Sūkta 181
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (2, 4, 6-9); virāṭtrisṭup (1, 3); triṣṭup (5)
2nd set of styles triṣṭubh
-
Ṛk 1
कदु॒ प्रेष्टा॑वि॒षां र॑यी॒णाम॑ध्व॒र्यंता॒ यदु॑न्निनी॒थो अ॒पां ।
अ॒यं वां॑ य॒ज्ञो अ॑कृत॒ प्रश॑स्तिं॒ वसु॑धिती॒ अवि॑तारा जनानां ॥कद् उ प्रेष्टाव् इषां रयीणाम् अध्वर्यन्ता यद् उन्निनीथो अपाम् |
अयं वां यज्ञो अकृत प्रशस्तिं वसुधिती अवितारा जनानाम् ||kádu préṣṭāviṣā́m rayīṇā́madhvaryántā yádunninīthó apā́m ǀ
ayám vām yajñó akṛta práśastim vásudhitī ávitārā janānām ǁkad u preṣṭāv iṣāṃ rayīṇām adhvaryantā yad unninītho apām |
ayaṃ vāṃ yajño akṛta praśastiṃ vasudhitī avitārā janānām ||कत् । ऊं॒ इति॑ । प्रेष्ठौ॑ । इ॒षाम् । र॒यी॒णाम् । अ॒ध्व॒र्यन्ता॑ । यत् । उ॒त्ऽनि॒नी॒थः । अ॒पाम् ।
अ॒यम् । वा॒म् । य॒ज्ञः । अ॒कृ॒त॒ । प्रऽश॑स्तिम् । वसु॑धिती॒ इति॒ वसु॑ऽधिती । अवि॑तारा । ज॒ना॒ना॒म् ॥कत् । ऊं इति । प्रेष्ठौ । इषाम् । रयीणाम् । अध्वर्यन्ता । यत् । उत्ऽनिनीथः । अपाम् ।
अयम् । वाम् । यज्ञः । अकृत । प्रऽशस्तिम् । वसुधिती इति वसुऽधिती । अवितारा । जनानाम् ॥kát ǀ ūṃ íti ǀ préṣṭhau ǀ iṣā́m ǀ rayīṇā́m ǀ adhvaryántā ǀ yát ǀ ut-ninītháḥ ǀ apā́m ǀ
ayám ǀ vām ǀ yajñáḥ ǀ akṛta ǀ prá-śastim ǀ vásudhitī íti vásu-dhitī ǀ ávitārā ǀ janānām ǁkat ǀ ūṃ iti ǀ preṣṭhau ǀ iṣām ǀ rayīṇām ǀ adhvaryantā ǀ yat ǀ ut-ninīthaḥ ǀ apām ǀ
ayam ǀ vām ǀ yajñaḥ ǀ akṛta ǀ pra-śastim ǀ vasudhitī iti vasu-dhitī ǀ avitārā ǀ janānām ǁ1.181.1 Aṣṭaka 2.4.25.1Anuvāka 1.24.11
-
Ṛk 2
आ वा॒मश्वा॑सः॒ शुच॑यः पय॒स्पा वात॑रंहसो दि॒व्यासो॒ अत्याः॑ ।
म॒नो॒जुवो॒ वृष॑णो वी॒तपृ॑ष्ठा॒ एह स्व॒राजो॑ अ॒श्विना॑ वहंतु ॥आ वाम् अश्वासः शुचयः पयस्पा वातरंहसो दिव्यासो अत्याः |
मनोजुवो वृषणो वीतपृष्ठा एह स्वराजो अश्विना वहन्तु ||ā́ vāmáśvāsaḥ śúcayaḥ payaspā́ vā́taraṃhaso divyā́so átyāḥ ǀ
manojúvo vṛ́ṣaṇo vītápṛṣṭhā éhá svarā́jo aśvínā vahantu ǁā vām aśvāsaḥ śucayaḥ payaspā vātaraṃhaso divyāso atyāḥ |
