Ṛgveda · Maṇḍala 1

Sūkta 173

Indra · Agastya Maitrāvaruṇi · 13 ṛks

Link
Devatā देवता
Indra
Ṛṣi ऋषि
Agastya Maitrāvaruṇi
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles bhurikpaṅkti (6, 9, 10, 12); paṅktiḥ (1, 5, 11); virāṭtrisṭup (2, 8); nicṛttriṣṭup (7, 13); triṣṭup (3); bṛhatī (4)

2nd set of styles triṣṭubh

  1. Ṛk 1

    गाय॒त्साम॑ नभ॒न्यं१॒॑ यथा॒ वेरर्चा॑म॒ तद्वा॑वृधा॒नं स्व॑र्वत् ।
    गावो॑ धे॒नवो॑ ब॒र्हिष्यद॑ब्धा॒ आ यत्स॒द्मानं॑ दि॒व्यं विवा॑सान् ॥

    गायत् साम नभन्यं यथा वेर् अर्चाम तद् वावृधानं स्वर्वत् |
    गावो धेनवो बर्हिष्य् अदब्धा आ यत् सद्मानं दिव्यं विवासान् ||

    gā́yatsā́ma nabhanyám yáthā vérárcāma tádvāvṛdhānám svárvat ǀ
    gā́vo dhenávo barhíṣyádabdhā ā́ yátsadmā́nam divyám vívāsān ǁ

    gāyat sāma nabhanyaṃ yathā ver arcāma tad vāvṛdhānaṃ svarvat |
    gāvo dhenavo barhiṣy adabdhā ā yat sadmānaṃ divyaṃ vivāsān ||

    गाय॑त् । साम॑ । न॒भ॒न्य॑म् । यथा॑ । वेः । अर्चा॑म । तत् । व॒वृ॒धा॒नम् । स्वः॑ऽवत् ।
    गावः॑ । धे॒नवः॑ । ब॒र्हिषि॑ । अद॑ब्धाः । आ । यत् । स॒द्मान॑म् । दि॒व्यम् । विवा॑सान् ॥

    गायत् । साम । नभन्यम् । यथा । वेः । अर्चाम । तत् । ववृधानम् । स्वःऽवत् ।
    गावः । धेनवः । बर्हिषि । अदब्धाः । आ । यत् । सद्मानम् । दिव्यम् । विवासान् ॥

    gā́yat ǀ sā́ma ǀ nabhanyám ǀ yáthā ǀ véḥ ǀ árcāma ǀ tát ǀ vavṛdhānám ǀ sváḥ-vat ǀ
    gā́vaḥ ǀ dhenávaḥ ǀ barhíṣi ǀ ádabdhāḥ ǀ ā́ ǀ yát ǀ sadmā́nam ǀ divyám ǀ vívāsān ǁ

    gāyat ǀ sāma ǀ nabhanyam ǀ yathā ǀ veḥ ǀ arcāma ǀ tat ǀ vavṛdhānam ǀ svaḥ-vat ǀ
    gāvaḥ ǀ dhenavaḥ ǀ barhiṣi ǀ adabdhāḥ ǀ ā ǀ yat ǀ sadmānam ǀ divyam ǀ vivāsān ǁ

    1.173.1 Aṣṭaka 2.4.13.1Anuvāka 1.23.74

  2. Ṛk 2

    अर्च॒द्वृषा॒ वृष॑भिः॒ स्वेदु॑हव्यैर्मृ॒गो नाश्नो॒ अति॒ यज्जु॑गु॒र्यात् ।
    प्र मं॑द॒युर्म॒नां गू॑र्त॒ होता॒ भर॑ते॒ मर्यो॑ मिथु॒ना यज॑त्रः ॥

    अर्चद् वृषा वृषभिः स्वेदुहव्यैर् मृगो नाश्नो अति यज् जुगुर्यात् |
    प्र मन्दयुर् मनां गूर्त होता भरते मर्यो मिथुना यजत्रः ||

    árcadvṛ́ṣā vṛ́ṣabhiḥ svéduhavyairmṛgó nā́śno áti yájjuguryā́t ǀ
    prá mandayúrmanā́m gūrta hótā bhárate máryo mithunā́ yájatraḥ ǁ

    arcad vṛṣā vṛṣabhiḥ sveduhavyair mṛgo nāśno ati yaj juguryāt |
    pra mandayur manāṃ gūrta hotā bharate maryo mithunā yajatraḥ ||

    अर्च॑त् । वृषा॑ । वृष॑ऽभिः । स्वऽइदु॑हव्यैः । मृ॒गः । न । अश्नः॑ । अति॑ । यत् । जु॒गु॒र्यात् ।
    प्र । म॒न्द॒युः । म॒नाम् । गू॒र्त॒ । होता॑ । भर॑ते । मर्यः॑ । मि॒थु॒ना । यज॑त्रः ॥

