Sūkta 151
- Devatā देवता
- Mitra, Varuṇa
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Jagatī
Metres by ṛk
1st set of styles virāḍjagatī (2-5); jagatī (6, 7); nicṛjjagatī (8, 9); bhuriktriṣṭup (1)
2nd set of styles jagatī
-
Ṛk 1
मि॒त्रं न यं शिम्या॒ गोषु॑ ग॒व्यवः॑ स्वा॒ध्यो॑ वि॒दथे॑ अ॒प्सु जीज॑नन् ।
अरे॑जेतां॒ रोद॑सी॒ पाज॑सा गि॒रा प्रति॑ प्रि॒यं य॑ज॒तं ज॒नुषा॒मवः॑ ॥मित्रं न यं शिम्या गोषु गव्यवः स्वाध्यो विदथे अप्सु जीजनन् |
अरेजेतां रोदसी पाजसा गिरा प्रति प्रियं यजतं जनुषाम् अवः ||mitrám ná yám śímyā góṣu gavyávaḥ svādhyó vidáthe apsú jī́janan ǀ
árejetām ródasī pā́jasā girā́ práti priyám yajatám janúṣāmávaḥ ǁmitraṃ na yaṃ śimyā goṣu gavyavaḥ svādhyo vidathe apsu jījanan |
arejetāṃ rodasī pājasā girā prati priyaṃ yajataṃ januṣām avaḥ ||मि॒त्रम् । न । यम् । शिम्या॑ । गोषु॑ । ग॒व्यवः॑ । सु॒ऽआ॒ध्यः॑ । वि॒दथे॑ । अ॒प्ऽसु । जीज॑नन् ।
अरे॑जेताम् । रोद॑सी॒ इति॑ । पाज॑सा । गि॒रा । प्रति॑ । प्रि॒यम् । य॒ज॒तम् । ज॒नुषा॑म् । अवः॑ ॥मित्रम् । न । यम् । शिम्या । गोषु । गव्यवः । सुऽआध्यः । विदथे । अप्ऽसु । जीजनन् ।
अरेजेताम् । रोदसी इति । पाजसा । गिरा । प्रति । प्रियम् । यजतम् । जनुषाम् । अवः ॥mitrám ǀ ná ǀ yám ǀ śímyā ǀ góṣu ǀ gavyávaḥ ǀ su-ādhyáḥ ǀ vidáthe ǀ ap-sú ǀ jī́janan ǀ
árejetām ǀ ródasī íti ǀ pā́jasā ǀ girā́ ǀ práti ǀ priyám ǀ yajatám ǀ janúṣām ǀ ávaḥ ǁmitram ǀ na ǀ yam ǀ śimyā ǀ goṣu ǀ gavyavaḥ ǀ su-ādhyaḥ ǀ vidathe ǀ ap-su ǀ jījanan ǀ
arejetām ǀ rodasī iti ǀ pājasā ǀ girā ǀ prati ǀ priyam ǀ yajatam ǀ januṣām ǀ avaḥ ǁ1.151.1 Aṣṭaka 2.2.20.1Anuvāka 1.21.83
-
Ṛk 2
यद्ध॒ त्यद्वां॑ पुरुमी॒ळ्हस्य॑ सो॒मिनः॒ प्र मि॒त्रासो॒ न द॑धि॒रे स्वा॒भुवः॑ ।
अध॒ क्रतुं॑ विदतं गा॒तुमर्च॑त उ॒त श्रु॑तं वृषणा प॒स्त्या॑वतः ॥यद् ध त्यद् वाम् पुरुमीऌहस्य सोमिनः प्र मित्रासो न दधिरे स्वाभुवः |
अध क्रतुं विदतं गातुम् अर्चत उत श्रुतं वृषणा पस्त्यावतः ||yáddha tyádvām purumīḷhásya somínaḥ prá mitrā́so ná dadhiré svābhúvaḥ ǀ
ádha krátum vidatam gātúmárcata utá śrutam vṛṣaṇā pastyā́vataḥ ǁyad dha tyad vām purumīḷhasya sominaḥ pra mitrāso na dadhire svābhuvaḥ |
