Sūkta 31
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Hiraṇyastūpa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
Metres by ṛk
1st set of styles virāṭjagatī (1, 5, 6, 15, 17); nicṛjjagatī (2, 7, 11, 14); bhuriktriṣṭup (3, 4, 10, 13); triṣṭup (9, 12); virāṭtrisṭup (8); bhurikpaṅkti (16); nicṛttriṣṭup (18)
2nd set of styles jagatī (1-7, 9-15, 17); triṣṭubh (8, 16, 18)
-
Ṛk 1
त्वम॑ग्ने प्रथ॒मो अंगि॑रा॒ ऋषि॑र्दे॒वो दे॒वाना॑मभवः शि॒वः सखा॑ ।
तव॑ व्र॒ते क॒वयो॑ विद्म॒नाप॒सोऽजा॑यंत म॒रुतो॒ भ्राज॑दृष्टयः ॥त्वम् अग्ने प्रथमो अङ्गिरा ऋषिर् देवो देवानाम् अभवः शिवः सखा |
तव व्रते कवयो विद्मनापसो ऽजायन्त मरुतो भ्राजदृष्टयः ||tvámagne prathamó áṅgirā ṛ́ṣirdevó devā́nāmabhavaḥ śiváḥ sákhā ǀ
táva vraté kaváyo vidmanā́pasó’jāyanta marúto bhrā́jadṛṣṭayaḥ ǁtvam agne prathamo aṅgirā ṛṣir devo devānām abhavaḥ śivaḥ sakhā |
tava vrate kavayo vidmanāpaso 'jāyanta maruto bhrājadṛṣṭayaḥ ||त्वम् । अ॒ग्ने॒ । प्र॒थ॒माः । अङ्गि॑राः । ऋषिः॑ । दे॒वः । दे॒वाना॑म् । अ॒भ॒वः॒ । शि॒वः । सखा॑ ।
तव॑ । व्र॒ते । क॒वयः॑ । वि॒द्म॒नाऽअ॑पसः । अजा॑यन्त । म॒रुतः॑ । भ्राज॑त्ऽऋष्टयः ॥त्वम् । अग्ने । प्रथमाः । अङ्गिराः । ऋषिः । देवः । देवानाम् । अभवः । शिवः । सखा ।
तव । व्रते । कवयः । विद्मनाऽअपसः । अजायन्त । मरुतः । भ्राजत्ऽऋष्टयः ॥tvám ǀ agne ǀ prathamā́ḥ ǀ áṅgirāḥ ǀ ṛ́ṣiḥ ǀ deváḥ ǀ devā́nām ǀ abhavaḥ ǀ śiváḥ ǀ sákhā ǀ
táva ǀ vraté ǀ kaváyaḥ ǀ vidmanā́-apasaḥ ǀ ájāyanta ǀ marútaḥ ǀ bhrā́jat-ṛṣṭayaḥ ǁtvam ǀ agne ǀ prathamāḥ ǀ aṅgirāḥ ǀ ṛṣiḥ ǀ devaḥ ǀ devānām ǀ abhavaḥ ǀ śivaḥ ǀ sakhā ǀ
tava ǀ vrate ǀ kavayaḥ ǀ vidmanā-apasaḥ ǀ ajāyanta ǀ marutaḥ ǀ bhrājat-ṛṣṭayaḥ ǁ1.31.1 Aṣṭaka 1.2.32.1Anuvāka 1.7.1
-
Ṛk 2
त्वम॑ग्ने प्रथ॒मो अंगि॑रस्तमः क॒विर्दे॒वानां॒ परि॑ भूषसि व्र॒तं ।