    अर्चत् । वृषा । वृषऽभिः । स्वऽइदुहव्यैः । मृगः । न । अश्नः । अति । यत् । जुगुर्यात् ।
    प्र । मन्दयुः । मनाम् । गूर्त । होता । भरते । मर्यः । मिथुना । यजत्रः ॥

    árcat ǀ vṛ́ṣā ǀ vṛ́ṣa-bhiḥ ǀ svá-íduhavyaiḥ ǀ mṛgáḥ ǀ ná ǀ áśnaḥ ǀ áti ǀ yát ǀ juguryā́t ǀ
    prá ǀ mandayúḥ ǀ manā́m ǀ gūrta ǀ hótā ǀ bhárate ǀ máryaḥ ǀ mithunā́ ǀ yájatraḥ ǁ

    arcat ǀ vṛṣā ǀ vṛṣa-bhiḥ ǀ sva-iduhavyaiḥ ǀ mṛgaḥ ǀ na ǀ aśnaḥ ǀ ati ǀ yat ǀ juguryāt ǀ
    pra ǀ mandayuḥ ǀ manām ǀ gūrta ǀ hotā ǀ bharate ǀ maryaḥ ǀ mithunā ǀ yajatraḥ ǁ

    1.173.2 Aṣṭaka 2.4.13.2Anuvāka 1.23.75

  3. Ṛk 3

    नक्ष॒द्धोता॒ परि॒ सद्म॑ मि॒ता यन्भर॒द्गर्भ॒मा श॒रदः॑ पृथि॒व्याः ।
    क्रंद॒दश्वो॒ नय॑मानो रु॒वद्गौरं॒तर्दू॒तो न रोद॑सी चर॒द्वाक् ॥

    नक्षद् धोता परि सद्म मिता यन् भरद् गर्भम् आ शरदः पृथिव्याः |
    क्रन्दद् अश्वो नयमानो रुवद् गौर् अन्तर् दूतो न रोदसी चरद् वाक् ||

    nákṣaddhótā pári sádma mitā́ yánbháradgárbhamā́ śarádaḥ pṛthivyā́ḥ ǀ
    krándadáśvo náyamāno ruvádgáurantárdūtó ná ródasī caradvā́k ǁ

    nakṣad dhotā pari sadma mitā yan bharad garbham ā śaradaḥ pṛthivyāḥ |
    krandad aśvo nayamāno ruvad gaur antar dūto na rodasī carad vāk ||

    नक्ष॑त् । होता॑ । परि॑ । सद्म॑ । मि॒ता । यन् । भर॑त् । गर्भ॑म् । आ । श॒रदः॑ । पृ॒थि॒व्याः ।
    क्रन्द॑त् । अश्वः॑ । नय॑मानः । रु॒वत् । गौः । अ॒न्तः । दू॒तः । न । रोद॑सी॒ इति॑ । च॒र॒त् । वाक् ॥

    नक्षत् । होता । परि । सद्म । मिता । यन् । भरत् । गर्भम् । आ । शरदः । पृथिव्याः ।
    क्रन्दत् । अश्वः । नयमानः । रुवत् । गौः । अन्तः । दूतः । न । रोदसी इति । चरत् । वाक् ॥

    nákṣat ǀ hótā ǀ pári ǀ sádma ǀ mitā́ ǀ yán ǀ bhárat ǀ gárbham ǀ ā́ ǀ śarádaḥ ǀ pṛthivyā́ḥ ǀ
    krándat ǀ áśvaḥ ǀ náyamānaḥ ǀ ruvát ǀ gáuḥ ǀ antáḥ ǀ dūtáḥ ǀ ná ǀ ródasī íti ǀ carat ǀ vā́k ǁ

    nakṣat ǀ hotā ǀ pari ǀ sadma ǀ mitā ǀ yan ǀ bharat ǀ garbham ǀ ā ǀ śaradaḥ ǀ pṛthivyāḥ ǀ
    krandat ǀ aśvaḥ ǀ nayamānaḥ ǀ ruvat ǀ gauḥ ǀ antaḥ ǀ dūtaḥ ǀ na ǀ rodasī iti ǀ carat ǀ vāk ǁ

    1.173.3 Aṣṭaka 2.4.13.3Anuvāka 1.23.76

  4. Ṛk 4

    ता क॒र्माष॑तरास्मै॒ प्र च्यौ॒त्नानि॑ देव॒यंतो॑ भरंते ।
    जुजो॑ष॒दिंद्रो॑ द॒स्मव॑र्चा॒ नास॑त्येव॒ सुग्म्यो॑ रथे॒ष्ठाः ॥

    ता कर्माषतरास्मै प्र च्यौत्नानि देवयन्तो भरन्ते |
    जुजोषद् इन्द्रो दस्मवर्चा नासत्येव सुग्म्यो रथेष्ठाः ||

    tā́ karmā́ṣatarāsmai prá cyautnā́ni devayánto bharante ǀ
    jújoṣadíndro dasmávarcā nā́satyeva súgmyo ratheṣṭhā́ḥ ǁ

    tā karmāṣatarāsmai pra cyautnāni devayanto bharante |
    jujoṣad indro dasmavarcā nāsatyeva sugmyo ratheṣṭhāḥ ||

