Ṛgveda · Maṇḍala 1 · Sūkta 151
Ṛk 1.151.4
Saṃhitā
प्र सा क्षि॒तिर॑सुर॒ या महि॑ प्रि॒य ऋता॑वानावृ॒तमा घो॑षथो बृ॒हत् ।
यु॒वं दि॒वो बृ॑ह॒तो दक्ष॑मा॒भुवं॒ गां न धु॒र्युप॑ युंजाथे अ॒पः ॥
प्र सा क्षितिर् असुर या महि प्रिय ऋतावानाव् ऋतम् आ घोषथो बृहत् |
युवं दिवो बृहतो दक्षम् आभुवं गां न धुर्य् उप युञ्जाथे अपः ||
prá sā́ kṣitírasura yā́ máhi priyá ṛ́tāvānāvṛtámā́ ghoṣatho bṛhát ǀ
yuvám divó bṛható dákṣamābhúvam gā́m ná dhuryúpa yuñjāthe apáḥ ǁ
pra sā kṣitir asura yā mahi priya ṛtāvānāv ṛtam ā ghoṣatho bṛhat |
yuvaṃ divo bṛhato dakṣam ābhuvaṃ gāṃ na dhury upa yuñjāthe apaḥ ||
Padapāṭha
प्र । सा । क्षि॒तिः । अ॒सु॒रा॒ । या । महि॑ । प्रि॒या । ऋत॑ऽवानौ । ऋ॒तम् । आ । घो॒ष॒थः॒ । बृ॒हत् ।
यु॒वम् । दि॒वः । बृ॒ह॒तः । दक्ष॑म् । आ॒ऽभुव॑म् । गाम् । न । धु॒रि । उप॑ । यु॒ञ्जा॒थे॒ इति॑ । अ॒पः ॥
प्र । सा । क्षितिः । असुरा । या । महि । प्रिया । ऋतऽवानौ । ऋतम् । आ । घोषथः । बृहत् ।
युवम् । दिवः । बृहतः । दक्षम् । आऽभुवम् । गाम् । न । धुरि । उप । युञ्जाथे इति । अपः ॥
prá ǀ sā́ ǀ kṣitíḥ ǀ asurā ǀ yā́ ǀ máhi ǀ priyā́ ǀ ṛ́ta-vānau ǀ ṛtám ǀ ā́ ǀ ghoṣathaḥ ǀ bṛhát ǀ
yuvám ǀ diváḥ ǀ bṛhatáḥ ǀ dákṣam ǀ ā-bhúvam ǀ gā́m ǀ ná ǀ dhurí ǀ úpa ǀ yuñjāthe íti ǀ apáḥ ǁ
pra ǀ sā ǀ kṣitiḥ ǀ asurā ǀ yā ǀ mahi ǀ priyā ǀ ṛta-vānau ǀ ṛtam ǀ ā ǀ ghoṣathaḥ ǀ bṛhat ǀ
yuvam ǀ divaḥ ǀ bṛhataḥ ǀ dakṣam ǀ ā-bhuvam ǀ gām ǀ na ǀ dhuri ǀ upa ǀ yuñjāthe iti ǀ apaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.151.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.2.20.04
- Maṇḍala · Anuvāka · Ṛk
- 1.21.086
- Devatā देवता
- Mitra, Varuṇa
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.