Sūkta 189
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 4, 8); svarāṭpaṅkti (3, 5, 6); bhurikpaṅkti (2); paṅktiḥ (7)
2nd set of styles triṣṭubh
-
Ṛk 1
अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।
यु॒यो॒ध्य१॒॑स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑उक्तिं विधेम ॥अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् |
युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नमौक्तिं विधेम ||ágne náya supáthā rāyé asmā́nvíśvāni deva vayúnāni vidvā́n ǀ
yuyodhyásmájjuhurāṇáméno bhū́yiṣṭhām te náma+uktim vidhema ǁagne naya supathā rāye asmān viśvāni deva vayunāni vidvān |
yuyodhy asmaj juhurāṇam eno bhūyiṣṭhāṃ te namauktiṃ vidhema ||अग्ने॑ । नय॑ । सु॒ऽपथा॑ । रा॒ये । अ॒स्मान् । विश्वा॑नि । दे॒व॒ । व॒युना॑नि । वि॒द्वान् ।
यु॒यो॒धि । अ॒स्मत् । जु॒हु॒रा॒णम् । एनः॑ । भूयि॑ष्ठाम् । ते॒ । नमः॑ऽउक्तिम् । वि॒धे॒म॒ ॥अग्ने । नय । सुऽपथा । राये । अस्मान् । विश्वानि । देव । वयुनानि । विद्वान् ।
युयोधि । अस्मत् । जुहुराणम् । एनः । भूयिष्ठाम् । ते । नमःऽउक्तिम् । विधेम ॥ágne ǀ náya ǀ su-páthā ǀ rāyé ǀ asmā́n ǀ víśvāni ǀ deva ǀ vayúnāni ǀ vidvā́n ǀ
yuyodhí ǀ asmát ǀ juhurāṇám ǀ énaḥ ǀ bhū́yiṣṭhām ǀ te ǀ námaḥ-uktim ǀ vidhema ǁagne ǀ naya ǀ su-pathā ǀ rāye ǀ asmān ǀ viśvāni ǀ deva ǀ vayunāni ǀ vidvān ǀ
yuyodhi ǀ asmat ǀ juhurāṇam ǀ enaḥ ǀ bhūyiṣṭhām ǀ te ǀ namaḥ-uktim ǀ vidhema ǁ1.189.1 Aṣṭaka 2.5.10.1Anuvāka 1.24.84
-
Ṛk 2
अग्ने॒ त्वं पा॑रया॒ नव्यो॑ अ॒स्मान्त्स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॑ ।
पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शं योः ॥अग्ने त्वम् पारया नव्यो अस्मान् स्वस्तिभिर् अति दुर्गाणि विश्वा |
पूश् च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शं योः ||ágne tvám pārayā návyo asmā́ntsvastíbhiráti durgā́ṇi víśvā ǀ
pū́śca pṛthvī́ bahulā́ na urvī́ bhávā tokā́ya tánayāya śám yóḥ ǁagne tvam pārayā navyo asmān svastibhir ati durgāṇi viśvā |
pūś ca pṛthvī bahulā na urvī bhavā tokāya tanayāya śaṃ yoḥ ||अग्ने॑ । त्वम् । पा॒र॒य॒ । नव्यः॑ । अ॒स्मान् । स्व॒स्तिऽभिः॑ । अति॑ । दुः॒ऽगानि॑ । विश्वा॑ ।