    ता । क॒र्म॒ । अष॑ऽतरा । अ॒स्मै॒ । प्र । च्यौ॒त्नानि॑ । दे॒व॒ऽयन्तः॑ । भ॒र॒न्ते॒ ।
    जुजो॑षत् । इन्द्रः॑ । द॒स्मऽव॑र्चाः । नास॑त्याऽइव । सुग्म्यः॑ । र॒थे॒ऽस्थाः ॥

    ता । कर्म । अषऽतरा । अस्मै । प्र । च्यौत्नानि । देवऽयन्तः । भरन्ते ।
    जुजोषत् । इन्द्रः । दस्मऽवर्चाः । नासत्याऽइव । सुग्म्यः । रथेऽस्थाः ॥

    tā́ ǀ karma ǀ áṣa-tarā ǀ asmai ǀ prá ǀ cyautnā́ni ǀ deva-yántaḥ ǀ bharante ǀ
    jújoṣat ǀ índraḥ ǀ dasmá-varcāḥ ǀ nā́satyā-iva ǀ súgmyaḥ ǀ rathe-sthā́ḥ ǁ

    tā ǀ karma ǀ aṣa-tarā ǀ asmai ǀ pra ǀ cyautnāni ǀ deva-yantaḥ ǀ bharante ǀ
    jujoṣat ǀ indraḥ ǀ dasma-varcāḥ ǀ nāsatyā-iva ǀ sugmyaḥ ǀ rathe-sthāḥ ǁ

    1.173.4 Aṣṭaka 2.4.13.4Anuvāka 1.23.77

  5. Ṛk 5

    तमु॑ ष्टु॒हींद्रं॒ यो ह॒ सत्वा॒ यः शूरो॑ म॒घवा॒ यो र॑थे॒ष्ठाः ।
    प्र॒ती॒चश्चि॒द्योधी॑या॒न्वृष॑ण्वान्वव॒व्रुष॑श्चि॒त्तम॑सो विहं॒ता ॥

    तम् उ ष्टुहीन्द्रं यो ह सत्वा यः शूरो मघवा यो रथेष्ठाः |
    प्रतीचश् चिद् योधीयान् वृषण्वान् ववव्रुषश् चित् तमसो विहन्ता ||

    támu ṣṭuhī́ndram yó ha sátvā yáḥ śū́ro maghávā yó ratheṣṭhā́ḥ ǀ
    pratīcáścidyódhīyānvṛ́ṣaṇvānvavavrúṣaścittámaso vihantā́ ǁ

    tam u ṣṭuhīndraṃ yo ha satvā yaḥ śūro maghavā yo ratheṣṭhāḥ |
    pratīcaś cid yodhīyān vṛṣaṇvān vavavruṣaś cit tamaso vihantā ||

    तम् । ऊं॒ इति॑ । स्तु॒हि॒ । इन्द्र॑म् । यः । ह॒ । सत्वा॑ । यः । शूरः॑ । म॒घवा॑ । यः । र॒थे॒ऽस्थाः ।
    प्र॒ती॒चः । चि॒त् । योधी॑यान् । वृष॑ण्ऽवान् । व॒व॒व्रुषः॑ । चि॒त् । तम॑सः । वि॒ऽह॒न्ता ॥

    तम् । ऊं इति । स्तुहि । इन्द्रम् । यः । ह । सत्वा । यः । शूरः । मघवा । यः । रथेऽस्थाः ।
    प्रतीचः । चित् । योधीयान् । वृषण्ऽवान् । ववव्रुषः । चित् । तमसः । विऽहन्ता ॥

    tám ǀ ūṃ íti ǀ stuhi ǀ índram ǀ yáḥ ǀ ha ǀ sátvā ǀ yáḥ ǀ śū́raḥ ǀ maghávā ǀ yáḥ ǀ rathe-sthā́ḥ ǀ
    pratīcáḥ ǀ cit ǀ yódhīyān ǀ vṛ́ṣaṇ-vān ǀ vavavrúṣaḥ ǀ cit ǀ támasaḥ ǀ vi-hantā́ ǁ

    tam ǀ ūṃ iti ǀ stuhi ǀ indram ǀ yaḥ ǀ ha ǀ satvā ǀ yaḥ ǀ śūraḥ ǀ maghavā ǀ yaḥ ǀ rathe-sthāḥ ǀ
    pratīcaḥ ǀ cit ǀ yodhīyān ǀ vṛṣaṇ-vān ǀ vavavruṣaḥ ǀ cit ǀ tamasaḥ ǀ vi-hantā ǁ

    1.173.5 Aṣṭaka 2.4.13.5Anuvāka 1.23.78

  6. Ṛk 6

    प्र यदि॒त्था म॑हि॒ना नृभ्यो॒ अस्त्यरं॒ रोद॑सी क॒क्ष्ये॒३॒॑ नास्मै॑ ।
    सं वि॑व्य॒ इंद्रो॑ वृ॒जनं॒ न भूमा॒ भर्ति॑ स्व॒धावाँ॑ ओप॒शमि॑व॒ द्यां ॥