वि॒भुर्विश्व॑स्मै॒ भुव॑नाय॒ मेधि॑रो द्विमा॒ता श॒युः क॑ति॒धा चि॑दा॒यवे॑ ॥त्वम् अग्ने प्रथमो अङ्गिरस्तमः कविर् देवानाम् परि भूषसि व्रतम् |
विभुर् विश्वस्मै भुवनाय मेधिरो द्विमाता शयुः कतिधा चिद् आयवे ||tvámagne prathamó áṅgirastamaḥ kavírdevā́nām pári bhūṣasi vratám ǀ
vibhúrvíśvasmai bhúvanāya médhiro dvimātā́ śayúḥ katidhā́ cidāyáve ǁtvam agne prathamo aṅgirastamaḥ kavir devānām pari bhūṣasi vratam |
vibhur viśvasmai bhuvanāya medhiro dvimātā śayuḥ katidhā cid āyave ||त्वम् । अ॒ग्ने॒ । प्र॒थ॒मः । अङ्गि॑रःऽतमः । क॒विः । दे॒वाना॑म् । परि॑ । भू॒ष॒सि॒ । व्र॒तम् ।
वि॒ऽभुः । विश्व॑स्मै । भुव॑नाय । मेधि॑रः । द्वि॒ऽमा॒ता । श॒युः । क॒ति॒धा । चि॒त् । आ॒यवे॑ ॥त्वम् । अग्ने । प्रथमः । अङ्गिरःऽतमः । कविः । देवानाम् । परि । भूषसि । व्रतम् ।
विऽभुः । विश्वस्मै । भुवनाय । मेधिरः । द्विऽमाता । शयुः । कतिधा । चित् । आयवे ॥tvám ǀ agne ǀ prathamáḥ ǀ áṅgiraḥ-tamaḥ ǀ kavíḥ ǀ devā́nām ǀ pári ǀ bhūṣasi ǀ vratám ǀ
vi-bhúḥ ǀ víśvasmai ǀ bhúvanāya ǀ médhiraḥ ǀ dvi-mātā́ ǀ śayúḥ ǀ katidhā́ ǀ cit ǀ āyáve ǁtvam ǀ agne ǀ prathamaḥ ǀ aṅgiraḥ-tamaḥ ǀ kaviḥ ǀ devānām ǀ pari ǀ bhūṣasi ǀ vratam ǀ
vi-bhuḥ ǀ viśvasmai ǀ bhuvanāya ǀ medhiraḥ ǀ dvi-mātā ǀ śayuḥ ǀ katidhā ǀ cit ǀ āyave ǁ1.31.2 Aṣṭaka 1.2.32.2Anuvāka 1.7.2
-
Ṛk 3
त्वम॑ग्ने प्रथ॒मो मा॑त॒रिश्व॑न आ॒विर्भ॑व सुक्रतू॒या वि॒वस्व॑ते ।
अरे॑जेतां॒ रोद॑सी होतृ॒वूर्येऽस॑घ्नोर्भा॒रमय॑जो म॒हो व॑सो ॥त्वम् अग्ने प्रथमो मातरिश्वन आविर् भव सुक्रतूया विवस्वते |
अरेजेतां रोदसी होतृवूर्ये ऽसघ्नोर् भारम् अयजो महो वसो ||tvámagne prathamó mātaríśvana āvírbhava sukratūyā́ vivásvate ǀ
árejetām ródasī hotṛvū́ryé’saghnorbhārámáyajo mahó vaso ǁtvam agne prathamo mātariśvana āvir bhava sukratūyā vivasvate |
arejetāṃ rodasī hotṛvūrye 'saghnor bhāram ayajo maho vaso ||त्वम् । अ॒ग्ने॒ । प्र॒थ॒मः । मा॒त॒रिश्व॑ने । आ॒विः । भ॒व॒ । सु॒क्र॒तू॒ऽया । वि॒वस्व॑ते ।