manojuvo vṛṣaṇo vītapṛṣṭhā eha svarājo aśvinā vahantu ||आ । वा॒म् । अश्वा॑सः । शुच॑यः । प॒यः॒ऽपाः । वात॑ऽरंहसः । दि॒व्यासः॑ । अत्याः॑ ।
म॒नः॒ऽजुवः॑ । वृष॑णः । वी॒तऽपृ॑ष्ठाः । आ । इ॒ह । स्व॒ऽराजः॑ । अ॒श्विना॑ । व॒ह॒न्तु॒ ॥आ । वाम् । अश्वासः । शुचयः । पयःऽपाः । वातऽरंहसः । दिव्यासः । अत्याः ।
मनःऽजुवः । वृषणः । वीतऽपृष्ठाः । आ । इह । स्वऽराजः । अश्विना । वहन्तु ॥ā́ ǀ vām ǀ áśvāsaḥ ǀ śúcayaḥ ǀ payaḥ-pā́ḥ ǀ vā́ta-raṃhasaḥ ǀ divyā́saḥ ǀ átyāḥ ǀ
manaḥ-júvaḥ ǀ vṛ́ṣaṇaḥ ǀ vītá-pṛṣṭhāḥ ǀ ā́ ǀ ihá ǀ sva-rā́jaḥ ǀ aśvínā ǀ vahantu ǁā ǀ vām ǀ aśvāsaḥ ǀ śucayaḥ ǀ payaḥ-pāḥ ǀ vāta-raṃhasaḥ ǀ divyāsaḥ ǀ atyāḥ ǀ
manaḥ-juvaḥ ǀ vṛṣaṇaḥ ǀ vīta-pṛṣṭhāḥ ǀ ā ǀ iha ǀ sva-rājaḥ ǀ aśvinā ǀ vahantu ǁ1.181.2 Aṣṭaka 2.4.25.2Anuvāka 1.24.12
-
Ṛk 3
आ वां॒ रथो॒ऽवनि॒र्न प्र॒वत्वा॑न्त्सृ॒प्रवं॑धुरः सुवि॒ताय॑ गम्याः ।
वृष्णः॑ स्थातारा॒ मन॑सो॒ जवी॑यानहंपू॒र्वो य॑ज॒तो धि॑ष्ण्या॒ यः ॥आ वां रथो ऽवनिर् न प्रवत्वान् सृप्रवन्धुरः सुविताय गम्याः |
वृष्ण स्थातारा मनसो जवीयान् अहम्पूर्वो यजतो धिष्ण्या यः ||ā́ vām rátho’vánirná pravátvāntsṛprávandhuraḥ suvitā́ya gamyāḥ ǀ
vṛ́ṣṇaḥ sthātārā mánaso jávīyānahampūrvó yajató dhiṣṇyā yáḥ ǁā vāṃ ratho 'vanir na pravatvān sṛpravandhuraḥ suvitāya gamyāḥ |
vṛṣṇa sthātārā manaso javīyān ahampūrvo yajato dhiṣṇyā yaḥ ||आ । वा॒म् । रथः॑ । अ॒वनिः॑ । न । प्र॒वत्वा॑न् । सृ॒प्रऽव॑न्धुरः । सु॒वि॒ताय॑ । ग॒म्याः॒ ।
वृष्णः॑ । स्था॒ता॒रा॒ । मन॑सः । जवी॑यान् । अ॒ह॒म्ऽपू॒र्वः । य॒ज॒तः । धि॒ष्ण्या॒ । यः ॥आ । वाम् । रथः । अवनिः । न । प्रवत्वान् । सृप्रऽवन्धुरः । सुविताय । गम्याः ।
वृष्णः । स्थातारा । मनसः । जवीयान् । अहम्ऽपूर्वः । यजतः । धिष्ण्या । यः ॥ā́ ǀ vām ǀ ráthaḥ ǀ avániḥ ǀ ná ǀ pravátvān ǀ sṛprá-vandhuraḥ ǀ suvitā́ya ǀ gamyāḥ ǀ
vṛ́ṣṇaḥ ǀ sthātārā ǀ mánasaḥ ǀ jávīyān ǀ aham-pūrváḥ ǀ yajatáḥ ǀ dhiṣṇyā ǀ yáḥ ǁā ǀ vām ǀ rathaḥ ǀ avaniḥ ǀ na ǀ pravatvān ǀ sṛpra-vandhuraḥ ǀ suvitāya ǀ gamyāḥ ǀ
vṛṣṇaḥ ǀ sthātārā ǀ manasaḥ ǀ javīyān ǀ aham-pūrvaḥ ǀ yajataḥ ǀ dhiṣṇyā ǀ yaḥ ǁ1.181.3 Aṣṭaka 2.4.25.3Anuvāka 1.24.13
