुद्र इह विश्वदेव्यः स्वाहाकृतस्य सम् उ तृप्णुत ऋभवः ||

    tatám me ápastádu tāyate púnaḥ svā́diṣṭhā dhītírucáthāya śasyate ǀ
    ayám samudrá ihá viśvádevyaḥ svā́hākṛtasya sámu tṛpṇuta ṛbhavaḥ ǁ

    tatam me apas tad u tāyate punaḥ svādiṣṭhā dhītir ucathāya śasyate |
    ayaṃ samudra iha viśvadevyaḥ svāhākṛtasya sam u tṛpṇuta ṛbhavaḥ ||

    त॒तम् । मे॒ । अपः॑ । तत् । ऊं॒ इति॑ । ता॒य॒ते॒ । पुन॒रिति॑ । स्वादि॑ष्ठा । धी॒तिः । उ॒चथा॑य । श॒स्य॒ते॒ ।
    अ॒यम् । स॒मु॒द्रः । इ॒ह । वि॒श्वऽदे॑व्यः । स्वाहा॑ऽकृतस्य । सम् । ऊं॒ इति॑ । तृ॒प्णु॒त॒ । ऋ॒भ॒वः॒ ॥

    ततम् । मे । अपः । तत् । ऊं इति । तायते । पुनरिति । स्वादिष्ठा । धीतिः । उचथाय । शस्यते ।
    अयम् । समुद्रः । इह । विश्वऽदेव्यः । स्वाहाऽकृतस्य । सम् । ऊं इति । तृप्णुत । ऋभवः ॥

    tatám ǀ me ǀ ápaḥ ǀ tát ǀ ūṃ íti ǀ tāyate ǀ púnaríti ǀ svā́diṣṭhā ǀ dhītíḥ ǀ ucáthāya ǀ śasyate ǀ
    ayám ǀ samudráḥ ǀ ihá ǀ viśvá-devyaḥ ǀ svā́hā-kṛtasya ǀ sám ǀ ūṃ íti ǀ tṛpṇuta ǀ ṛbhavaḥ ǁ

    tatam ǀ me ǀ apaḥ ǀ tat ǀ ūṃ iti ǀ tāyate ǀ punariti ǀ svādiṣṭhā ǀ dhītiḥ ǀ ucathāya ǀ śasyate ǀ
    ayam ǀ samudraḥ ǀ iha ǀ viśva-devyaḥ ǀ svāhā-kṛtasya ǀ sam ǀ ūṃ iti ǀ tṛpṇuta ǀ ṛbhavaḥ ǁ

    1.110.1 Aṣṭaka 1.7.30.1Anuvāka 1.16.32

  2. Ṛk 2

    आ॒भो॒गयं॒ प्र यदि॒च्छंत॒ ऐत॒नापा॑काः॒ प्रांचो॒ मम॒ के चि॑दा॒पयः॑ ।
    सौध॑न्वनासश्चरि॒तस्य॑ भू॒मनाग॑च्छत सवि॒तुर्दा॒शुषो॑ गृ॒हं ॥

    आभोगयम् प्र यद् इच्छन्त ऐतनापाकाः प्राञ्चो मम के चिद् आपयः |
    सौधन्वनासश् चरितस्य भूमनागच्छत सवितुर् दाशुषो गृहम् ||

    ābhogáyam prá yádicchánta áitanā́pākāḥ prā́ñco máma ké cidāpáyaḥ ǀ
    sáudhanvanāsaścaritásya bhūmánā́gacchata savitúrdāśúṣo gṛhám ǁ

    ābhogayam pra yad icchanta aitanāpākāḥ prāñco mama ke cid āpayaḥ |
    saudhanvanāsaś caritasya bhūmanāgacchata savitur dāśuṣo gṛham ||