    प्र यद् इत्था महिना नृभ्यो अस्त्य् अरं रोदसी कक्ष्ये नास्मै |
    सं विव्य इन्द्रो वृजनं न भूमा भर्ति स्वधावां ओपशम् इव द्याम् ||

    prá yáditthā́ mahinā́ nṛ́bhyo ástyáram ródasī kakṣyé nā́smai ǀ
    sám vivya índro vṛjánam ná bhū́mā bhárti svadhā́vām̐ opaśámiva dyā́m ǁ

    pra yad itthā mahinā nṛbhyo asty araṃ rodasī kakṣye nāsmai |
    saṃ vivya indro vṛjanaṃ na bhūmā bharti svadhāvāṃ opaśam iva dyām ||

    प्र । यत् । इ॒त्था । म॒हि॒ना । नृऽभ्यः॑ । अस्ति॑ । अर॑म् । रोद॑सी॒ इति॑ । क॒क्ष्ये॒३॒॑ इति॑ । न । अ॒स्मै॒ ।
    सम् । वि॒व्ये॒ । इन्द्रः॑ । वृ॒जन॑म् । न । भूम॑ । भर्ति॑ । स्व॒धाऽवा॑न् । ओ॒प॒शम्ऽइ॑व । द्याम् ॥

    प्र । यत् । इत्था । महिना । नृऽभ्यः । अस्ति । अरम् । रोदसी इति । कक्ष्ये इति । न । अस्मै ।
    सम् । विव्ये । इन्द्रः । वृजनम् । न । भूम । भर्ति । स्वधाऽवान् । ओपशम्ऽइव । द्याम् ॥

    prá ǀ yát ǀ itthā́ ǀ mahinā́ ǀ nṛ́-bhyaḥ ǀ ásti ǀ áram ǀ ródasī íti ǀ kakṣyé íti ǀ ná ǀ asmai ǀ
    sám ǀ vivye ǀ índraḥ ǀ vṛjánam ǀ ná ǀ bhū́ma ǀ bhárti ǀ svadhā́-vān ǀ opaśám-iva ǀ dyā́m ǁ

    pra ǀ yat ǀ itthā ǀ mahinā ǀ nṛ-bhyaḥ ǀ asti ǀ aram ǀ rodasī iti ǀ kakṣye iti ǀ na ǀ asmai ǀ
    sam ǀ vivye ǀ indraḥ ǀ vṛjanam ǀ na ǀ bhūma ǀ bharti ǀ svadhā-vān ǀ opaśam-iva ǀ dyām ǁ

    1.173.6 Aṣṭaka 2.4.14.1Anuvāka 1.23.79

  7. Ṛk 7

    स॒मत्सु॑ त्वा शूर स॒तामु॑रा॒णं प्र॑प॒थिंत॑मं परितंस॒यध्यै॑ ।
    स॒जोष॑स॒ इंद्रं॒ मदे॑ क्षो॒णीः सू॒रिं चि॒द्ये अ॑नु॒मदं॑ति॒ वाजैः॑ ॥

    समत्सु त्वा शूर सताम् उराणम् प्रपथिन्तमम् परितंसयध्यै |
    सजोषस इन्द्रम् मदे क्षोणीः सूरिं चिद् ये अनुमदन्ति वाजैः ||

    samátsu tvā śūra satā́murāṇám prapathíntamam paritaṃsayádhyai ǀ
    sajóṣasa índram máde kṣoṇī́ḥ sūrím cidyé anumádanti vā́jaiḥ ǁ

    samatsu tvā śūra satām urāṇam prapathintamam paritaṃsayadhyai |
    sajoṣasa indram made kṣoṇīḥ sūriṃ cid ye anumadanti vājaiḥ ||

    स॒मत्ऽसु॑ । त्वा॒ । शू॒र॒ । स॒ताम् । उ॒रा॒णम् । प्र॒प॒थिन्ऽत॑मम् । प॒रि॒ऽतं॒स॒यध्यै॑ ।
    स॒ऽजोष॑सः । इन्द्र॑म् । मदे॑ । क्षो॒णीः । सू॒रिम् । चि॒त् । ये । अ॒नु॒ऽमद॑न्ति । वाजैः॑ ॥

    समत्ऽसु । त्वा । शूर । सताम् । उराणम् । प्रपथिन्ऽतमम् । परिऽतंसयध्यै ।
    सऽजोषसः । इन्द्रम् । मदे । क्षोणीः । सूरिम् । चित् । ये । अनुऽमदन्ति । वाजैः ॥

    samát-su ǀ tvā ǀ śūra ǀ satā́m ǀ urāṇám ǀ prapathín-tamam ǀ pari-taṃsayádhyai ǀ
    sa-jóṣasaḥ ǀ índram ǀ máde ǀ kṣoṇī́ḥ ǀ sūrím ǀ cit ǀ yé ǀ anu-mádanti ǀ vā́jaiḥ ǁ

    samat-su ǀ tvā ǀ śūra ǀ satām ǀ urāṇam ǀ prapathin-tamam ǀ pari-taṃsayadhyai ǀ
    sa-joṣasaḥ ǀ indram ǀ made ǀ kṣoṇīḥ ǀ sūrim ǀ cit ǀ ye ǀ anu-madanti ǀ vājaiḥ ǁ