-
Ṛk 4
इ॒हेह॑ जा॒ता सम॑वावशीतामरे॒पसा॑ त॒न्वा॒३॒॑ नाम॑भिः॒ स्वैः ।
जि॒ष्णुर्वा॑म॒न्यः सुम॑खस्य सू॒रिर्दि॒वो अ॒न्यः सु॒भगः॑ पु॒त्र ऊ॑हे ॥इहेह जाता सम् अवावशीताम् अरेपसा तन्वा नामभिः स्वैः |
जिष्णुर् वाम् अन्यः सुमखस्य सूरिर् दिवो अन्यः सुभगः पुत्र ऊहे ||ihéha jātā́ sámavāvaśītāmarepásā tanvā́ nā́mabhiḥ sváiḥ ǀ
jiṣṇúrvāmanyáḥ súmakhasya sūrírdivó anyáḥ subhágaḥ putrá ūhe ǁiheha jātā sam avāvaśītām arepasā tanvā nāmabhiḥ svaiḥ |
jiṣṇur vām anyaḥ sumakhasya sūrir divo anyaḥ subhagaḥ putra ūhe ||इ॒हऽइ॑ह । जा॒ता । सम् । अ॒वा॒व॒शी॒ता॒म् । अ॒रे॒पसा॑ । त॒न्वा॑ । नाम॑ऽभिः । स्वैः ।
जि॒ष्णुः । वा॒म् । अ॒न्यः । सुऽम॑खस्य । सू॒रिः । दि॒वः । अ॒न्यः । सु॒ऽभगः॑ । पु॒त्रः । ऊ॒हे॒ ॥इहऽइह । जाता । सम् । अवावशीताम् । अरेपसा । तन्वा । नामऽभिः । स्वैः ।
जिष्णुः । वाम् । अन्यः । सुऽमखस्य । सूरिः । दिवः । अन्यः । सुऽभगः । पुत्रः । ऊहे ॥ihá-iha ǀ jātā́ ǀ sám ǀ avāvaśītām ǀ arepásā ǀ tanvā́ ǀ nā́ma-bhiḥ ǀ sváiḥ ǀ
jiṣṇúḥ ǀ vām ǀ anyáḥ ǀ sú-makhasya ǀ sūríḥ ǀ diváḥ ǀ anyáḥ ǀ su-bhágaḥ ǀ putráḥ ǀ ūhe ǁiha-iha ǀ jātā ǀ sam ǀ avāvaśītām ǀ arepasā ǀ tanvā ǀ nāma-bhiḥ ǀ svaiḥ ǀ
jiṣṇuḥ ǀ vām ǀ anyaḥ ǀ su-makhasya ǀ sūriḥ ǀ divaḥ ǀ anyaḥ ǀ su-bhagaḥ ǀ putraḥ ǀ ūhe ǁ1.181.4 Aṣṭaka 2.4.25.4Anuvāka 1.24.14
-
Ṛk 5
प्र वां॑ निचे॒रुः क॑कु॒हो वशाँ॒ अनु॑ पि॒शंग॑रूपः॒ सद॑नानि गम्याः ।
हरी॑ अ॒न्यस्य॑ पी॒पयं॑त॒ वाजै॑र्म॒थ्ना रजां॑स्यश्विना॒ वि घोषैः॑ ॥प्र वां निचेरुः ककुहो वशां अनु पिशङ्गरूपः सदनानि गम्याः |
हरी अन्यस्य पीपयन्त वाजैर् मथ्रा रजांस्य् अश्विना वि घोषैः ||prá vām nicerúḥ kakuhó váśām̐ ánu piśáṅgarūpaḥ sádanāni gamyāḥ ǀ
hárī anyásya pīpáyanta vā́jairmathnā́ rájāṃsyaśvinā ví ghóṣaiḥ ǁpra vāṃ niceruḥ kakuho vaśāṃ anu piśaṅgarūpaḥ sadanāni gamyāḥ |
harī anyasya pīpayanta vājair mathrā rajāṃsy aśvinā vi ghoṣaiḥ ||प्र । वा॒म् । नि॒ऽचे॒रुः । क॒कु॒हः । वशा॑न् । अनु॑ । पि॒शङ्ग॑ऽरूपः । सद॑नानि । ग॒म्याः॒ ।