adha kratuṃ vidataṃ gātum arcata uta śrutaṃ vṛṣaṇā pastyāvataḥ ||यत् । ह॒ । त्यत् । वा॒म् । पु॒रु॒ऽमी॒ळ्हस्य॑ । सो॒मिनः॑ । प्र । मि॒त्रासः॑ । न । द॒धि॒रे । सु॒ऽआ॒भुवः॑ ।
अध॑ । क्रतु॑म् । वि॒द॒त॒म् । गा॒तुम् । अर्च॑ते । उ॒त । श्रु॒त॒म् । वृ॒ष॒णा॒ । प॒स्त्य॑ऽवतः ॥यत् । ह । त्यत् । वाम् । पुरुऽमीळ्हस्य । सोमिनः । प्र । मित्रासः । न । दधिरे । सुऽआभुवः ।
अध । क्रतुम् । विदतम् । गातुम् । अर्चते । उत । श्रुतम् । वृषणा । पस्त्यऽवतः ॥yát ǀ ha ǀ tyát ǀ vām ǀ puru-mīḷhásya ǀ somínaḥ ǀ prá ǀ mitrā́saḥ ǀ ná ǀ dadhiré ǀ su-ābhúvaḥ ǀ
ádha ǀ krátum ǀ vidatam ǀ gātúm ǀ árcate ǀ utá ǀ śrutam ǀ vṛṣaṇā ǀ pastyá-vataḥ ǁyat ǀ ha ǀ tyat ǀ vām ǀ puru-mīḷhasya ǀ sominaḥ ǀ pra ǀ mitrāsaḥ ǀ na ǀ dadhire ǀ su-ābhuvaḥ ǀ
adha ǀ kratum ǀ vidatam ǀ gātum ǀ arcate ǀ uta ǀ śrutam ǀ vṛṣaṇā ǀ pastya-vataḥ ǁ1.151.2 Aṣṭaka 2.2.20.2Anuvāka 1.21.84
-
Ṛk 3
आ वां॑ भूषन्क्षि॒तयो॒ जन्म॒ रोद॑स्योः प्र॒वाच्यं॑ वृषणा॒ दक्ष॑से म॒हे ।
यदी॑मृ॒ताय॒ भर॑थो॒ यदर्व॑ते॒ प्र होत्र॑या॒ शिम्या॑ वीथो अध्व॒रं ॥आ वाम् भूषन् क्षितयो जन्म रोदस्योः प्रवाच्यं वृषणा दक्षसे महे |
यद् ईम् ऋताय भरथो यद् अर्वते प्र होत्रया शिम्या वीथो अध्वरम् ||ā́ vām bhūṣankṣitáyo jánma ródasyoḥ pravā́cyam vṛṣaṇā dákṣase mahé ǀ
yádīmṛtā́ya bháratho yádárvate prá hótrayā śímyā vītho adhvarám ǁā vām bhūṣan kṣitayo janma rodasyoḥ pravācyaṃ vṛṣaṇā dakṣase mahe |
yad īm ṛtāya bharatho yad arvate pra hotrayā śimyā vītho adhvaram ||आ । वा॒म् । भू॒ष॒न् । क्षि॒तयः॑ । जन्म॑ । रोद॑स्योः । प्र॒ऽवाच्य॑म् । वृ॒ष॒णा॒ । दक्ष॑से । म॒हे ।
यत् । ई॒म् । ऋ॒ताय॑ । भर॑थः । यत् । अर्व॑ते । प्र । होत्र॑या । शिम्या॑ । वी॒थः॒ । अ॒ध्व॒रम् ॥आ । वाम् । भूषन् । क्षितयः । जन्म । रोदस्योः । प्रऽवाच्यम् । वृषणा । दक्षसे । महे ।
यत् । ईम् । ऋताय । भरथः । यत् । अर्वते । प्र । होत्रया । शिम्या । वीथः । अध्वरम् ॥ā́ ǀ vām ǀ bhūṣan ǀ kṣitáyaḥ ǀ jánma ǀ ródasyoḥ ǀ pra-vā́cyam ǀ vṛṣaṇā ǀ dákṣase ǀ mahé ǀ
yát ǀ īm ǀ ṛtā́ya ǀ bhárathaḥ ǀ yát ǀ árvate ǀ prá ǀ hótrayā ǀ śímyā ǀ vīthaḥ ǀ adhvarám ǁā ǀ vām ǀ bhūṣan ǀ kṣitayaḥ ǀ janma ǀ rodasyoḥ ǀ pra-vācyam ǀ vṛṣaṇā ǀ dakṣase ǀ mahe ǀ