पूः । च॒ । पृ॒थ्वी । ब॒हु॒ला । नः॒ । उ॒र्वी । भव॑ । तो॒काय॑ । तन॑याय । शम् । योः ॥अग्ने । त्वम् । पारय । नव्यः । अस्मान् । स्वस्तिऽभिः । अति । दुःऽगानि । विश्वा ।
पूः । च । पृथ्वी । बहुला । नः । उर्वी । भव । तोकाय । तनयाय । शम् । योः ॥ágne ǀ tvám ǀ pāraya ǀ návyaḥ ǀ asmā́n ǀ svastí-bhiḥ ǀ áti ǀ duḥ-gā́ni ǀ víśvā ǀ
pū́ḥ ǀ ca ǀ pṛthvī́ ǀ bahulā́ ǀ naḥ ǀ urvī́ ǀ bháva ǀ tokā́ya ǀ tánayāya ǀ śám ǀ yóḥ ǁagne ǀ tvam ǀ pāraya ǀ navyaḥ ǀ asmān ǀ svasti-bhiḥ ǀ ati ǀ duḥ-gāni ǀ viśvā ǀ
pūḥ ǀ ca ǀ pṛthvī ǀ bahulā ǀ naḥ ǀ urvī ǀ bhava ǀ tokāya ǀ tanayāya ǀ śam ǀ yoḥ ǁ1.189.2 Aṣṭaka 2.5.10.2Anuvāka 1.24.85
-
Ṛk 3
अग्ने॒ त्वम॒स्मद्यु॑यो॒ध्यमी॑वा॒ अन॑ग्नित्रा अ॒भ्यमं॑त कृ॒ष्टीः ।
पुन॑र॒स्मभ्यं॑ सुवि॒ताय॑ देव॒ क्षां विश्वे॑भिर॒मृते॑भिर्यजत्र ॥अग्ने त्वम् अस्मद् युयोध्य् अमीवा अनग्नित्रा अभ्य् अमन्त कृष्टीः |
पुनर् अस्मभ्यं सुविताय देव क्षां विश्वेभिर् अमृतेभिर् यजत्र ||ágne tvámasmádyuyodhyámīvā ánagnitrā abhyámanta kṛṣṭī́ḥ ǀ
púnarasmábhyam suvitā́ya deva kṣā́m víśvebhiramṛ́tebhiryajatra ǁagne tvam asmad yuyodhy amīvā anagnitrā abhy amanta kṛṣṭīḥ |
punar asmabhyaṃ suvitāya deva kṣāṃ viśvebhir amṛtebhir yajatra ||अग्ने॑ । त्वम् । अ॒स्मत् । यु॒यो॒धि॒ । अमी॑वाः । अन॑ग्निऽत्राः । अ॒भि । अम॑न्त । कृ॒ष्टीः ।
पुनः॑ । अ॒स्मभ्य॑म् । सु॒वि॒ताय॑ । दे॒व॒ । क्षाम् । विश्वे॑भिः । अ॒मृते॑भिः । य॒ज॒त्र॒ ॥अग्ने । त्वम् । अस्मत् । युयोधि । अमीवाः । अनग्निऽत्राः । अभि । अमन्त । कृष्टीः ।
पुनः । अस्मभ्यम् । सुविताय । देव । क्षाम् । विश्वेभिः । अमृतेभिः । यजत्र ॥ágne ǀ tvám ǀ asmát ǀ yuyodhi ǀ ámīvāḥ ǀ ánagni-trāḥ ǀ abhí ǀ ámanta ǀ kṛṣṭī́ḥ ǀ
púnaḥ ǀ asmábhyam ǀ suvitā́ya ǀ deva ǀ kṣā́m ǀ víśvebhiḥ ǀ amṛ́tebhiḥ ǀ yajatra ǁagne ǀ tvam ǀ asmat ǀ yuyodhi ǀ amīvāḥ ǀ anagni-trāḥ ǀ abhi ǀ amanta ǀ kṛṣṭīḥ ǀ
punaḥ ǀ asmabhyam ǀ suvitāya ǀ deva ǀ kṣām ǀ viśvebhiḥ ǀ amṛtebhiḥ ǀ yajatra ǁ1.189.3 Aṣṭaka 2.5.10.3Anuvāka 1.24.86
-
Ṛk 4
पा॒हि नो॑ अग्ने पा॒युभि॒रज॑स्रैरु॒त प्रि॒ये सद॑न॒ आ शु॑शु॒क्वान् ।