अरे॑जेताम् । रोद॑सी॒ इति॑ । हो॒तृ॒ऽवूर्ये॑ । अस॑घ्नोः । भा॒रम् । अय॑जः । म॒हः । व॒सो॒ इति॑ ॥त्वम् । अग्ने । प्रथमः । मातरिश्वने । आविः । भव । सुक्रतूऽया । विवस्वते ।
अरेजेताम् । रोदसी इति । होतृऽवूर्ये । असघ्नोः । भारम् । अयजः । महः । वसो इति ॥tvám ǀ agne ǀ prathamáḥ ǀ mātaríśvane ǀ āvíḥ ǀ bhava ǀ sukratū-yā́ ǀ vivásvate ǀ
árejetām ǀ ródasī íti ǀ hotṛ-vū́rye ǀ ásaghnoḥ ǀ bhārám ǀ áyajaḥ ǀ maháḥ ǀ vaso íti ǁtvam ǀ agne ǀ prathamaḥ ǀ mātariśvane ǀ āviḥ ǀ bhava ǀ sukratū-yā ǀ vivasvate ǀ
arejetām ǀ rodasī iti ǀ hotṛ-vūrye ǀ asaghnoḥ ǀ bhāram ǀ ayajaḥ ǀ mahaḥ ǀ vaso iti ǁ1.31.3 Aṣṭaka 1.2.32.3Anuvāka 1.7.3
-
Ṛk 4
त्वम॑ग्ने॒ मन॑वे॒ द्याम॑वाशयः पुरू॒रव॑से सु॒कृते॑ सु॒कृत्त॑रः ।
श्वा॒त्रेण॒ यत्पि॒त्रोर्मुच्य॑से॒ पर्या त्वा॒ पूर्व॑मनय॒न्नाप॑रं॒ पुनः॑ ॥त्वम् अग्ने मनवे द्याम् अवाशयः पुरूरवसे सुकृते सुकृत्तरः |
श्वात्रेण यत् पित्रोर् मुच्यसे पर्य् आ त्वा पूर्वम् अनयन्न् आपरम् पुनः ||tvámagne mánave dyā́mavāśayaḥ purūrávase sukṛ́te sukṛ́ttaraḥ ǀ
śvātréṇa yátpitrórmúcyase páryā́ tvā pū́rvamanayannā́param púnaḥ ǁtvam agne manave dyām avāśayaḥ purūravase sukṛte sukṛttaraḥ |
śvātreṇa yat pitror mucyase pary ā tvā pūrvam anayann āparam punaḥ ||त्वम् । अ॒ग्ने॒ । मन॑वे । द्याम् । अ॒वा॒श॒यः॒ । पु॒रू॒रव॑से । सु॒ऽकृते॑ । सु॒कृत्ऽत॑रः ।
श्वा॒त्रेण॑ । यत् । पि॒त्रोः । मुच्य॑से । परि॑ । आ । त्वा॒ । पूर्व॑म् । अ॒न॒य॒न् । आ । अप॑रम् । पुन॒रिति॑ ॥त्वम् । अग्ने । मनवे । द्याम् । अवाशयः । पुरूरवसे । सुऽकृते । सुकृत्ऽतरः ।
श्वात्रेण । यत् । पित्रोः । मुच्यसे । परि । आ । त्वा । पूर्वम् । अनयन् । आ । अपरम् । पुनरिति ॥tvám ǀ agne ǀ mánave ǀ dyā́m ǀ avāśayaḥ ǀ purūrávase ǀ su-kṛ́te ǀ sukṛ́t-taraḥ ǀ
śvātréṇa ǀ yát ǀ pitróḥ ǀ múcyase ǀ pári ǀ ā́ ǀ tvā ǀ pū́rvam ǀ anayan ǀ ā́ ǀ áparam ǀ púnaríti ǁtvam ǀ agne ǀ manave ǀ dyām ǀ avāśayaḥ ǀ purūravase ǀ su-kṛte ǀ sukṛt-taraḥ ǀ
