Ṛgveda · Maṇḍala 1 · Sūkta 189
Ṛk 1.189.2
Saṃhitā
अग्ने॒ त्वं पा॑रया॒ नव्यो॑ अ॒स्मान्त्स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॑ ।
पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शं योः ॥
अग्ने त्वम् पारया नव्यो अस्मान् स्वस्तिभिर् अति दुर्गाणि विश्वा |
पूश् च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शं योः ||
ágne tvám pārayā návyo asmā́ntsvastíbhiráti durgā́ṇi víśvā ǀ
pū́śca pṛthvī́ bahulā́ na urvī́ bhávā tokā́ya tánayāya śám yóḥ ǁ
agne tvam pārayā navyo asmān svastibhir ati durgāṇi viśvā |
pūś ca pṛthvī bahulā na urvī bhavā tokāya tanayāya śaṃ yoḥ ||
Padapāṭha
अग्ने॑ । त्वम् । पा॒र॒य॒ । नव्यः॑ । अ॒स्मान् । स्व॒स्तिऽभिः॑ । अति॑ । दुः॒ऽगानि॑ । विश्वा॑ ।
पूः । च॒ । पृ॒थ्वी । ब॒हु॒ला । नः॒ । उ॒र्वी । भव॑ । तो॒काय॑ । तन॑याय । शम् । योः ॥
अग्ने । त्वम् । पारय । नव्यः । अस्मान् । स्वस्तिऽभिः । अति । दुःऽगानि । विश्वा ।
पूः । च । पृथ्वी । बहुला । नः । उर्वी । भव । तोकाय । तनयाय । शम् । योः ॥
ágne ǀ tvám ǀ pāraya ǀ návyaḥ ǀ asmā́n ǀ svastí-bhiḥ ǀ áti ǀ duḥ-gā́ni ǀ víśvā ǀ
pū́ḥ ǀ ca ǀ pṛthvī́ ǀ bahulā́ ǀ naḥ ǀ urvī́ ǀ bháva ǀ tokā́ya ǀ tánayāya ǀ śám ǀ yóḥ ǁ
agne ǀ tvam ǀ pāraya ǀ navyaḥ ǀ asmān ǀ svasti-bhiḥ ǀ ati ǀ duḥ-gāni ǀ viśvā ǀ
pūḥ ǀ ca ǀ pṛthvī ǀ bahulā ǀ naḥ ǀ urvī ǀ bhava ǀ tokāya ǀ tanayāya ǀ śam ǀ yoḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.189.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.5.10.02
- Maṇḍala · Anuvāka · Ṛk
- 1.24.085
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.