yat ǀ īm ǀ ṛtāya ǀ bharathaḥ ǀ yat ǀ arvate ǀ pra ǀ hotrayā ǀ śimyā ǀ vīthaḥ ǀ adhvaram ǁ1.151.3 Aṣṭaka 2.2.20.3Anuvāka 1.21.85
-
Ṛk 4
प्र सा क्षि॒तिर॑सुर॒ या महि॑ प्रि॒य ऋता॑वानावृ॒तमा घो॑षथो बृ॒हत् ।
यु॒वं दि॒वो बृ॑ह॒तो दक्ष॑मा॒भुवं॒ गां न धु॒र्युप॑ युंजाथे अ॒पः ॥प्र सा क्षितिर् असुर या महि प्रिय ऋतावानाव् ऋतम् आ घोषथो बृहत् |
युवं दिवो बृहतो दक्षम् आभुवं गां न धुर्य् उप युञ्जाथे अपः ||prá sā́ kṣitírasura yā́ máhi priyá ṛ́tāvānāvṛtámā́ ghoṣatho bṛhát ǀ
yuvám divó bṛható dákṣamābhúvam gā́m ná dhuryúpa yuñjāthe apáḥ ǁpra sā kṣitir asura yā mahi priya ṛtāvānāv ṛtam ā ghoṣatho bṛhat |
yuvaṃ divo bṛhato dakṣam ābhuvaṃ gāṃ na dhury upa yuñjāthe apaḥ ||प्र । सा । क्षि॒तिः । अ॒सु॒रा॒ । या । महि॑ । प्रि॒या । ऋत॑ऽवानौ । ऋ॒तम् । आ । घो॒ष॒थः॒ । बृ॒हत् ।
यु॒वम् । दि॒वः । बृ॒ह॒तः । दक्ष॑म् । आ॒ऽभुव॑म् । गाम् । न । धु॒रि । उप॑ । यु॒ञ्जा॒थे॒ इति॑ । अ॒पः ॥प्र । सा । क्षितिः । असुरा । या । महि । प्रिया । ऋतऽवानौ । ऋतम् । आ । घोषथः । बृहत् ।
युवम् । दिवः । बृहतः । दक्षम् । आऽभुवम् । गाम् । न । धुरि । उप । युञ्जाथे इति । अपः ॥prá ǀ sā́ ǀ kṣitíḥ ǀ asurā ǀ yā́ ǀ máhi ǀ priyā́ ǀ ṛ́ta-vānau ǀ ṛtám ǀ ā́ ǀ ghoṣathaḥ ǀ bṛhát ǀ
yuvám ǀ diváḥ ǀ bṛhatáḥ ǀ dákṣam ǀ ā-bhúvam ǀ gā́m ǀ ná ǀ dhurí ǀ úpa ǀ yuñjāthe íti ǀ apáḥ ǁpra ǀ sā ǀ kṣitiḥ ǀ asurā ǀ yā ǀ mahi ǀ priyā ǀ ṛta-vānau ǀ ṛtam ǀ ā ǀ ghoṣathaḥ ǀ bṛhat ǀ
yuvam ǀ divaḥ ǀ bṛhataḥ ǀ dakṣam ǀ ā-bhuvam ǀ gām ǀ na ǀ dhuri ǀ upa ǀ yuñjāthe iti ǀ apaḥ ǁ1.151.4 Aṣṭaka 2.2.20.4Anuvāka 1.21.86
-
Ṛk 5
म॒ही अत्र॑ महि॒ना वार॑मृण्वथोऽरे॒णव॒स्तुज॒ आ सद्मं॑धे॒नवः॑ ।
स्वरं॑ति॒ ता उ॑प॒रता॑ति॒ सूर्य॒मा नि॒म्रुच॑ उ॒षस॑स्तक्व॒वीरि॑व ॥मही अत्र महिना वारम् ऋण्वथो ऽरेणवस् तुज आ सद्मन् धेनवः |
स्वरन्ति ता उपरताति सूर्यम् आ निम्रुच उषसस् तक्ववीर् इव ||mahī́ átra mahinā́ vā́ramṛṇvatho’reṇávastúja ā́ sádmandhenávaḥ ǀ
sváranti tā́ uparátāti sū́ryamā́ nimrúca uṣásastakvavī́riva ǁmahī atra mahinā vāram ṛṇvatho 'reṇavas tuja ā sadman dhenavaḥ |