    आ॒ऽभो॒गय॑म् । प्र । यत् । इ॒च्छन्तः॑ । ऐत॑न । अपा॑काः । प्राञ्चः॑ । मम॑ । के । चि॒त् । आ॒पयः॑ ।
    सौध॑न्वनासः । च॒रि॒तस्य॑ । भू॒मना॑ । अग॑च्छत । स॒वि॒तुः । दा॒शुषः॑ । गृ॒हम् ॥

    आऽभोगयम् । प्र । यत् । इच्छन्तः । ऐतन । अपाकाः । प्राञ्चः । मम । के । चित् । आपयः ।
    सौधन्वनासः । चरितस्य । भूमना । अगच्छत । सवितुः । दाशुषः । गृहम् ॥

    ā-bhogáyam ǀ prá ǀ yát ǀ icchántaḥ ǀ áitana ǀ ápākāḥ ǀ prā́ñcaḥ ǀ máma ǀ ké ǀ cit ǀ āpáyaḥ ǀ
    sáudhanvanāsaḥ ǀ caritásya ǀ bhūmánā ǀ ágacchata ǀ savitúḥ ǀ dāśúṣaḥ ǀ gṛhám ǁ

    ā-bhogayam ǀ pra ǀ yat ǀ icchantaḥ ǀ aitana ǀ apākāḥ ǀ prāñcaḥ ǀ mama ǀ ke ǀ cit ǀ āpayaḥ ǀ
    saudhanvanāsaḥ ǀ caritasya ǀ bhūmanā ǀ agacchata ǀ savituḥ ǀ dāśuṣaḥ ǀ gṛham ǁ

    1.110.2 Aṣṭaka 1.7.30.2Anuvāka 1.16.33

  3. Ṛk 3

    तत्स॑वि॒ता वो॑ऽमृत॒त्वमासु॑व॒दगो॑ह्यं॒ यच्छ्र॒वयं॑त॒ ऐत॑न ।
    त्यं चि॑च्चम॒समसु॑रस्य॒ भक्ष॑ण॒मेकं॒ संत॑मकृणुता॒ चतु॑र्वयं ॥

    तत् सविता वो ऽमृतत्वम् आसुवद् अगोह्यं यच् छ्रवयन्त ऐतन |
    त्यं चिच् चमसम् असुरस्य भक्षणम् एकं सन्तम् अकृणुता चतुर्वयम् ||

    tátsavitā́ vo’mṛtatvámā́suvadágohyam yácchraváyanta áitana ǀ
    tyám ciccamasámásurasya bhákṣaṇamékam sántamakṛṇutā cáturvayam ǁ

    tat savitā vo 'mṛtatvam āsuvad agohyaṃ yac chravayanta aitana |
    tyaṃ cic camasam asurasya bhakṣaṇam ekaṃ santam akṛṇutā caturvayam ||

    तत् । स॒वि॒ता । वः॒ । अ॒मृ॒त॒ऽत्वम् । आ । अ॒सु॒व॒त् । अगो॑ह्यम् । यत् । श्र॒वय॑न्तः । ऐत॑न ।
    त्यम् । चि॒त् । च॒म॒सम् । असु॑रस्य । भक्ष॑णम् । एक॑म् । सन्त॑म् । अ॒कृ॒णु॒त॒ । चतुः॑ऽवयम् ॥

    तत् । सविता । वः । अमृतऽत्वम् । आ । असुवत् । अगोह्यम् । यत् । श्रवयन्तः । ऐतन ।
    त्यम् । चित् । चमसम् । असुरस्य । भक्षणम् । एकम् । सन्तम् । अकृणुत । चतुःऽवयम् ॥

    tát ǀ savitā́ ǀ vaḥ ǀ amṛta-tvám ǀ ā́ ǀ asuvat ǀ ágohyam ǀ yát ǀ śraváyantaḥ ǀ áitana ǀ
    tyám ǀ cit ǀ camasám ǀ ásurasya ǀ bhákṣaṇam ǀ ékam ǀ sántam ǀ akṛṇuta ǀ cátuḥ-vayam ǁ

    tat ǀ savitā ǀ vaḥ ǀ amṛta-tvam ǀ ā ǀ asuvat ǀ agohyam ǀ yat ǀ śravayantaḥ ǀ aitana ǀ
    tyam ǀ cit ǀ camasam ǀ asurasya ǀ bhakṣaṇam ǀ ekam ǀ santam ǀ akṛṇuta ǀ catuḥ-vayam ǁ