    1.173.7 Aṣṭaka 2.4.14.2Anuvāka 1.23.80

  8. Ṛk 8

    ए॒वा हि ते॒ शं सव॑ना समु॒द्र आपो॒ यत्त॑ आ॒सु मदं॑ति दे॒वीः ।
    विश्वा॑ ते॒ अनु॒ जोष्या॑ भू॒द्गौः सू॒रींश्चि॒द्यदि॑ धि॒षा वेषि॒ जना॑न् ॥

    एवा हि ते शं सवना समुद्र आपो यत् त आसु मदन्ति देवीः |
    विश्वा ते अनु जोष्या भूद् गौः सूरींश् चिद् यदि धिषा वेषि जनान् ||

    evā́ hí te śám sávanā samudrá ā́po yátta āsú mádanti devī́ḥ ǀ
    víśvā te ánu jóṣyā bhūdgáuḥ sūrī́ṃścidyádi dhiṣā́ véṣi jánān ǁ

    evā hi te śaṃ savanā samudra āpo yat ta āsu madanti devīḥ |
    viśvā te anu joṣyā bhūd gauḥ sūrīṃś cid yadi dhiṣā veṣi janān ||

    ए॒व । हि । ते॒ । शम् । सव॑ना । स॒मु॒द्रे । आपः॑ । यत् । ते॒ । आ॒सु । मद॑न्ति । दे॒वीः ।
    विश्वा॑ । ते॒ । अनु॑ । जोष्या॑ । भू॒त् । गौः । सू॒रीन् । चि॒त् । यदि॑ । धि॒षा । वेषि॑ । जना॑न् ॥

    एव । हि । ते । शम् । सवना । समुद्रे । आपः । यत् । ते । आसु । मदन्ति । देवीः ।
    विश्वा । ते । अनु । जोष्या । भूत् । गौः । सूरीन् । चित् । यदि । धिषा । वेषि । जनान् ॥

    evá ǀ hí ǀ te ǀ śám ǀ sávanā ǀ samudré ǀ ā́paḥ ǀ yát ǀ te ǀ āsú ǀ mádanti ǀ devī́ḥ ǀ
    víśvā ǀ te ǀ ánu ǀ jóṣyā ǀ bhūt ǀ gáuḥ ǀ sūrī́n ǀ cit ǀ yádi ǀ dhiṣā́ ǀ véṣi ǀ jánān ǁ

    eva ǀ hi ǀ te ǀ śam ǀ savanā ǀ samudre ǀ āpaḥ ǀ yat ǀ te ǀ āsu ǀ madanti ǀ devīḥ ǀ
    viśvā ǀ te ǀ anu ǀ joṣyā ǀ bhūt ǀ gauḥ ǀ sūrīn ǀ cit ǀ yadi ǀ dhiṣā ǀ veṣi ǀ janān ǁ

    1.173.8 Aṣṭaka 2.4.14.3Anuvāka 1.23.81

  9. Ṛk 9

    असा॑म॒ यथा॑ सुष॒खाय॑ एन स्वभि॒ष्टयो॑ न॒रां न शंसैः॑ ।
    अस॒द्यथा॑ न॒ इंद्रो॑ वंदने॒ष्ठास्तु॒रो न कर्म॒ नय॑मान उ॒क्था ॥

    असाम यथा सुषखाय एन स्वभिष्टयो नरां न शंसैः |
    असद् यथा न इन्द्रो वन्दनेष्ठास् तुरो न कर्म नयमान उक्था ||

    ásāma yáthā suṣakhā́ya ena svabhiṣṭáyo narā́m ná śáṃsaiḥ ǀ
    ásadyáthā na índro vandaneṣṭhā́sturó ná kárma náyamāna ukthā́ ǁ

    asāma yathā suṣakhāya ena svabhiṣṭayo narāṃ na śaṃsaiḥ |
    asad yathā na indro vandaneṣṭhās turo na karma nayamāna ukthā ||

    असा॑म । यथा॑ । सु॒ऽस॒खायः॑ । ए॒न॒ । सु॒ऽअ॒भि॒ष्टयः॑ । न॒राम् । न । शंसैः॑ ।
    अस॑त् । यथा॑ । नः॒ । इन्द्रः॑ । व॒न्द॒ने॒ऽस्थाः । तु॒रः । न । कर्म॑ । नय॑मानः । उ॒क्था ॥

    असाम । यथा । सुऽसखायः । एन । सुऽअभिष्टयः । नराम् । न । शंसैः ।
    असत् । यथा । नः । इन्द्रः । वन्दनेऽस्थाः । तुरः । न । कर्म । नयमानः । उक्था ॥