svaranti tā uparatāti sūryam ā nimruca uṣasas takvavīr iva ||म॒ही इति॑ । अत्र॑ । म॒हि॒ना । वार॑म् । ऋ॒ण्व॒थः॒ । अ॒रे॒णवः॑ । तुजः॑ । आ । सद्म॑न् । धे॒नवः॑ ।
स्वर॑न्ति । ताः । उ॒प॒रऽता॑ति । सूर्य॑म् । आ । नि॒ऽम्रुचः॑ । उ॒षसः॑ । त॒क्व॒वीःऽइ॑व ॥मही इति । अत्र । महिना । वारम् । ऋण्वथः । अरेणवः । तुजः । आ । सद्मन् । धेनवः ।
स्वरन्ति । ताः । उपरऽताति । सूर्यम् । आ । निऽम्रुचः । उषसः । तक्ववीःऽइव ॥mahī́ íti ǀ átra ǀ mahinā́ ǀ vā́ram ǀ ṛṇvathaḥ ǀ areṇávaḥ ǀ tújaḥ ǀ ā́ ǀ sádman ǀ dhenávaḥ ǀ
sváranti ǀ tā́ḥ ǀ upará-tāti ǀ sū́ryam ǀ ā́ ǀ ni-mrúcaḥ ǀ uṣásaḥ ǀ takvavī́ḥ-iva ǁmahī iti ǀ atra ǀ mahinā ǀ vāram ǀ ṛṇvathaḥ ǀ areṇavaḥ ǀ tujaḥ ǀ ā ǀ sadman ǀ dhenavaḥ ǀ
svaranti ǀ tāḥ ǀ upara-tāti ǀ sūryam ǀ ā ǀ ni-mrucaḥ ǀ uṣasaḥ ǀ takvavīḥ-iva ǁ1.151.5 Aṣṭaka 2.2.20.5Anuvāka 1.21.87
-
Ṛk 6
आ वा॑मृ॒ताय॑ के॒शिनी॑रनूषत॒ मित्र॒ यत्र॒ वरु॑ण गा॒तुमर्च॑थः ।
अव॒ त्मना॑ सृ॒जतं॒ पिन्व॑तं॒ धियो॑ यु॒वं विप्र॑स्य॒ मन्म॑नामिरज्यथः ॥आ वाम् ऋताय केशिनीर् अनूषत मित्र यत्र वरुण गातुम् अर्चथः |
अव त्मना सृजतम् पिन्वतं धियो युवं विप्रस्य मन्मनाम् इरज्यथः ||ā́ vāmṛtā́ya keśínīranūṣata mítra yátra váruṇa gātúmárcathaḥ ǀ
áva tmánā sṛjátam pínvatam dhíyo yuvám víprasya mánmanāmirajyathaḥ ǁā vām ṛtāya keśinīr anūṣata mitra yatra varuṇa gātum arcathaḥ |
ava tmanā sṛjatam pinvataṃ dhiyo yuvaṃ viprasya manmanām irajyathaḥ ||आ । वा॒म् । ऋ॒ताय॑ । के॒शिनीः॑ । अ॒नू॒ष॒त॒ । मित्र॑ । यत्र॑ । वरु॑ण । गा॒तुम् । अर्च॑थः ।
अव॑ । त्मना॑ । सृ॒जत॑म् । पिन्व॑तम् । धियः॑ । यु॒वम् । विप्र॑स्य । मन्म॑नाम् । इ॒र॒ज्य॒थः॒ ॥आ । वाम् । ऋताय । केशिनीः । अनूषत । मित्र । यत्र । वरुण । गातुम् । अर्चथः ।
अव । त्मना । सृजतम् । पिन्वतम् । धियः । युवम् । विप्रस्य । मन्मनाम् । इरज्यथः ॥ā́ ǀ vām ǀ ṛtā́ya ǀ keśínīḥ ǀ anūṣata ǀ mítra ǀ yátra ǀ váruṇa ǀ gātúm ǀ árcathaḥ ǀ
áva ǀ tmánā ǀ sṛjátam ǀ pínvatam ǀ dhíyaḥ ǀ yuvám ǀ víprasya ǀ mánmanām ǀ irajyathaḥ ǁā ǀ vām ǀ ṛtāya ǀ keśinīḥ ǀ anūṣata ǀ mitra ǀ yatra ǀ varuṇa ǀ gātum ǀ arcathaḥ ǀ
ava ǀ tmanā ǀ sṛjatam ǀ pinvatam ǀ dhiyaḥ ǀ yuvam ǀ viprasya ǀ manmanām ǀ irajyathaḥ ǁ1.151.6 Aṣṭaka 2.2.21.1Anuvāka 1.21.88
-
Ṛk 7