    1.110.3 Aṣṭaka 1.7.30.3Anuvāka 1.16.34

  4. Ṛk 4

    वि॒ष्ट्वी शमी॑ तरणि॒त्वेन॑ वा॒घतो॒ मर्ता॑सः॒ संतो॑ अमृत॒त्वमा॑नशुः ।
    सौ॒ध॒न्व॒ना ऋ॒भवः॒ सूर॑चक्षसः संवत्स॒रे सम॑पृच्यंत धी॒तिभिः॑ ॥

    विष्ट्वी शमी तरणित्वेन वाघतो मर्तासः सन्तो अमृतत्वम् आनशुः |
    सौधन्वना ऋभवः सूरचक्षसः संवत्सरे सम् अपृच्यन्त धीतिभिः ||

    viṣṭvī́ śámī taraṇitvéna vāgháto mártāsaḥ sánto amṛtatvámānaśuḥ ǀ
    saudhanvanā́ ṛbhávaḥ sū́racakṣasaḥ saṃvatsaré sámapṛcyanta dhītíbhiḥ ǁ

    viṣṭvī śamī taraṇitvena vāghato martāsaḥ santo amṛtatvam ānaśuḥ |
    saudhanvanā ṛbhavaḥ sūracakṣasaḥ saṃvatsare sam apṛcyanta dhītibhiḥ ||

    वि॒ष्ट्वी । शमी॑ । त॒र॒णि॒ऽत्वेन॑ । वा॒घतः॑ । मर्ता॑सः । सन्तः॑ । अ॒मृ॒त॒ऽत्वम् । आ॒न॒शुः॒ ।
    सौ॒ध॒न्व॒नाः । ऋ॒भवः॑ । सूर॑ऽचक्षसः । सं॒व॒त्स॒रे । सम् । अ॒पृ॒च्य॒न्त॒ । धी॒तिऽभिः॑ ॥

    विष्ट्वी । शमी । तरणिऽत्वेन । वाघतः । मर्तासः । सन्तः । अमृतऽत्वम् । आनशुः ।
    सौधन्वनाः । ऋभवः । सूरऽचक्षसः । संवत्सरे । सम् । अपृच्यन्त । धीतिऽभिः ॥

    viṣṭvī́ ǀ śámī ǀ taraṇi-tvéna ǀ vāghátaḥ ǀ mártāsaḥ ǀ sántaḥ ǀ amṛta-tvám ǀ ānaśuḥ ǀ
    saudhanvanā́ḥ ǀ ṛbhávaḥ ǀ sū́ra-cakṣasaḥ ǀ saṃvatsaré ǀ sám ǀ apṛcyanta ǀ dhītí-bhiḥ ǁ

    viṣṭvī ǀ śamī ǀ taraṇi-tvena ǀ vāghataḥ ǀ martāsaḥ ǀ santaḥ ǀ amṛta-tvam ǀ ānaśuḥ ǀ
    saudhanvanāḥ ǀ ṛbhavaḥ ǀ sūra-cakṣasaḥ ǀ saṃvatsare ǀ sam ǀ apṛcyanta ǀ dhīti-bhiḥ ǁ

    1.110.4 Aṣṭaka 1.7.30.4Anuvāka 1.16.35

  5. Ṛk 5

    क्षेत्र॑मिव॒ वि म॑मु॒स्तेज॑नेनँ॒ एकं॒ पात्र॑मृ॒भवो॒ जेह॑मानं ।
    उप॑स्तुता उप॒मं नाध॑माना॒ अम॑र्त्येषु॒ श्रव॑ इ॒च्छमा॑नाः ॥

