Ṛgveda · Maṇḍala 1 · Sūkta 173
Ṛk 1.173.1
Saṃhitā
गाय॒त्साम॑ नभ॒न्यं१॒॑ यथा॒ वेरर्चा॑म॒ तद्वा॑वृधा॒नं स्व॑र्वत् ।
गावो॑ धे॒नवो॑ ब॒र्हिष्यद॑ब्धा॒ आ यत्स॒द्मानं॑ दि॒व्यं विवा॑सान् ॥
गायत् साम नभन्यं यथा वेर् अर्चाम तद् वावृधानं स्वर्वत् |
गावो धेनवो बर्हिष्य् अदब्धा आ यत् सद्मानं दिव्यं विवासान् ||
gā́yatsā́ma nabhanyám yáthā vérárcāma tádvāvṛdhānám svárvat ǀ
gā́vo dhenávo barhíṣyádabdhā ā́ yátsadmā́nam divyám vívāsān ǁ
gāyat sāma nabhanyaṃ yathā ver arcāma tad vāvṛdhānaṃ svarvat |
gāvo dhenavo barhiṣy adabdhā ā yat sadmānaṃ divyaṃ vivāsān ||
Padapāṭha
गाय॑त् । साम॑ । न॒भ॒न्य॑म् । यथा॑ । वेः । अर्चा॑म । तत् । व॒वृ॒धा॒नम् । स्वः॑ऽवत् ।
गावः॑ । धे॒नवः॑ । ब॒र्हिषि॑ । अद॑ब्धाः । आ । यत् । स॒द्मान॑म् । दि॒व्यम् । विवा॑सान् ॥
गायत् । साम । नभन्यम् । यथा । वेः । अर्चाम । तत् । ववृधानम् । स्वःऽवत् ।
गावः । धेनवः । बर्हिषि । अदब्धाः । आ । यत् । सद्मानम् । दिव्यम् । विवासान् ॥
gā́yat ǀ sā́ma ǀ nabhanyám ǀ yáthā ǀ véḥ ǀ árcāma ǀ tát ǀ vavṛdhānám ǀ sváḥ-vat ǀ
gā́vaḥ ǀ dhenávaḥ ǀ barhíṣi ǀ ádabdhāḥ ǀ ā́ ǀ yát ǀ sadmā́nam ǀ divyám ǀ vívāsān ǁ
gāyat ǀ sāma ǀ nabhanyam ǀ yathā ǀ veḥ ǀ arcāma ǀ tat ǀ vavṛdhānam ǀ svaḥ-vat ǀ
gāvaḥ ǀ dhenavaḥ ǀ barhiṣi ǀ adabdhāḥ ǀ ā ǀ yat ǀ sadmānam ǀ divyam ǀ vivāsān ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.173.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.4.13.01
- Maṇḍala · Anuvāka · Ṛk
- 1.23.074
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.