यो वां॑ य॒ज्ञैः श॑शमा॒नो ह॒ दाश॑ति क॒विर्होता॒ यज॑ति मन्म॒साध॑नः ।
उपाह॒ तं गच्छ॑थो वी॒थो अ॑ध्व॒रमच्छा॒ गिरः॑ सुम॒तिं गं॑तमस्म॒यू ॥यो वां यज्ञैः शशमानो ह दाशति कविर् होता यजति मन्मसाधनः |
उपाह तं गच्छथो वीथो अध्वरम् अच्छा गिरः सुमतिं गन्तम् अस्मयू ||yó vām yajñáiḥ śaśamānó ha dā́śati kavírhótā yájati manmasā́dhanaḥ ǀ
úpā́ha tám gácchatho vīthó adhvarámácchā gíraḥ sumatím gantamasmayū́ ǁyo vāṃ yajñaiḥ śaśamāno ha dāśati kavir hotā yajati manmasādhanaḥ |
upāha taṃ gacchatho vītho adhvaram acchā giraḥ sumatiṃ gantam asmayū ||यः । वा॒म् । य॒ज्ञैः । श॒श॒मा॒नः । ह॒ । दाश॑ति । क॒विः । होता॑ । यज॑ति । म॒न्म॒ऽसाध॑नः ।
उप॑ । अह॑ । तम् । गच्छ॑थः । वी॒थः । अ॒ध्व॒रम् । अच्छ॑ । गिरः॑ । सु॒ऽम॒तिम् । ग॒न्त॒म् । अ॒स्म॒यू इत्य॑स्म॒ऽयू ॥यः । वाम् । यज्ञैः । शशमानः । ह । दाशति । कविः । होता । यजति । मन्मऽसाधनः ।
उप । अह । तम् । गच्छथः । वीथः । अध्वरम् । अच्छ । गिरः । सुऽमतिम् । गन्तम् । अस्मयू इत्यस्मऽयू ॥yáḥ ǀ vām ǀ yajñáiḥ ǀ śaśamānáḥ ǀ ha ǀ dā́śati ǀ kavíḥ ǀ hótā ǀ yájati ǀ manma-sā́dhanaḥ ǀ
úpa ǀ áha ǀ tám ǀ gácchathaḥ ǀ vītháḥ ǀ adhvarám ǀ áccha ǀ gíraḥ ǀ su-matím ǀ gantam ǀ asmayū́ ítyasma-yū́ ǁyaḥ ǀ vām ǀ yajñaiḥ ǀ śaśamānaḥ ǀ ha ǀ dāśati ǀ kaviḥ ǀ hotā ǀ yajati ǀ manma-sādhanaḥ ǀ
upa ǀ aha ǀ tam ǀ gacchathaḥ ǀ vīthaḥ ǀ adhvaram ǀ accha ǀ giraḥ ǀ su-matim ǀ gantam ǀ asmayū ityasma-yū ǁ1.151.7 Aṣṭaka 2.2.21.2Anuvāka 1.21.89
-
Ṛk 8
यु॒वां य॒ज्ञैः प्र॑थ॒मा गोभि॑रंजत॒ ऋता॑वाना॒ मन॑सो॒ न प्रयु॑क्तिषु ।
भरं॑ति वां॒ मन्म॑ना सं॒यता॒ गिरोऽदृ॑प्यता॒ मन॑सा रे॒वदा॑शाथे ॥युवां यज्ञैः प्रथमा गोभिर् अञ्जत ऋतावाना मनसो न प्रयुक्तिषु |
भरन्ति वाम् मन्मना संयता गिरो ऽदृप्यता मनसा रेवद् आशाथे ||yuvā́m yajñáiḥ prathamā́ góbhirañjata ṛ́tāvānā mánaso ná práyuktiṣu ǀ
bháranti vām mánmanā saṃyátā gíró’dṛpyatā mánasā revádāśāthe ǁyuvāṃ yajñaiḥ prathamā gobhir añjata ṛtāvānā manaso na prayuktiṣu |
bharanti vām manmanā saṃyatā giro 'dṛpyatā manasā revad āśāthe ||यु॒वाम् । य॒ज्ञैः । प्र॒थ॒मा । गोभिः॑ । अ॒ञ्ज॒ते॒ । ऋत॑ऽवाना । मन॑सः । न । प्रऽयु॑क्तिषु ।