    क्षेत्रम् इव वि ममुस् तेजनेनं एकम् पात्रम् ऋभवो जेहमानम् |
    उपस्तुता उपमं नाधमाना अमर्त्येषु श्रव इच्छमानाः ||

    kṣétramiva ví mamustéjanenam̐ ékam pā́tramṛbhávo jéhamānam ǀ
    úpastutā upamám nā́dhamānā ámartyeṣu śráva icchámānāḥ ǁ

    kṣetram iva vi mamus tejanenaṃ ekam pātram ṛbhavo jehamānam |
    upastutā upamaṃ nādhamānā amartyeṣu śrava icchamānāḥ ||

    क्षेत्र॑म्ऽइव । वि । म॒मुः॒ । तेज॑नेन । एक॑म् । पात्र॑म् । ऋ॒भवः॑ । जेह॑मानम् ।
    उप॑ऽस्तुताः । उ॒प॒ऽमम् । नाध॑मानाः । अम॑र्त्येषु । श्रवः॑ । इ॒च्छमा॑नाः ॥

    क्षेत्रम्ऽइव । वि । ममुः । तेजनेन । एकम् । पात्रम् । ऋभवः । जेहमानम् ।
    उपऽस्तुताः । उपऽमम् । नाधमानाः । अमर्त्येषु । श्रवः । इच्छमानाः ॥

    kṣétram-iva ǀ ví ǀ mamuḥ ǀ téjanena ǀ ékam ǀ pā́tram ǀ ṛbhávaḥ ǀ jéhamānam ǀ
    úpa-stutāḥ ǀ upa-mám ǀ nā́dhamānāḥ ǀ ámartyeṣu ǀ śrávaḥ ǀ icchámānāḥ ǁ

    kṣetram-iva ǀ vi ǀ mamuḥ ǀ tejanena ǀ ekam ǀ pātram ǀ ṛbhavaḥ ǀ jehamānam ǀ
    upa-stutāḥ ǀ upa-mam ǀ nādhamānāḥ ǀ amartyeṣu ǀ śravaḥ ǀ icchamānāḥ ǁ

    1.110.5 Aṣṭaka 1.7.30.5Anuvāka 1.16.36

  6. Ṛk 6

    आ म॑नी॒षामं॒तरि॑क्षस्य॒ नृभ्यः॑ स्रु॒चेव॑ घृ॒तं जु॑हवाम वि॒द्मना॑ ।
    त॒र॒णि॒त्वा ये पि॒तुर॑स्य सश्चि॒र ऋ॒भवो॒ वाज॑मरुहंदि॒वो रजः॑ ॥

    आ मनीषाम् अन्तरिक्षस्य नृभ्यः स्रुचेव घृतं जुहवाम विद्मना |
    तरणित्वा ये पितुर् अस्य सश्चिर ऋभवो वाजम् अरुहन् दिवो रजः ||

    ā́ manīṣā́mantárikṣasya nṛ́bhyaḥ srucéva ghṛtám juhavāma vidmánā ǀ
    taraṇitvā́ yé pitúrasya saścirá ṛbhávo vā́jamaruhandivó rájaḥ ǁ

    ā manīṣām antarikṣasya nṛbhyaḥ sruceva ghṛtaṃ juhavāma vidmanā |
    taraṇitvā ye pitur asya saścira ṛbhavo vājam aruhan divo rajaḥ ||

    आ । म॒नी॒षाम् । अ॒न्तरि॑क्षस्य । नृऽभ्यः॑ । स्रु॒चाऽइ॑व । घृ॒तम् । जु॒ह॒वा॒म॒ । वि॒द्मना॑ ।
    त॒र॒णि॒ऽत्वा । ये । पि॒तुः । अ॒स्य॒ । स॒श्चि॒रे । ऋ॒भवः॑ । वाज॑म् । अ॒रु॒ह॒न् । दि॒वः । रजः॑ ॥

