Ṛgveda · Maṇḍala 1 · Sūkta 189
Ṛk 1.189.6
Saṃhitā
वि घ॒ त्वावाँ॑ ऋतजात यंसद्गृणा॒नो अ॑ग्ने त॒न्वे॒३॒॑ वरू॑थं ।
विश्वा॑द्रिरि॒क्षोरु॒त वा॑ निनि॒त्सोर॑भि॒ह्रुता॒मसि॒ हि दे॑व वि॒ष्पट् ॥
वि घ त्वावां ऋतजात यंसद् गृणानो अग्ने तन्वे वरूथम् |
विश्वाद् रिरिक्षोर् उत वा निनित्सोर् अभिह्रुताम् असि हि देव विष्पट् ||
ví gha tvā́vām̐ ṛtajāta yaṃsadgṛṇānó agne tanvé várūtham ǀ
víśvādririkṣórutá vā ninitsórabhihrútāmási hí deva viṣpáṭ ǁ
vi gha tvāvāṃ ṛtajāta yaṃsad gṛṇāno agne tanve varūtham |
viśvād ririkṣor uta vā ninitsor abhihrutām asi hi deva viṣpaṭ ||
Padapāṭha
वि । घ॒ । त्वावा॑न् । ऋ॒त॒ऽजा॒त॒ । यं॒स॒त् । गृ॒णा॒नः । अ॒ग्ने॒ । त॒न्वे॑ । वरू॑थम् ।
विश्वा॑त् । रि॒रि॒क्षोः । उ॒त । वा॒ । नि॒नि॒त्सोः । अ॒भि॒ऽह्रुता॑म् । असि॑ । हि । दे॒व॒ । वि॒ष्पट् ॥
वि । घ । त्वावान् । ऋतऽजात । यंसत् । गृणानः । अग्ने । तन्वे । वरूथम् ।
विश्वात् । रिरिक्षोः । उत । वा । निनित्सोः । अभिऽह्रुताम् । असि । हि । देव । विष्पट् ॥
ví ǀ gha ǀ tvā́vān ǀ ṛta-jāta ǀ yaṃsat ǀ gṛṇānáḥ ǀ agne ǀ tanvé ǀ várūtham ǀ
víśvāt ǀ ririkṣóḥ ǀ utá ǀ vā ǀ ninitsóḥ ǀ abhi-hrútām ǀ ási ǀ hí ǀ deva ǀ viṣpáṭ ǁ
vi ǀ gha ǀ tvāvān ǀ ṛta-jāta ǀ yaṃsat ǀ gṛṇānaḥ ǀ agne ǀ tanve ǀ varūtham ǀ
viśvāt ǀ ririkṣoḥ ǀ uta ǀ vā ǀ ninitsoḥ ǀ abhi-hrutām ǀ asi ǀ hi ǀ deva ǀ viṣpaṭ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.189.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.5.11.01
- Maṇḍala · Anuvāka · Ṛk
- 1.24.089
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.