    ásāma ǀ yáthā ǀ su-sakhā́yaḥ ǀ ena ǀ su-abhiṣṭáyaḥ ǀ narā́m ǀ ná ǀ śáṃsaiḥ ǀ
    ásat ǀ yáthā ǀ naḥ ǀ índraḥ ǀ vandane-sthā́ḥ ǀ turáḥ ǀ ná ǀ kárma ǀ náyamānaḥ ǀ ukthā́ ǁ

    asāma ǀ yathā ǀ su-sakhāyaḥ ǀ ena ǀ su-abhiṣṭayaḥ ǀ narām ǀ na ǀ śaṃsaiḥ ǀ
    asat ǀ yathā ǀ naḥ ǀ indraḥ ǀ vandane-sthāḥ ǀ turaḥ ǀ na ǀ karma ǀ nayamānaḥ ǀ ukthā ǁ

    1.173.9 Aṣṭaka 2.4.14.4Anuvāka 1.23.82

  10. Ṛk 10

    विष्प॑र्धसो न॒रां न शंसै॑र॒स्माका॑स॒दिंद्रो॒ वज्र॑हस्तः ।
    मि॒त्रा॒युवो॒ न पूर्प॑तिं॒ सुशि॑ष्टौ मध्या॒युव॒ उप॑ शिक्षंति य॒ज्ञैः ॥

    विष्पर्धसो नरां न शंसैर् अस्माकासद् इन्द्रो वज्रहस्तः |
    मित्रायुवो न पूर्पतिं सुशिष्टौ मध्यायुव उप शिक्षन्ति यज्ञैः ||

    víṣpardhaso narā́m ná śáṃsairasmā́kāsadíndro vájrahastaḥ ǀ
    mitrāyúvo ná pū́rpatim súśiṣṭau madhyāyúva úpa śikṣanti yajñáiḥ ǁ

    viṣpardhaso narāṃ na śaṃsair asmākāsad indro vajrahastaḥ |
    mitrāyuvo na pūrpatiṃ suśiṣṭau madhyāyuva upa śikṣanti yajñaiḥ ||

    विऽस्प॑र्धसः । न॒राम् । न । शंसैः॑ । अ॒स्माक॑ । अ॒स॒त् । इन्द्रः॑ । वज्र॑ऽहस्तः ।
    मि॒त्र॒ऽयुवः॑ । न । पूःऽप॑तिम् । सुऽशि॑ष्टौ । म॒ध्य॒ऽयुवः॑ । उप॑ । शि॒क्ष॒न्ति॒ । य॒ज्ञैः ॥

    विऽस्पर्धसः । नराम् । न । शंसैः । अस्माक । असत् । इन्द्रः । वज्रऽहस्तः ।
    मित्रऽयुवः । न । पूःऽपतिम् । सुऽशिष्टौ । मध्यऽयुवः । उप । शिक्षन्ति । यज्ञैः ॥

    ví-spardhasaḥ ǀ narā́m ǀ ná ǀ śáṃsaiḥ ǀ asmā́ka ǀ asat ǀ índraḥ ǀ vájra-hastaḥ ǀ
    mitra-yúvaḥ ǀ ná ǀ pū́ḥ-patim ǀ sú-śiṣṭau ǀ madhya-yúvaḥ ǀ úpa ǀ śikṣanti ǀ yajñáiḥ ǁ

    vi-spardhasaḥ ǀ narām ǀ na ǀ śaṃsaiḥ ǀ asmāka ǀ asat ǀ indraḥ ǀ vajra-hastaḥ ǀ
    mitra-yuvaḥ ǀ na ǀ pūḥ-patim ǀ su-śiṣṭau ǀ madhya-yuvaḥ ǀ upa ǀ śikṣanti ǀ yajñaiḥ ǁ

    1.173.10 Aṣṭaka 2.4.14.5Anuvāka 1.23.83

  11. Ṛk 11

    य॒ज्ञो हि ष्मेंद्रं॒ कश्चि॑दृं॒धंजु॑हुरा॒णश्चि॒न्मन॑सा परि॒यन् ।
    ती॒र्थे नाच्छा॑ तातृषा॒णमोको॑ दी॒र्घो न सि॒ध्रमा कृ॑णो॒त्यध्वा॑ ॥

    यज्ञो हि ष्मेन्द्रं कश् चिद् ऋन्धञ् जुहुराणश् चिन् मनसा परियन् |
    तीर्थे नाच्छा तातृषाणम् ओको दीर्घो न सिध्रम् आ कृणोत्य् अध्वा ||

    yajñó hí ṣméndram káścidṛndháñjuhurāṇáścinmánasā pariyán ǀ
    tīrthé nā́cchā tātṛṣāṇámóko dīrghó ná sidhrámā́ kṛṇotyádhvā ǁ

    yajño hi ṣmendraṃ kaś cid ṛndhañ juhurāṇaś cin manasā pariyan |
    tīrthe nācchā tātṛṣāṇam oko dīrgho na sidhram ā kṛṇoty adhvā ||