    आ । मनीषाम् । अन्तरिक्षस्य । नृऽभ्यः । स्रुचाऽइव । घृतम् । जुहवाम । विद्मना ।
    तरणिऽत्वा । ये । पितुः । अस्य । सश्चिरे । ऋभवः । वाजम् । अरुहन् । दिवः । रजः ॥

    ā́ ǀ manīṣā́m ǀ antárikṣasya ǀ nṛ́-bhyaḥ ǀ srucā́-iva ǀ ghṛtám ǀ juhavāma ǀ vidmánā ǀ
    taraṇi-tvā́ ǀ yé ǀ pitúḥ ǀ asya ǀ saściré ǀ ṛbhávaḥ ǀ vā́jam ǀ aruhan ǀ diváḥ ǀ rájaḥ ǁ

    ā ǀ manīṣām ǀ antarikṣasya ǀ nṛ-bhyaḥ ǀ srucā-iva ǀ ghṛtam ǀ juhavāma ǀ vidmanā ǀ
    taraṇi-tvā ǀ ye ǀ pituḥ ǀ asya ǀ saścire ǀ ṛbhavaḥ ǀ vājam ǀ aruhan ǀ divaḥ ǀ rajaḥ ǁ

    1.110.6 Aṣṭaka 1.7.31.1Anuvāka 1.16.37

  7. Ṛk 7

    ऋ॒भुर्न॒ इंद्रः॒ शव॑सा॒ नवी॑यानृ॒भुर्वाजे॑भि॒र्वसु॑भि॒र्वसु॑र्द॒दिः ।
    यु॒ष्माकं॑ देवा॒ अव॒साह॑नि प्रि॒ये॒३॒॑ऽभि ति॑ष्ठेम पृत्सु॒तीरसु॑न्वतां ॥

    ऋभुर् न इन्द्रः शवसा नवीयान् ऋभुर् वाजेभिर् वसुभिर् वसुर् ददिः |
    युष्माकं देवा अवसाहनि प्रिये ऽभि तिष्ठेम पृत्सुतीर् असुन्वताम् ||

    ṛbhúrna índraḥ śávasā návīyānṛbhúrvā́jebhirvásubhirvásurdadíḥ ǀ
    yuṣmā́kam devā ávasā́hani priyé’bhí tiṣṭhema pṛtsutī́rásunvatām ǁ

    ṛbhur na indraḥ śavasā navīyān ṛbhur vājebhir vasubhir vasur dadiḥ |
    yuṣmākaṃ devā avasāhani priye 'bhi tiṣṭhema pṛtsutīr asunvatām ||

    ऋ॒भुः । नः॒ । इन्द्रः॑ । शव॑सा । नवी॑यान् । ऋ॒भुः । वाजे॑भिः । वसु॑ऽभिः । वसुः॑ । द॒दिः ।
    यु॒ष्माक॑म् । दे॒वाः॒ । अव॑सा । अह॑नि । प्रि॒ये । अ॒भि । ति॒ष्ठे॒म॒ । पृ॒त्सु॒तीः । असु॑न्वताम् ॥

    ऋभुः । नः । इन्द्रः । शवसा । नवीयान् । ऋभुः । वाजेभिः । वसुऽभिः । वसुः । ददिः ।
    युष्माकम् । देवाः । अवसा । अहनि । प्रिये । अभि । तिष्ठेम । पृत्सुतीः । असुन्वताम् ॥

    ṛbhúḥ ǀ naḥ ǀ índraḥ ǀ śávasā ǀ návīyān ǀ ṛbhúḥ ǀ vā́jebhiḥ ǀ vásu-bhiḥ ǀ vásuḥ ǀ dadíḥ ǀ
    yuṣmā́kam ǀ devāḥ ǀ ávasā ǀ áhani ǀ priyé ǀ abhí ǀ tiṣṭhema ǀ pṛtsutī́ḥ ǀ ásunvatām ǁ

