Ṛgveda · Maṇḍala 1 · Sūkta 151
Ṛk 1.151.9
Saṃhitā
रे॒वद्वयो॑ दधाथे रे॒वदा॑शाथे॒ नरा॑ मा॒याभि॑रि॒तऊ॑ति॒ माहि॑नं ।
न वां॒ द्यावोऽह॑भि॒र्नोत सिंध॑वो॒ न दे॑व॒त्वं प॒णयो॒ नान॑शुर्म॒घं ॥
रेवद् वयो दधाथे रेवद् आशाथे नरा मायाभिर् इतऊति माहिनम् |
न वां द्यावो ऽहभिर् नोत सिन्धवो न देवत्वम् पणयो नानशुर् मघम् ||
revádváyo dadhāthe revádāśāthe nárā māyā́bhiritáūti mā́hinam ǀ
ná vām dyā́vó’habhirnótá síndhavo ná devatvám paṇáyo nā́naśurmaghám ǁ
revad vayo dadhāthe revad āśāthe narā māyābhir itaūti māhinam |
na vāṃ dyāvo 'habhir nota sindhavo na devatvam paṇayo nānaśur magham ||
Padapāṭha
रे॒वत् । वयः॑ । द॒धा॒थे॒ इति॑ । रे॒वत् । आ॒शा॒थे॒ इति॑ । नरा॑ । मा॒याभिः॑ । इ॒तऽऊ॑ति । माहि॑नम् ।
न । वा॒म् । द्यावः॑ । अह॑ऽभिः । न । उ॒त । सिन्ध॑वः । न । दे॒व॒ऽत्वम् । प॒णयः॑ । न । आ॒न॒शुः॒ । म॒घम् ॥
रेवत् । वयः । दधाथे इति । रेवत् । आशाथे इति । नरा । मायाभिः । इतऽऊति । माहिनम् ।
न । वाम् । द्यावः । अहऽभिः । न । उत । सिन्धवः । न । देवऽत्वम् । पणयः । न । आनशुः । मघम् ॥
revát ǀ váyaḥ ǀ dadhāthe íti ǀ revát ǀ āśāthe íti ǀ nárā ǀ māyā́bhiḥ ǀ itá-ūti ǀ mā́hinam ǀ
ná ǀ vām ǀ dyā́vaḥ ǀ áha-bhiḥ ǀ ná ǀ utá ǀ síndhavaḥ ǀ ná ǀ deva-tvám ǀ paṇáyaḥ ǀ ná ǀ ānaśuḥ ǀ maghám ǁ
revat ǀ vayaḥ ǀ dadhāthe iti ǀ revat ǀ āśāthe iti ǀ narā ǀ māyābhiḥ ǀ ita-ūti ǀ māhinam ǀ
na ǀ vām ǀ dyāvaḥ ǀ aha-bhiḥ ǀ na ǀ uta ǀ sindhavaḥ ǀ na ǀ deva-tvam ǀ paṇayaḥ ǀ na ǀ ānaśuḥ ǀ magham ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.151.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.2.21.04
- Maṇḍala · Anuvāka · Ṛk
- 1.21.091
- Devatā देवता
- Mitra, Varuṇa
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.