मा ते॑ भ॒यं ज॑रि॒तारं॑ यविष्ठ नू॒नं वि॑द॒न्माप॒रं स॑हस्वः ॥पाहि नो अग्ने पायुभिर् अजस्रैर् उत प्रिये सदन आ शुशुक्वान् |
मा ते भयं जरितारं यविष्ठ नूनं विदन् मापरं सहस्वः ||pāhí no agne pāyúbhirájasrairutá priyé sádana ā́ śuśukvā́n ǀ
mā́ te bhayám jaritā́ram yaviṣṭha nūnám vidanmā́parám sahasvaḥ ǁpāhi no agne pāyubhir ajasrair uta priye sadana ā śuśukvān |
mā te bhayaṃ jaritāraṃ yaviṣṭha nūnaṃ vidan māparaṃ sahasvaḥ ||पा॒हि । नः॒ । अ॒ग्ने॒ । पा॒युऽभिः॑ । अज॑स्रैः । उ॒त । प्रि॒ये । सद॑ने । आ । शु॒शु॒क्वान् ।
मा । ते॒ । भ॒यम् । ज॒रि॒तार॑म् । य॒वि॒ष्ठ॒ । नू॒नम् । वि॒द॒त् । मा । अ॒प॒रम् । स॒ह॒स्वः॒ ॥पाहि । नः । अग्ने । पायुऽभिः । अजस्रैः । उत । प्रिये । सदने । आ । शुशुक्वान् ।
मा । ते । भयम् । जरितारम् । यविष्ठ । नूनम् । विदत् । मा । अपरम् । सहस्वः ॥pāhí ǀ naḥ ǀ agne ǀ pāyú-bhiḥ ǀ ájasraiḥ ǀ utá ǀ priyé ǀ sádane ǀ ā́ ǀ śuśukvā́n ǀ
mā́ ǀ te ǀ bhayám ǀ jaritā́ram ǀ yaviṣṭha ǀ nūnám ǀ vidat ǀ mā́ ǀ aparám ǀ sahasvaḥ ǁpāhi ǀ naḥ ǀ agne ǀ pāyu-bhiḥ ǀ ajasraiḥ ǀ uta ǀ priye ǀ sadane ǀ ā ǀ śuśukvān ǀ
mā ǀ te ǀ bhayam ǀ jaritāram ǀ yaviṣṭha ǀ nūnam ǀ vidat ǀ mā ǀ aparam ǀ sahasvaḥ ǁ1.189.4 Aṣṭaka 2.5.10.4Anuvāka 1.24.87
-
Ṛk 5
मा नो॑ अ॒ग्नेऽव॑ सृजो अ॒घाया॑वि॒ष्यवे॑ रि॒पवे॑ दु॒च्छुना॑यै ।
मा द॒त्वते॒ दश॑ते॒ मादते॑ नो॒ मा रीष॑ते सहसाव॒न्परा॑ दाः ॥मा नो अग्ने ऽव सृजो अघायाविष्यवे रिपवे दुच्छुनायै |
मा दत्वते दशते मादते नो मा रीषते सहसावन् परा दाः ||mā́ no agné’va sṛjo aghā́yāviṣyáve ripáve ducchúnāyai ǀ
mā́ datváte dáśate mā́dáte no mā́ rī́ṣate sahasāvanpárā dāḥ ǁmā no agne 'va sṛjo aghāyāviṣyave ripave ducchunāyai |
mā datvate daśate mādate no mā rīṣate sahasāvan parā dāḥ ||मा । नः॒ । अ॒ग्ने॒ । अव॑ । सृ॒जः॒ । अ॒घाय॑ । अ॒वि॒ष्यवे॑ । रि॒पवे॑ । दु॒च्छुना॑यै ।
मा । द॒त्वते॑ । दश॑ते । मा । अ॒दते॑ । नः॒ । मा । रिष॑ते । स॒ह॒सा॒ऽव॒न् । परा॑ । दाः॒ ॥मा । नः । अग्ने । अव । सृजः । अघाय । अविष्यवे । रिपवे । दुच्छुनायै ।
मा । दत्वते । दशते । मा । अदते । नः । मा । रिषते । सहसाऽवन् । परा । दाः ॥mā́ ǀ naḥ ǀ agne ǀ áva ǀ sṛjaḥ ǀ aghā́ya ǀ aviṣyáve ǀ ripáve ǀ ducchúnāyai ǀ