    ṛbhuḥ ǀ naḥ ǀ indraḥ ǀ śavasā ǀ navīyān ǀ ṛbhuḥ ǀ vājebhiḥ ǀ vasu-bhiḥ ǀ vasuḥ ǀ dadiḥ ǀ
    yuṣmākam ǀ devāḥ ǀ avasā ǀ ahani ǀ priye ǀ abhi ǀ tiṣṭhema ǀ pṛtsutīḥ ǀ asunvatām ǁ

    1.110.7 Aṣṭaka 1.7.31.2Anuvāka 1.16.38

  8. Ṛk 8

    निश्चर्म॑ण ऋभवो॒ गाम॑पिंशत॒ सं व॒त्सेना॑सृजता मा॒तरं॒ पुनः॑ ।
    सौध॑न्वनासः स्वप॒स्यया॑ नरो॒ जिव्री॒ युवा॑ना पि॒तरा॑कृणोतन ॥

    निश् चर्मण ऋभवो गाम् अपिंशत सं वत्सेनासृजता मातरम् पुनः |
    सौधन्वनासः स्वपस्यया नरो जिव्री युवाना पितराकृणोतन ||

    níścármaṇa ṛbhavo gā́mapiṃśata sám vatsénāsṛjatā mātáram púnaḥ ǀ
    sáudhanvanāsaḥ svapasyáyā naro jívrī yúvānā pitárākṛṇotana ǁ

    niś carmaṇa ṛbhavo gām apiṃśata saṃ vatsenāsṛjatā mātaram punaḥ |
    saudhanvanāsaḥ svapasyayā naro jivrī yuvānā pitarākṛṇotana ||

    निः । चर्म॑णः । ऋ॒भ॒वः॒ । गाम् । अ॒पिं॒श॒त॒ । सम् । व॒त्सेन॑ । अ॒सृ॒ज॒त॒ । मा॒तर॑म् । पुन॒रिति॑ ।
    सौध॑न्वनासः । सु॒ऽअ॒प॒स्यया॑ । न॒रः॒ । जिव्री॒ इति॑ । युवा॑ना । पि॒तरा॑ । अ॒कृ॒णो॒त॒न॒ ॥

    निः । चर्मणः । ऋभवः । गाम् । अपिंशत । सम् । वत्सेन । असृजत । मातरम् । पुनरिति ।
    सौधन्वनासः । सुऽअपस्यया । नरः । जिव्री इति । युवाना । पितरा । अकृणोतन ॥

    níḥ ǀ cármaṇaḥ ǀ ṛbhavaḥ ǀ gā́m ǀ apiṃśata ǀ sám ǀ vatséna ǀ asṛjata ǀ mātáram ǀ púnaríti ǀ
    sáudhanvanāsaḥ ǀ su-apasyáyā ǀ naraḥ ǀ jívrī íti ǀ yúvānā ǀ pitárā ǀ akṛṇotana ǁ

    niḥ ǀ carmaṇaḥ ǀ ṛbhavaḥ ǀ gām ǀ apiṃśata ǀ sam ǀ vatsena ǀ asṛjata ǀ mātaram ǀ punariti ǀ
    saudhanvanāsaḥ ǀ su-apasyayā ǀ naraḥ ǀ jivrī iti ǀ yuvānā ǀ pitarā ǀ akṛṇotana ǁ

    1.110.8 Aṣṭaka 1.7.31.3Anuvāka 1.16.39

  9. Ṛk 9

    वाजे॑भिर्नो॒ वाज॑सातावविड्ढ्यृभु॒माँ इं॑द्र चि॒त्रमा द॑र्षि॒ राधः॑ ।
    तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥

    वाजेभिर् नो वाजसाताव् अविड्ढ्य् ऋभुमां इन्द्र चित्रम् आ दर्षि राधः |
    तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ||

    vā́jebhirno vā́jasātāvaviḍḍhyṛbhumā́m̐ indra citrámā́ darṣi rā́dhaḥ ǀ
    tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyáuḥ ǁ

    vājebhir no vājasātāv aviḍḍhy ṛbhumāṃ indra citram ā darṣi rādhaḥ |
    tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