भर॑न्ति । वा॒म् । मन्म॑ना । स॒म्ऽयता॑ । गिरः॑ । अदृ॑प्यता । मन॑सा । रे॒वत् । आ॒शा॒थे॒ इति॑ ॥युवाम् । यज्ञैः । प्रथमा । गोभिः । अञ्जते । ऋतऽवाना । मनसः । न । प्रऽयुक्तिषु ।
भरन्ति । वाम् । मन्मना । सम्ऽयता । गिरः । अदृप्यता । मनसा । रेवत् । आशाथे इति ॥yuvā́m ǀ yajñáiḥ ǀ prathamā́ ǀ góbhiḥ ǀ añjate ǀ ṛ́ta-vānā ǀ mánasaḥ ǀ ná ǀ prá-yuktiṣu ǀ
bháranti ǀ vām ǀ mánmanā ǀ sam-yátā ǀ gíraḥ ǀ ádṛpyatā ǀ mánasā ǀ revát ǀ āśāthe íti ǁyuvām ǀ yajñaiḥ ǀ prathamā ǀ gobhiḥ ǀ añjate ǀ ṛta-vānā ǀ manasaḥ ǀ na ǀ pra-yuktiṣu ǀ
bharanti ǀ vām ǀ manmanā ǀ sam-yatā ǀ giraḥ ǀ adṛpyatā ǀ manasā ǀ revat ǀ āśāthe iti ǁ1.151.8 Aṣṭaka 2.2.21.3Anuvāka 1.21.90
-
Ṛk 9
रे॒वद्वयो॑ दधाथे रे॒वदा॑शाथे॒ नरा॑ मा॒याभि॑रि॒तऊ॑ति॒ माहि॑नं ।
न वां॒ द्यावोऽह॑भि॒र्नोत सिंध॑वो॒ न दे॑व॒त्वं प॒णयो॒ नान॑शुर्म॒घं ॥रेवद् वयो दधाथे रेवद् आशाथे नरा मायाभिर् इतऊति माहिनम् |
न वां द्यावो ऽहभिर् नोत सिन्धवो न देवत्वम् पणयो नानशुर् मघम् ||revádváyo dadhāthe revádāśāthe nárā māyā́bhiritáūti mā́hinam ǀ
ná vām dyā́vó’habhirnótá síndhavo ná devatvám paṇáyo nā́naśurmaghám ǁrevad vayo dadhāthe revad āśāthe narā māyābhir itaūti māhinam |
na vāṃ dyāvo 'habhir nota sindhavo na devatvam paṇayo nānaśur magham ||रे॒वत् । वयः॑ । द॒धा॒थे॒ इति॑ । रे॒वत् । आ॒शा॒थे॒ इति॑ । नरा॑ । मा॒याभिः॑ । इ॒तऽऊ॑ति । माहि॑नम् ।
न । वा॒म् । द्यावः॑ । अह॑ऽभिः । न । उ॒त । सिन्ध॑वः । न । दे॒व॒ऽत्वम् । प॒णयः॑ । न । आ॒न॒शुः॒ । म॒घम् ॥रेवत् । वयः । दधाथे इति । रेवत् । आशाथे इति । नरा । मायाभिः । इतऽऊति । माहिनम् ।
न । वाम् । द्यावः । अहऽभिः । न । उत । सिन्धवः । न । देवऽत्वम् । पणयः । न । आनशुः । मघम् ॥revát ǀ váyaḥ ǀ dadhāthe íti ǀ revát ǀ āśāthe íti ǀ nárā ǀ māyā́bhiḥ ǀ itá-ūti ǀ mā́hinam ǀ
ná ǀ vām ǀ dyā́vaḥ ǀ áha-bhiḥ ǀ ná ǀ utá ǀ síndhavaḥ ǀ ná ǀ deva-tvám ǀ paṇáyaḥ ǀ ná ǀ ānaśuḥ ǀ maghám ǁrevat ǀ vayaḥ ǀ dadhāthe iti ǀ revat ǀ āśāthe iti ǀ narā ǀ māyābhiḥ ǀ ita-ūti ǀ māhinam ǀ
na ǀ vām ǀ dyāvaḥ ǀ aha-bhiḥ ǀ na ǀ uta ǀ sindhavaḥ ǀ na ǀ deva-tvam ǀ paṇayaḥ ǀ na ǀ ānaśuḥ ǀ magham ǁ1.151.9 Aṣṭaka 2.2.21.4Anuvāka 1.21.91
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.