    य॒ज्ञः । हि । स्म॒ । इन्द्र॑म् । कः । चि॒त् । ऋ॒न्धन् । जु॒हु॒रा॒णः । चि॒त् । मन॑सा । प॒रि॒ऽयन् ।
    ती॒र्थे । न । अच्छ॑ । त॒तृ॒षा॒णम् । ओकः॑ । दी॒र्घः । न । सि॒ध्रम् । आ । कृ॒णो॒ति॒ । अध्वा॑ ॥

    यज्ञः । हि । स्म । इन्द्रम् । कः । चित् । ऋन्धन् । जुहुराणः । चित् । मनसा । परिऽयन् ।
    तीर्थे । न । अच्छ । ततृषाणम् । ओकः । दीर्घः । न । सिध्रम् । आ । कृणोति । अध्वा ॥

    yajñáḥ ǀ hí ǀ sma ǀ índram ǀ káḥ ǀ cit ǀ ṛndhán ǀ juhurāṇáḥ ǀ cit ǀ mánasā ǀ pari-yán ǀ
    tīrthé ǀ ná ǀ áccha ǀ tatṛṣāṇám ǀ ókaḥ ǀ dīrgháḥ ǀ ná ǀ sidhrám ǀ ā́ ǀ kṛṇoti ǀ ádhvā ǁ

    yajñaḥ ǀ hi ǀ sma ǀ indram ǀ kaḥ ǀ cit ǀ ṛndhan ǀ juhurāṇaḥ ǀ cit ǀ manasā ǀ pari-yan ǀ
    tīrthe ǀ na ǀ accha ǀ tatṛṣāṇam ǀ okaḥ ǀ dīrghaḥ ǀ na ǀ sidhram ǀ ā ǀ kṛṇoti ǀ adhvā ǁ

    1.173.11 Aṣṭaka 2.4.15.1Anuvāka 1.23.84

  12. Ṛk 12

    मो षू ण॑ इं॒द्रात्र॑ पृ॒त्सु दे॒वैरस्ति॒ हि ष्मा॑ ते शुष्मिन्नव॒याः ।
    म॒हश्चि॒द्यस्य॑ मी॒ळ्हुषो॑ य॒व्या ह॒विष्म॑तो म॒रुतो॒ वंद॑ते॒ गीः ॥

    मो षू ण इन्द्रात्र पृत्सु देवैर् अस्ति हि ष्मा ते शुष्मिन्न् अवयाः |
    महश् चिद् यस्य मीऌहुषो यव्या हविष्मतो मरुतो वन्दते गीः ||

    mó ṣū́ ṇa indrā́tra pṛtsú deváirásti hí ṣmā te śuṣminnavayā́ḥ ǀ
    maháścidyásya mīḷhúṣo yavyā́ havíṣmato marúto vándate gī́ḥ ǁ

    mo ṣū ṇa indrātra pṛtsu devair asti hi ṣmā te śuṣminn avayāḥ |
    mahaś cid yasya mīḷhuṣo yavyā haviṣmato maruto vandate gīḥ ||

    मो इति॑ । सु । नः॒ । इ॒न्द्र॒ । अत्र॑ । पृ॒त्ऽसु । दे॒वैः । अस्ति॑ । हि । स्म॒ । ते॒ । शु॒ष्मि॒न् । अ॒व॒ऽयाः ।
    म॒हः । चि॒त् । यस्य॑ । मी॒ळ्हुषः॑ । य॒व्या । ह॒विष्म॑तः । म॒रुतः॑ । वन्द॑ते । गीः ॥

    मो इति । सु । नः । इन्द्र । अत्र । पृत्ऽसु । देवैः । अस्ति । हि । स्म । ते । शुष्मिन् । अवऽयाः ।
    महः । चित् । यस्य । मीळ्हुषः । यव्या । हविष्मतः । मरुतः । वन्दते । गीः ॥

    mó íti ǀ sú ǀ naḥ ǀ indra ǀ átra ǀ pṛt-sú ǀ deváiḥ ǀ ásti ǀ hí ǀ sma ǀ te ǀ śuṣmin ǀ ava-yā́ḥ ǀ
    maháḥ ǀ cit ǀ yásya ǀ mīḷhúṣaḥ ǀ yavyā́ ǀ havíṣmataḥ ǀ marútaḥ ǀ vándate ǀ gī́ḥ ǁ

    mo iti ǀ su ǀ naḥ ǀ indra ǀ atra ǀ pṛt-su ǀ devaiḥ ǀ asti ǀ hi ǀ sma ǀ te ǀ śuṣmin ǀ ava-yāḥ ǀ
    mahaḥ ǀ cit ǀ yasya ǀ mīḷhuṣaḥ ǀ yavyā ǀ haviṣmataḥ ǀ marutaḥ ǀ vandate ǀ gīḥ ǁ