    वाजे॑भिः । नः॒ । वाज॑ऽसातौ । अ॒वि॒ड्ढि॒ । ऋ॒भु॒ऽमान् । इ॒न्द्र॒ । चि॒त्रम् । आ । द॒र्षि॒ । राधः॑ ।
    तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥

    वाजेभिः । नः । वाजऽसातौ । अविड्ढि । ऋभुऽमान् । इन्द्र । चित्रम् । आ । दर्षि । राधः ।
    तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥

    vā́jebhiḥ ǀ naḥ ǀ vā́ja-sātau ǀ aviḍḍhi ǀ ṛbhu-mā́n ǀ indra ǀ citrám ǀ ā́ ǀ darṣi ǀ rā́dhaḥ ǀ
    tát ǀ naḥ ǀ mitráḥ ǀ váruṇaḥ ǀ mamahantām ǀ áditiḥ ǀ síndhuḥ ǀ pṛthivī́ ǀ utá ǀ dyáuḥ ǁ

    vājebhiḥ ǀ naḥ ǀ vāja-sātau ǀ aviḍḍhi ǀ ṛbhu-mān ǀ indra ǀ citram ǀ ā ǀ darṣi ǀ rādhaḥ ǀ
    tat ǀ naḥ ǀ mitraḥ ǀ varuṇaḥ ǀ mamahantām ǀ aditiḥ ǀ sindhuḥ ǀ pṛthivī ǀ uta ǀ dyauḥ ǁ

    1.110.9 Aṣṭaka 1.7.31.4Anuvāka 1.16.40

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.110 · Ṛbhus

Interpretations

Sri Aurobindo

Ṛk 1

Woven was my web of work. Again that web is being woven; a sweetest honied thought is finding words for its expression in speech. Behold, this is the nectar ocean in which are all the gods; it is here, it has been made Swaha of the divinities. Take your delight in it, O ye Ribhus.

Ṛk 2

I give you the enjoyment of that for whose desire you come to me; O you near tome and high beyond, whatever powers, but my friends! O children of Sudhanwan, by the largeness of your movement of action you came to the house of Savitri when he was giving out the wine of his creation.

Ṛk 3

Savitri the Creator poured out for you immortality and then you moved to make it heard here of knowledge and a thing not to be kept secret, and you made of the one wine-cup of the Almighty, the cup of the wine-drinking, a fourfold bowl.

Ṛk 4

By entering in, by fulfilling of action, by the traversing of obstacles, by the speaking of the word, they who were mortal, have laid hands of enjoyment on immortality; Ribhus, children of Sudhanwan, saw with the sun for eye and were joined wholly to his thoughts in the year of Time.

Ṛk 5

The Ribhus have measured out like a field and have shaped as if with a sharp-cutting instrument the one cup that is carried on the paths. Hymned of men, they made for the highest high desiring to hear the voice of knowledge among the Immortals.

Ṛk 6

Come, let us pour out the thinking mind by knowledge to the strong ones of the Air as if clarified butter with a ladle. The Ribhus who have fixed their abodes, crossing beyond Father Heaven, climbed to the plenty of the luminous middle world.

Ṛk 7

Indra in his puissance is even to us a newer Ribhu and Ribhu joined with Vajas, lords of the plenty, and the Vasus, masters of riches, and giver of substance. O ye gods, by your fostering power may we assail in your cherished Day the armies of the powers who give not the nectar wine.

Ṛk 8

The Ribhus pressed into shape the Cow of Light out of her skin and joined the Mother with the child. O children of Sudhanwan, in your desire of perfect works you made our aged Father and Mother young again.

Ṛk 9

Increase us by the Vajas, lords of the plenty, in the winning of plenty; O Indra with the Ribhus, tear for us from its hiding place our rich felicity. This let Mitra and Varuna and the Mother Infinite magnify in me and the Great River and Earth and Heaven.