śvātreṇa ǀ yat ǀ pitroḥ ǀ mucyase ǀ pari ǀ ā ǀ tvā ǀ pūrvam ǀ anayan ǀ ā ǀ aparam ǀ punariti ǁ1.31.4 Aṣṭaka 1.2.32.4Anuvāka 1.7.4
-
Ṛk 5
त्वम॑ग्ने वृष॒भः पु॑ष्टि॒वर्ध॑न॒ उद्य॑तस्रुचे भवसि श्र॒वाय्यः॑ ।
य आहु॑तिं॒ परि॒ वेदा॒ वष॑ट्कृति॒मेका॑यु॒रग्रे॒ विश॑ आ॒विवा॑ससि ॥त्वम् अग्ने वृषभः पुष्टिवर्धन उद्यतस्रुचे भवसि श्रवाय्यः |
य आहुतिम् परि वेदा वषट्कृतिम् एकायुर् अग्रे विश आविवाससि ||tvámagne vṛṣabháḥ puṣṭivárdhana údyatasruce bhavasi śravā́yyaḥ ǀ
yá ā́hutim pári védā váṣaṭkṛtimékāyurágre víśa āvívāsasi ǁtvam agne vṛṣabhaḥ puṣṭivardhana udyatasruce bhavasi śravāyyaḥ |
ya āhutim pari vedā vaṣaṭkṛtim ekāyur agre viśa āvivāsasi ||त्वम् । अ॒ग्ने॒ । वृ॒ष॒भः । पु॒ष्टि॒ऽवर्ध॑नः । उद्य॑तऽस्रुचे । भ॒व॒सि॒ । श्र॒वाय्यः॑ ।
यः । आऽहु॑तिम् । परि॑ । वेद॑ । वष॑ट्ऽकृतिम् । एक॑ऽआयुः । अग्ने॑ । विशः॑ । आ॒ऽविवा॑ससि ॥त्वम् । अग्ने । वृषभः । पुष्टिऽवर्धनः । उद्यतऽस्रुचे । भवसि । श्रवाय्यः ।
यः । आऽहुतिम् । परि । वेद । वषट्ऽकृतिम् । एकऽआयुः । अग्ने । विशः । आऽविवाससि ॥tvám ǀ agne ǀ vṛṣabháḥ ǀ puṣṭi-várdhanaḥ ǀ údyata-sruce ǀ bhavasi ǀ śravā́yyaḥ ǀ
yáḥ ǀ ā́-hutim ǀ pári ǀ véda ǀ váṣaṭ-kṛtim ǀ éka-āyuḥ ǀ ágne ǀ víśaḥ ǀ ā-vívāsasi ǁtvam ǀ agne ǀ vṛṣabhaḥ ǀ puṣṭi-vardhanaḥ ǀ udyata-sruce ǀ bhavasi ǀ śravāyyaḥ ǀ
yaḥ ǀ ā-hutim ǀ pari ǀ veda ǀ vaṣaṭ-kṛtim ǀ eka-āyuḥ ǀ agne ǀ viśaḥ ǀ ā-vivāsasi ǁ1.31.5 Aṣṭaka 1.2.32.5Anuvāka 1.7.5
-
Ṛk 6
त्वम॑ग्ने वृजि॒नव॑र्तनिं॒ नरं॒ सक्म॑न्पिपर्षि वि॒दथे॑ विचर्षणे ।
यः शूर॑साता॒ परि॑तक्म्ये॒ धने॑ द॒भ्रेभि॑श्चि॒त्समृ॑ता॒ हंसि॒ भूय॑सः ॥त्वम् अग्ने वृजिनवर्तनिं नरं सक्मन् पिपर्षि विदथे विचर्षणे |
यः शूरसाता परितक्म्ये धने दभ्रेभिश् चित् समृता हंसि भूयसः ||tvámagne vṛjinávartanim náram sákmanpiparṣi vidáthe vicarṣaṇe ǀ