    1.173.12 Aṣṭaka 2.4.15.2Anuvāka 1.23.85

  13. Ṛk 13

    ए॒ष स्तोम॑ इंद्र॒ तुभ्य॑म॒स्मे ए॒तेन॑ गा॒तुं ह॑रिवो विदो नः ।
    आ नो॑ ववृत्याः सुवि॒ताय॑ देव वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥

    एष स्तोम इन्द्र तुभ्यम् अस्मे एतेन गातुं हरिवो विदो नः |
    आ नो ववृत्याः सुविताय देव विद्यामेषं वृजनं जीरदानुम् ||

    eṣá stóma indra túbhyamasmé eténa gātúm harivo vido naḥ ǀ
    ā́ no vavṛtyāḥ suvitā́ya deva vidyā́meṣám vṛjánam jīrádānum ǁ

    eṣa stoma indra tubhyam asme etena gātuṃ harivo vido naḥ |
    ā no vavṛtyāḥ suvitāya deva vidyāmeṣaṃ vṛjanaṃ jīradānum ||

    ए॒षः । स्तोमः॑ । इ॒न्द्र॒ । तुभ्य॑म् । अ॒स्मे इति॑ । ए॒तेन॑ । गा॒तुम् । ह॒रि॒ऽवः॒ । वि॒दः॒ । नः॒ ।
    आ । नः॒ । व॒वृ॒त्याः॒ । सु॒वि॒ताय॑ । दे॒व॒ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

    एषः । स्तोमः । इन्द्र । तुभ्यम् । अस्मे इति । एतेन । गातुम् । हरिऽवः । विदः । नः ।
    आ । नः । ववृत्याः । सुविताय । देव । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥

    eṣáḥ ǀ stómaḥ ǀ indra ǀ túbhyam ǀ asmé íti ǀ eténa ǀ gātúm ǀ hari-vaḥ ǀ vidaḥ ǀ naḥ ǀ
    ā́ ǀ naḥ ǀ vavṛtyāḥ ǀ suvitā́ya ǀ deva ǀ vidyā́ma ǀ iṣám ǀ vṛjánam ǀ jīrá-dānum ǁ

    eṣaḥ ǀ stomaḥ ǀ indra ǀ tubhyam ǀ asme iti ǀ etena ǀ gātum ǀ hari-vaḥ ǀ vidaḥ ǀ naḥ ǀ
    ā ǀ naḥ ǀ vavṛtyāḥ ǀ suvitāya ǀ deva ǀ vidyāma ǀ iṣam ǀ vṛjanam ǀ jīra-dānum ǁ

    1.173.13 Aṣṭaka 2.4.15.3Anuvāka 1.23.86

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.173 · Indra

Interpretations

Ralph T. H. Griffith

Ṛk 1

THE praise-song let him sing forth bursting bird-like: sing we that hymn which like heaven's light expandeth, That the milk-giving cows may, unimpeded call to the sacred grass the Gods’ assembly.

Ṛk 2

Let the Bull sing with Bulls whose toil is worship, with a loud roar like some wild beast that hungers. Praised God! the glad priest brings his heart's devotion; the holy youth presents twofold oblation.

Ṛk 3

May the Priest come circling the measured stations, and with him bring the earth's autumnal fruitage. Let the Horse neigh led near, let the Steer bellow: let the Voice go between both worlds as herald,

Ṛk 4

To him we offer welcomest oblations, the pious bring their strength-inspiring praises. May Indra, wondrous in his might, accept them, car-borne and swift to move like the Nāsatyas.

Ṛk 5

Praise thou that Indra who is truly mighty, the car-borne Warrior, Maghavan the Hero; Stronger in war than those who fight against him, borne by strong steeds, who kills enclosing darkness;

Ṛk 6

Him who surpasses heroes in his greatness: the earth and heavens suffice not for his girdles. Indra endues the earth to be his garment, and, God-like, wears the heaven as ’twere a frontlet,

Ṛk 7

Thee, Hero, guardian of the brave in battles, who roamest in the van,—to draw thee hither, Indra, the hosts agree beside the Soma, and joy, for his great actions, in the Chieftain.

Ṛk 8

Libations in the sea to thee are pleasant, when thy divine Floods come to cheer these people. To thee the Cow is sum of all things grateful when with the wish thou seekest men and princes.

Ṛk 9

So may we in this One be well befriended, well aided as it were through praise of chieftains, That Indra still may linger at our worship, as one led swift to work, to hear our praises.

Ṛk 10

Like men in rivalry extolling princes, our Friend be Indra, wielder of the thunder. Like true friends of some city's lord within them held in good rule with sacrifice they help him.

Ṛk 11

For every sacrifice makes Indra stronger, yea, when he goes around angry in spirit; As pleasure at the ford invites the thirsty, as the long way brings him who gains his object.

Ṛk 12

Let us not here contend with Gods, O Indra, for here, O Mighty One, is thine own portion, The Great, whose Friends the bounteous Maruts honour, as with a stream, his song who pours oblations.