हरी॒ इति॑ । अ॒न्यस्य॑ । पी॒पय॑न्त । वाजैः॑ । म॒थ्ना । रजां॑सि । अ॒श्वि॒ना॒ । वि । घोषैः॑ ॥प्र । वाम् । निऽचेरुः । ककुहः । वशान् । अनु । पिशङ्गऽरूपः । सदनानि । गम्याः ।
हरी इति । अन्यस्य । पीपयन्त । वाजैः । मथ्ना । रजांसि । अश्विना । वि । घोषैः ॥prá ǀ vām ǀ ni-cerúḥ ǀ kakuháḥ ǀ váśān ǀ ánu ǀ piśáṅga-rūpaḥ ǀ sádanāni ǀ gamyāḥ ǀ
hárī íti ǀ anyásya ǀ pīpáyanta ǀ vā́jaiḥ ǀ mathnā́ ǀ rájāṃsi ǀ aśvinā ǀ ví ǀ ghóṣaiḥ ǁpra ǀ vām ǀ ni-ceruḥ ǀ kakuhaḥ ǀ vaśān ǀ anu ǀ piśaṅga-rūpaḥ ǀ sadanāni ǀ gamyāḥ ǀ
harī iti ǀ anyasya ǀ pīpayanta ǀ vājaiḥ ǀ mathnā ǀ rajāṃsi ǀ aśvinā ǀ vi ǀ ghoṣaiḥ ǁ1.181.5 Aṣṭaka 2.4.25.5Anuvāka 1.24.15
-
Ṛk 6
प्र वां॑ श॒रद्वा॑न्वृष॒भो न नि॒ष्षाट् पू॒र्वीरिष॑श्चरति॒ मध्व॑ इ॒ष्णन् ।
एवै॑र॒न्यस्य॑ पी॒पयं॑त॒ वाजै॒र्वेषं॑तीरू॒र्ध्वा न॒द्यो॑ न॒ आगुः॑ ॥प्र वां शरद्वान् वृषभो न निष्षाट् पूर्वीर् इषश् चरति मध्व इष्णन् |
एवैर् अन्यस्य पीपयन्त वाजैर् वेषन्तीर् ऊर्ध्वा नद्यो न आगुः ||prá vām śarádvānvṛṣabhó ná niṣṣā́ṭ pūrvī́ríṣaścarati mádhva iṣṇán ǀ
évairanyásya pīpáyanta vā́jairvéṣantīrūrdhvā́ nadyó na ā́guḥ ǁpra vāṃ śaradvān vṛṣabho na niṣṣāṭ pūrvīr iṣaś carati madhva iṣṇan |
evair anyasya pīpayanta vājair veṣantīr ūrdhvā nadyo na āguḥ ||प्र । वा॒म् । श॒रत्ऽवा॑न् । वृ॒ष॒भः । न । नि॒ष्षाट् । पू॒र्वीः । इषः॑ । च॒र॒ति॒ । मध्वः॑ । इ॒ष्णन् ।
एवैः॑ । अ॒न्यस्य॑ । पी॒पय॑न्त । वाजैः॑ । वेष॑न्तीः । ऊ॒र्ध्वाः । न॒द्यः॑ । नः॒ । आ । अ॒गुः॒ ॥प्र । वाम् । शरत्ऽवान् । वृषभः । न । निष्षाट् । पूर्वीः । इषः । चरति । मध्वः । इष्णन् ।
एवैः । अन्यस्य । पीपयन्त । वाजैः । वेषन्तीः । ऊर्ध्वाः । नद्यः । नः । आ । अगुः ॥prá ǀ vām ǀ śarát-vān ǀ vṛṣabháḥ ǀ ná ǀ niṣṣā́ṭ ǀ pūrvī́ḥ ǀ íṣaḥ ǀ carati ǀ mádhvaḥ ǀ iṣṇán ǀ
évaiḥ ǀ anyásya ǀ pīpáyanta ǀ vā́jaiḥ ǀ véṣantīḥ ǀ ūrdhvā́ḥ ǀ nadyáḥ ǀ naḥ ǀ ā́ ǀ aguḥ ǁpra ǀ vām ǀ śarat-vān ǀ vṛṣabhaḥ ǀ na ǀ niṣṣāṭ ǀ pūrvīḥ ǀ iṣaḥ ǀ carati ǀ madhvaḥ ǀ iṣṇan ǀ
evaiḥ ǀ anyasya ǀ pīpayanta ǀ vājaiḥ ǀ veṣantīḥ ǀ ūrdhvāḥ ǀ nadyaḥ ǀ naḥ ǀ ā ǀ aguḥ ǁ1.181.6 Aṣṭaka 2.4.26.1Anuvāka 1.24.16