mā́ ǀ datváte ǀ dáśate ǀ mā́ ǀ adáte ǀ naḥ ǀ mā́ ǀ ríṣate ǀ sahasā-van ǀ párā ǀ dāḥ ǁmā ǀ naḥ ǀ agne ǀ ava ǀ sṛjaḥ ǀ aghāya ǀ aviṣyave ǀ ripave ǀ ducchunāyai ǀ
mā ǀ datvate ǀ daśate ǀ mā ǀ adate ǀ naḥ ǀ mā ǀ riṣate ǀ sahasā-van ǀ parā ǀ dāḥ ǁ1.189.5 Aṣṭaka 2.5.10.5Anuvāka 1.24.88
-
Ṛk 6
वि घ॒ त्वावाँ॑ ऋतजात यंसद्गृणा॒नो अ॑ग्ने त॒न्वे॒३॒॑ वरू॑थं ।
विश्वा॑द्रिरि॒क्षोरु॒त वा॑ निनि॒त्सोर॑भि॒ह्रुता॒मसि॒ हि दे॑व वि॒ष्पट् ॥वि घ त्वावां ऋतजात यंसद् गृणानो अग्ने तन्वे वरूथम् |
विश्वाद् रिरिक्षोर् उत वा निनित्सोर् अभिह्रुताम् असि हि देव विष्पट् ||ví gha tvā́vām̐ ṛtajāta yaṃsadgṛṇānó agne tanvé várūtham ǀ
víśvādririkṣórutá vā ninitsórabhihrútāmási hí deva viṣpáṭ ǁvi gha tvāvāṃ ṛtajāta yaṃsad gṛṇāno agne tanve varūtham |
viśvād ririkṣor uta vā ninitsor abhihrutām asi hi deva viṣpaṭ ||वि । घ॒ । त्वावा॑न् । ऋ॒त॒ऽजा॒त॒ । यं॒स॒त् । गृ॒णा॒नः । अ॒ग्ने॒ । त॒न्वे॑ । वरू॑थम् ।
विश्वा॑त् । रि॒रि॒क्षोः । उ॒त । वा॒ । नि॒नि॒त्सोः । अ॒भि॒ऽह्रुता॑म् । असि॑ । हि । दे॒व॒ । वि॒ष्पट् ॥वि । घ । त्वावान् । ऋतऽजात । यंसत् । गृणानः । अग्ने । तन्वे । वरूथम् ।
विश्वात् । रिरिक्षोः । उत । वा । निनित्सोः । अभिऽह्रुताम् । असि । हि । देव । विष्पट् ॥ví ǀ gha ǀ tvā́vān ǀ ṛta-jāta ǀ yaṃsat ǀ gṛṇānáḥ ǀ agne ǀ tanvé ǀ várūtham ǀ
víśvāt ǀ ririkṣóḥ ǀ utá ǀ vā ǀ ninitsóḥ ǀ abhi-hrútām ǀ ási ǀ hí ǀ deva ǀ viṣpáṭ ǁvi ǀ gha ǀ tvāvān ǀ ṛta-jāta ǀ yaṃsat ǀ gṛṇānaḥ ǀ agne ǀ tanve ǀ varūtham ǀ
viśvāt ǀ ririkṣoḥ ǀ uta ǀ vā ǀ ninitsoḥ ǀ abhi-hrutām ǀ asi ǀ hi ǀ deva ǀ viṣpaṭ ǁ1.189.6 Aṣṭaka 2.5.11.1Anuvāka 1.24.89
-
Ṛk 7
त्वं ताँ अ॑ग्न उ॒भया॒न्वि वि॒द्वान्वेषि॑ प्रपि॒त्वे मनु॑षो यजत्र ।
अ॒भि॒पि॒त्वे मन॑वे॒ शास्यो॑ भूर्मर्मृ॒जेन्य॑ उ॒शिग्भि॒र्नाक्रः ॥त्वं तां अग्न उभयान् वि विद्वान् वेषि प्रपित्वे मनुषो यजत्र |
अभिपित्वे मनवे शास्यो भूर् मर्मृजेन्य उशिग्भिर् नाक्रः ||tvám tā́m̐ agna ubháyānví vidvā́nvéṣi prapitvé mánuṣo yajatra ǀ
abhipitvé mánave śā́syo bhūrmarmṛjénya uśígbhirnā́kráḥ ǁtvaṃ tāṃ agna ubhayān vi vidvān veṣi prapitve manuṣo yajatra |