yáḥ śū́rasātā páritakmye dháne dabhrébhiścitsámṛtā háṃsi bhū́yasaḥ ǁtvam agne vṛjinavartaniṃ naraṃ sakman piparṣi vidathe vicarṣaṇe |
yaḥ śūrasātā paritakmye dhane dabhrebhiś cit samṛtā haṃsi bhūyasaḥ ||त्वम् । अ॒ग्ने॒ । वृ॒जि॒नऽव॑र्तनिम् । नर॑म् । सक्म॑न् । पि॒प॒र्षि॒ । वि॒दथे॑ । वि॒ऽच॒र्ष॒णे॒ ।
यः । शूर॑ऽसाता । परि॑ऽतक्म्ये । धने॑ । द॒भ्रेभिः॑ । चि॒त् । सम्ऽऋ॑ता । हंसि॑ । भूय॑सः ॥त्वम् । अग्ने । वृजिनऽवर्तनिम् । नरम् । सक्मन् । पिपर्षि । विदथे । विऽचर्षणे ।
यः । शूरऽसाता । परिऽतक्म्ये । धने । दभ्रेभिः । चित् । सम्ऽऋता । हंसि । भूयसः ॥tvám ǀ agne ǀ vṛjiná-vartanim ǀ náram ǀ sákman ǀ piparṣi ǀ vidáthe ǀ vi-carṣaṇe ǀ
yáḥ ǀ śū́ra-sātā ǀ pári-takmye ǀ dháne ǀ dabhrébhiḥ ǀ cit ǀ sám-ṛtā ǀ háṃsi ǀ bhū́yasaḥ ǁtvam ǀ agne ǀ vṛjina-vartanim ǀ naram ǀ sakman ǀ piparṣi ǀ vidathe ǀ vi-carṣaṇe ǀ
yaḥ ǀ śūra-sātā ǀ pari-takmye ǀ dhane ǀ dabhrebhiḥ ǀ cit ǀ sam-ṛtā ǀ haṃsi ǀ bhūyasaḥ ǁ1.31.6 Aṣṭaka 1.2.33.1Anuvāka 1.7.6
-
Ṛk 7
त्वं तम॑ग्ने अमृत॒त्व उ॑त्त॒मे मर्तं॑ दधासि॒ श्रव॑से दि॒वेदि॑वे ।
यस्ता॑तृषा॒ण उ॒भया॑य॒ जन्म॑ने॒ मयः॑ कृ॒णोषि॒ प्रय॒ आ च॑ सू॒रये॑ ॥त्वं तम् अग्ने अमृतत्व उत्तमे मर्तं दधासि श्रवसे दिवे-दिवे |
यस् तातृषाण उभयाय जन्मने मयः कृणोषि प्रय आ च सूरये ||tvám támagne amṛtatvá uttamé mártam dadhāsi śrávase divédive ǀ
yástātṛṣāṇá ubháyāya jánmane máyaḥ kṛṇóṣi práya ā́ ca sūráye ǁtvaṃ tam agne amṛtatva uttame martaṃ dadhāsi śravase dive-dive |
yas tātṛṣāṇa ubhayāya janmane mayaḥ kṛṇoṣi praya ā ca sūraye ||त्वम् । तम् । अ॒ग्ने॒ । अ॒मृ॒त॒ऽत्वे । उ॒त्ऽत॒मे । मर्त॑म् । द॒धा॒सि॒ । श्रव॑से । दि॒वेऽदि॑वे ।
यः । त॒तृ॒षा॒णः । उ॒भया॑य । जन्म॑ने । मयः॑ । कृ॒णोषि॑ । प्रयः॑ । आ । च॒ । सू॒रये॑ ॥त्वम् । तम् । अग्ने । अमृतऽत्वे । उत्ऽतमे । मर्तम् । दधासि । श्रवसे । दिवेऽदिवे ।