-
Ṛk 7
अस॑र्जि वां॒ स्थवि॑रा वेधसा॒ गीर्बा॒ळ्हे अ॑श्विना त्रे॒धा क्षरं॑ती ।
उप॑स्तुताववतं॒ नाध॑मानं॒ याम॒न्नया॑मंछृणुतं॒ हवं॑ मे ॥असर्जि वां स्थविरा वेधसा गीर् बाऌहे अश्विना त्रेधा क्षरन्ती |
उपस्तुताव् अवतं नाधमानं यामन्न् अयामञ् छृणुतं हवम् मे ||ásarji vām sthávirā vedhasā gī́rbāḷhé aśvinā tredhā́ kṣárantī ǀ
úpastutāvavatam nā́dhamānam yā́mannáyāmañchṛṇutam hávam me ǁasarji vāṃ sthavirā vedhasā gīr bāḷhe aśvinā tredhā kṣarantī |
upastutāv avataṃ nādhamānaṃ yāmann ayāmañ chṛṇutaṃ havam me ||अस॑र्जि । वा॒म् । स्थवि॑रा । वे॒ध॒सा॒ । गीः । बा॒ळ्हे । अ॒श्वि॒ना॒ । त्रे॒धा । क्षर॑न्ती ।
उप॑ऽस्तुतौ । अ॒व॒त॒म् । नाध॑मानम् । याम॑न् । अया॑मन् । शृ॒णु॒त॒म् । हव॑म् । मे॒ ॥असर्जि । वाम् । स्थविरा । वेधसा । गीः । बाळ्हे । अश्विना । त्रेधा । क्षरन्ती ।
उपऽस्तुतौ । अवतम् । नाधमानम् । यामन् । अयामन् । शृणुतम् । हवम् । मे ॥ásarji ǀ vām ǀ sthávirā ǀ vedhasā ǀ gī́ḥ ǀ bāḷhé ǀ aśvinā ǀ tredhā́ ǀ kṣárantī ǀ
úpa-stutau ǀ avatam ǀ nā́dhamānam ǀ yā́man ǀ áyāman ǀ śṛṇutam ǀ hávam ǀ me ǁasarji ǀ vām ǀ sthavirā ǀ vedhasā ǀ gīḥ ǀ bāḷhe ǀ aśvinā ǀ tredhā ǀ kṣarantī ǀ
upa-stutau ǀ avatam ǀ nādhamānam ǀ yāman ǀ ayāman ǀ śṛṇutam ǀ havam ǀ me ǁ1.181.7 Aṣṭaka 2.4.26.2Anuvāka 1.24.17
-
Ṛk 8
उ॒त स्या वां॒ रुश॑तो॒ वप्स॑सो॒ गीस्त्रि॑ब॒र्हिषि॒ सद॑सि पिन्वते॒ नॄन् ।
वृषा॑ वां मे॒घो वृ॑षणा पीपाय॒ गोर्न सेके॒ मनु॑षो दश॒स्यन् ॥उत स्या वां रुशतो वप्ससो गीस् त्रिबर्हिषि सदसि पिन्वते नॄन् |
वृषा वाम् मेघो वृषणा पीपाय गोर् न सेके मनुषो दशस्यन् ||utá syā́ vām rúśato vápsaso gī́stribarhíṣi sádasi pinvate nṝ́n ǀ
vṛ́ṣā vām meghó vṛṣaṇā pīpāya górná séke mánuṣo daśasyán ǁuta syā vāṃ ruśato vapsaso gīs tribarhiṣi sadasi pinvate nṝn |
vṛṣā vām megho vṛṣaṇā pīpāya gor na seke manuṣo daśasyan ||उ॒त । स्या । वा॒म् । रुश॑तः । वप्स॑सः । गीः । त्रि॒ऽब॒र्हिषि॑ । सद॑सि । पि॒न्व॒ते॒ । नॄन् ।