abhipitve manave śāsyo bhūr marmṛjenya uśigbhir nākraḥ ||त्वम् । ताम् । अ॒ग्ने॒ । उ॒भया॑न् । वि । वि॒द्वान् । वेषि॑ । प्र॒ऽपि॒त्वे । मनु॑षः । य॒ज॒त्र॒ ।
अ॒भि॒ऽपि॒त्वे । मन॑वे । शास्यः॑ । भूः॒ । म॒र्मृ॒जेन्यः॑ । उ॒शिक्ऽभिः॑ । न । अ॒क्रः ॥त्वम् । ताम् । अग्ने । उभयान् । वि । विद्वान् । वेषि । प्रऽपित्वे । मनुषः । यजत्र ।
अभिऽपित्वे । मनवे । शास्यः । भूः । मर्मृजेन्यः । उशिक्ऽभिः । न । अक्रः ॥tvám ǀ tā́m ǀ agne ǀ ubháyān ǀ ví ǀ vidvā́n ǀ véṣi ǀ pra-pitvé ǀ mánuṣaḥ ǀ yajatra ǀ
abhi-pitvé ǀ mánave ǀ śā́syaḥ ǀ bhūḥ ǀ marmṛjényaḥ ǀ uśík-bhiḥ ǀ ná ǀ akráḥ ǁtvam ǀ tām ǀ agne ǀ ubhayān ǀ vi ǀ vidvān ǀ veṣi ǀ pra-pitve ǀ manuṣaḥ ǀ yajatra ǀ
abhi-pitve ǀ manave ǀ śāsyaḥ ǀ bhūḥ ǀ marmṛjenyaḥ ǀ uśik-bhiḥ ǀ na ǀ akraḥ ǁ1.189.7 Aṣṭaka 2.5.11.2Anuvāka 1.24.90
-
Ṛk 8
अवो॑चाम नि॒वच॑नान्यस्मि॒न्मान॑स्य सू॒नुः स॑हसा॒ने अ॒ग्नौ ।
व॒यं स॒हस्र॒मृषि॑भिः सनेम वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥अवोचाम निवचनान्य् अस्मिन् मानस्य सूनुः सहसाने अग्नौ |
वयं सहस्रम् ऋषिभिः सनेम विद्यामेषं वृजनं जीरदानुम् ||ávocāma nivácanānyasminmā́nasya sūnúḥ sahasāné agnáu ǀ
vayám sahásramṛ́ṣibhiḥ sanema vidyā́meṣám vṛjánam jīrádānum ǁavocāma nivacanāny asmin mānasya sūnuḥ sahasāne agnau |
vayaṃ sahasram ṛṣibhiḥ sanema vidyāmeṣaṃ vṛjanaṃ jīradānum ||अवो॑चाम । नि॒ऽवच॑नानि । अ॒स्मि॒न् । मान॑स्य । सू॒नुः । स॒ह॒सा॒ने । अ॒ग्नौ ।
व॒यम् । स॒हस्र॑म् । ऋषि॑ऽभिः । स॒ने॒म॒ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥अवोचाम । निऽवचनानि । अस्मिन् । मानस्य । सूनुः । सहसाने । अग्नौ ।
वयम् । सहस्रम् । ऋषिऽभिः । सनेम । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥ávocāma ǀ ni-vácanāni ǀ asmin ǀ mā́nasya ǀ sūnúḥ ǀ sahasāné ǀ agnáu ǀ
vayám ǀ sahásram ǀ ṛ́ṣi-bhiḥ ǀ sanema ǀ vidyā́ma ǀ iṣám ǀ vṛjánam ǀ jīrá-dānum ǁavocāma ǀ ni-vacanāni ǀ asmin ǀ mānasya ǀ sūnuḥ ǀ sahasāne ǀ agnau ǀ
vayam ǀ sahasram ǀ ṛṣi-bhiḥ ǀ sanema ǀ vidyāma ǀ iṣam ǀ vṛjanam ǀ jīra-dānum ǁ1.189.8 Aṣṭaka 2.5.11.3Anuvāka 1.24.91
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.