यः । ततृषाणः । उभयाय । जन्मने । मयः । कृणोषि । प्रयः । आ । च । सूरये ॥tvám ǀ tám ǀ agne ǀ amṛta-tvé ǀ ut-tamé ǀ mártam ǀ dadhāsi ǀ śrávase ǀ divé-dive ǀ
yáḥ ǀ tatṛṣāṇáḥ ǀ ubháyāya ǀ jánmane ǀ máyaḥ ǀ kṛṇóṣi ǀ práyaḥ ǀ ā́ ǀ ca ǀ sūráye ǁtvam ǀ tam ǀ agne ǀ amṛta-tve ǀ ut-tame ǀ martam ǀ dadhāsi ǀ śravase ǀ dive-dive ǀ
yaḥ ǀ tatṛṣāṇaḥ ǀ ubhayāya ǀ janmane ǀ mayaḥ ǀ kṛṇoṣi ǀ prayaḥ ǀ ā ǀ ca ǀ sūraye ǁ1.31.7 Aṣṭaka 1.2.33.2Anuvāka 1.7.7
-
Ṛk 8
त्वं नो॑ अग्ने स॒नये॒ धना॑नां य॒शसं॑ का॒रुं कृ॑णुहि॒ स्तवा॑नः ।
ऋ॒ध्याम॒ कर्मा॒पसा॒ नवे॑न दे॒वैर्द्या॑वापृथिवी॒ प्राव॑तं नः ॥त्वं नो अग्ने सनये धनानां यशसं कारुं कृणुहि स्तवानः |
ऋध्याम कर्मापसा नवेन देवैर् द्यावापृथिवी प्रावतं नः ||tvám no agne sanáye dhánānām yaśásam kārúm kṛṇuhi stávānaḥ ǀ
ṛdhyā́ma kármāpásā návena deváirdyāvāpṛthivī prā́vatam naḥ ǁtvaṃ no agne sanaye dhanānāṃ yaśasaṃ kāruṃ kṛṇuhi stavānaḥ |
ṛdhyāma karmāpasā navena devair dyāvāpṛthivī prāvataṃ naḥ ||त्वम् । नः॒ । अ॒ग्ने॒ । स॒नये॑ । धना॑नाम् । य॒शस॑म् । का॒रुम् । कृ॒णु॒हि॒ । स्तवा॑नः ।
ऋ॒ध्याम॑ । कर्म॑ । अ॒पसा॑ । नवे॑न । दे॒वैः । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । प्र । अ॒व॒त॒म् । नः॒ ॥त्वम् । नः । अग्ने । सनये । धनानाम् । यशसम् । कारुम् । कृणुहि । स्तवानः ।
ऋध्याम । कर्म । अपसा । नवेन । देवैः । द्यावापृथिवी इति । प्र । अवतम् । नः ॥tvám ǀ naḥ ǀ agne ǀ sanáye ǀ dhánānām ǀ yaśásam ǀ kārúm ǀ kṛṇuhi ǀ stávānaḥ ǀ
ṛdhyā́ma ǀ kárma ǀ apásā ǀ návena ǀ deváiḥ ǀ dyāvāpṛthivī íti ǀ prá ǀ avatam ǀ naḥ ǁtvam ǀ naḥ ǀ agne ǀ sanaye ǀ dhanānām ǀ yaśasam ǀ kārum ǀ kṛṇuhi ǀ stavānaḥ ǀ
ṛdhyāma ǀ karma ǀ apasā ǀ navena ǀ devaiḥ ǀ dyāvāpṛthivī iti ǀ pra ǀ avatam ǀ naḥ ǁ1.31.8 Aṣṭaka 1.2.33.3Anuvāka 1.7.8
-
Ṛk 9
त्वं नो॑ अग्ने पि॒त्रोरु॒पस्थ॒ आ दे॒वो दे॒वेष्व॑नवद्य॒ जागृ॑विः ।
त॒नू॒कृद्बो॑धि॒ प्रम॑तिश्च का॒रवे॒ त्वं क॑ल्याण॒ वसु॒ विश्व॒मोपि॑षे ॥त्वं नो अग्ने पित्रोर् उपस्थ आ देवो देवेष्व् अनवद्य जागृविः |