वृषा॑ । वा॒म् । मे॒घः । वृ॒ष॒णा॒ । पी॒पा॒य॒ । गोः । न । सेके॑ । मनु॑षः । द॒श॒स्यन् ॥उत । स्या । वाम् । रुशतः । वप्ससः । गीः । त्रिऽबर्हिषि । सदसि । पिन्वते । नॄन् ।
वृषा । वाम् । मेघः । वृषणा । पीपाय । गोः । न । सेके । मनुषः । दशस्यन् ॥utá ǀ syā́ ǀ vām ǀ rúśataḥ ǀ vápsasaḥ ǀ gī́ḥ ǀ tri-barhíṣi ǀ sádasi ǀ pinvate ǀ nṝ́n ǀ
vṛ́ṣā ǀ vām ǀ megháḥ ǀ vṛṣaṇā ǀ pīpāya ǀ góḥ ǀ ná ǀ séke ǀ mánuṣaḥ ǀ daśasyán ǁuta ǀ syā ǀ vām ǀ ruśataḥ ǀ vapsasaḥ ǀ gīḥ ǀ tri-barhiṣi ǀ sadasi ǀ pinvate ǀ nṝn ǀ
vṛṣā ǀ vām ǀ meghaḥ ǀ vṛṣaṇā ǀ pīpāya ǀ goḥ ǀ na ǀ seke ǀ manuṣaḥ ǀ daśasyan ǁ1.181.8 Aṣṭaka 2.4.26.3Anuvāka 1.24.18
-
Ṛk 9
यु॒वां पू॒षेवा॑श्विना॒ पुरं॑धिर॒ग्निमु॒षां न ज॑रते ह॒विष्मा॑न् ।
हु॒वे यद्वां॑ वरिव॒स्या गृ॑णा॒नो वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥युवाम् पूषेवाश्विना पुरन्धिर् अग्निम् उषां न जरते हविष्मान् |
हुवे यद् वां वरिवस्या गृणानो विद्यामेषं वृजनं जीरदानुम् ||yuvā́m pūṣévāśvinā púraṃdhiragnímuṣā́m ná jarate havíṣmān ǀ
huvé yádvām varivasyā́ gṛṇānó vidyā́meṣám vṛjánam jīrádānum ǁyuvām pūṣevāśvinā purandhir agnim uṣāṃ na jarate haviṣmān |
huve yad vāṃ varivasyā gṛṇāno vidyāmeṣaṃ vṛjanaṃ jīradānum ||यु॒वाम् । पू॒षाऽइ॑व । अ॒श्वि॒ना॒ । पुर॑म्ऽधिः । अ॒ग्निम् । उ॒षाम् । न । ज॒र॒ते॒ । ह॒विष्मा॑न् ।
हु॒वे । यत् । वा॒म् । व॒रि॒व॒स्या । गृ॒णा॒नः । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥युवाम् । पूषाऽइव । अश्विना । पुरम्ऽधिः । अग्निम् । उषाम् । न । जरते । हविष्मान् ।
हुवे । यत् । वाम् । वरिवस्या । गृणानः । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥yuvā́m ǀ pūṣā́-iva ǀ aśvinā ǀ púram-dhiḥ ǀ agním ǀ uṣā́m ǀ ná ǀ jarate ǀ havíṣmān ǀ
huvé ǀ yát ǀ vām ǀ varivasyā́ ǀ gṛṇānáḥ ǀ vidyā́ma ǀ iṣám ǀ vṛjánam ǀ jīrá-dānum ǁyuvām ǀ pūṣā-iva ǀ aśvinā ǀ puram-dhiḥ ǀ agnim ǀ uṣām ǀ na ǀ jarate ǀ haviṣmān ǀ
huve ǀ yat ǀ vām ǀ varivasyā ǀ gṛṇānaḥ ǀ vidyāma ǀ iṣam ǀ vṛjanam ǀ jīra-dānum ǁ1.181.9 Aṣṭaka 2.4.26.4Anuvāka 1.24.19
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.