तनूकृद् बोधि प्रमतिश् च कारवे त्वं कल्याण वसु विश्वम् ओपिषे ||tvám no agne pitrórupástha ā́ devó devéṣvanavadya jā́gṛviḥ ǀ
tanūkṛ́dbodhi prámatiśca kāráve tvám kalyāṇa vásu víśvamópiṣe ǁtvaṃ no agne pitror upastha ā devo deveṣv anavadya jāgṛviḥ |
tanūkṛd bodhi pramatiś ca kārave tvaṃ kalyāṇa vasu viśvam opiṣe ||त्वम् । नः॒ । अ॒ग्ने॒ । पि॒त्रोः । उ॒पऽस्थे॑ । आ । दे॒वः । दे॒वेषु॑ । अ॒न॒व॒द्य॒ । जागृ॑विः ।
त॒नू॒ऽकृत् । बो॒धि॒ । प्रऽम॑तिः । च॒ । का॒रवे॑ । त्वम् । क॒ल्या॒ण॒ । वसु॑ । विश्व॑म् । आ । ऊ॒पि॒षे॒ ॥त्वम् । नः । अग्ने । पित्रोः । उपऽस्थे । आ । देवः । देवेषु । अनवद्य । जागृविः ।
तनूऽकृत् । बोधि । प्रऽमतिः । च । कारवे । त्वम् । कल्याण । वसु । विश्वम् । आ । ऊपिषे ॥tvám ǀ naḥ ǀ agne ǀ pitróḥ ǀ upá-sthe ǀ ā́ ǀ deváḥ ǀ devéṣu ǀ anavadya ǀ jā́gṛviḥ ǀ
tanū-kṛ́t ǀ bodhi ǀ prá-matiḥ ǀ ca ǀ kāráve ǀ tvám ǀ kalyāṇa ǀ vásu ǀ víśvam ǀ ā́ ǀ ūpiṣe ǁtvam ǀ naḥ ǀ agne ǀ pitroḥ ǀ upa-sthe ǀ ā ǀ devaḥ ǀ deveṣu ǀ anavadya ǀ jāgṛviḥ ǀ
tanū-kṛt ǀ bodhi ǀ pra-matiḥ ǀ ca ǀ kārave ǀ tvam ǀ kalyāṇa ǀ vasu ǀ viśvam ǀ ā ǀ ūpiṣe ǁ1.31.9 Aṣṭaka 1.2.33.4Anuvāka 1.7.9
-
Ṛk 10
त्वम॑ग्ने॒ प्रम॑ति॒स्त्वं पि॒तासि॑ न॒स्त्वं व॑य॒स्कृत्तव॑ जा॒मयो॑ व॒यं ।
सं त्वा॒ रायः॑ श॒तिनः॒ सं स॑ह॒स्रिणः॑ सु॒वीरं॑ यंति व्रत॒पाम॑दाभ्य ॥त्वम् अग्ने प्रमतिस् त्वम् पितासि नस् त्वं वयस्कृत् तव जामयो वयम् |
सं त्वा रायः शतिनः सं सहस्रिणः सुवीरं यन्ति व्रतपाम् अदाभ्य ||tvámagne prámatistvám pitā́si nastvám vayaskṛ́ttáva jāmáyo vayám ǀ
sám tvā rā́yaḥ śatínaḥ sám sahasríṇaḥ suvī́ram yanti vratapā́madābhya ǁtvam agne pramatis tvam pitāsi nas tvaṃ vayaskṛt tava jāmayo vayam |
saṃ tvā rāyaḥ śatinaḥ saṃ sahasriṇaḥ suvīraṃ yanti vratapām adābhya ||त्वम् । अ॒ग्ने॒ । प्रऽम॑तिः । त्वम् । पि॒ता । अ॒सि॒ । नः॒ । त्वम् । व॒यः॒ऽकृत् । तव॑ । जा॒मयः॑ । व॒यम् ।
सम् । त्वा॒ । रायः॑ । श॒तिनः॑ । सम् । स॒ह॒स्रिणः॑ । सु॒ऽवीर॑म् । य॒न्ति॒ । व्र॒त॒ऽपाम् । अ॒दा॒भ्य॒ ॥त्वम् । अग्ने । प्रऽमतिः । त्वम् । पिता । असि । नः । त्वम् । वयःऽकृत् । तव । जामयः । वयम् ।
सम् । त्वा । रायः । शतिनः । सम् । सहस्रिणः । सुऽवीरम् । यन्ति । व्रतऽपाम् । अदाभ्य ॥tvám ǀ agne ǀ prá-matiḥ ǀ tvám ǀ pitā́ ǀ asi ǀ naḥ ǀ tvám ǀ vayaḥ-kṛ́t ǀ táva ǀ jāmáyaḥ ǀ vayám ǀ
sám ǀ tvā ǀ rā́yaḥ ǀ śatínaḥ ǀ sám ǀ sahasríṇaḥ ǀ su-vī́ram ǀ yanti ǀ vrata-pā́m ǀ adābhya ǁtvam ǀ agne ǀ pra-matiḥ ǀ tvam ǀ pitā ǀ asi ǀ naḥ ǀ tvam ǀ vayaḥ-kṛt ǀ tava ǀ jāmayaḥ ǀ vayam ǀ
sam ǀ tvā ǀ rāyaḥ ǀ śatinaḥ ǀ sam ǀ sahasriṇaḥ ǀ su-vīram ǀ yanti ǀ vrata-pām ǀ adābhya ǁ1.31.10 Aṣṭaka 1.2.33.5Anuvāka 1.7.10
-
Ṛk 11
त्वाम॑ग्ने प्रथ॒ममा॒युमा॒यवे॑ दे॒वा अ॑कृण्व॒न्नहु॑षस्य वि॒श्पतिं॑ ।
इळा॑मकृण्व॒न्मनु॑षस्य॒ शास॑नीं पि॒तुर्यत्पु॒त्रो मम॑कस्य॒ जाय॑ते ॥त्वाम् अग्ने प्रथमम् आयुम् आयवे देवा अकृण्वन् नहुषस्य विश्पतिम् |
इऌआम् अकृण्वन् मनुषस्य शासनीम् पितुर् यत् पुत्रो ममकस्य जायते ||tvā́magne prathamámāyúmāyáve devā́ akṛṇvannáhuṣasya viśpátim ǀ
íḷāmakṛṇvanmánuṣasya śā́sanīm pitúryátputró mámakasya jā́yate ǁtvām agne prathamam āyum āyave devā akṛṇvan nahuṣasya viśpatim |
iḷām akṛṇvan manuṣasya śāsanīm pitur yat putro mamakasya jāyate ||त्वाम् । अ॒ग्ने॒ । प्र॒थ॒मम् । आ॒युम् । आ॒यवे॑ । दे॒वाः । अ॒कृ॒ण्व॒न् । नहु॑षस्य । वि॒श्पति॑म् ।
इळा॑म् । अ॒कृ॒ण्व॒न् । मनु॑षस्य । शास॑नीम् । पि॒तुः । यत् । पु॒त्रः । मम॑कस्य । जाय॑ते ॥त्वाम् । अग्ने । प्रथमम् । आयुम् । आयवे । देवाः । अकृण्वन् । नहुषस्य । विश्पतिम् ।
इळाम् । अकृण्वन् । मनुषस्य । शासनीम् । पितुः । यत् । पुत्रः । ममकस्य । जायते ॥tvā́m ǀ agne ǀ prathamám ǀ āyúm ǀ āyáve ǀ devā́ḥ ǀ akṛṇvan ǀ náhuṣasya ǀ viśpátim ǀ
íḷām ǀ akṛṇvan ǀ mánuṣasya ǀ śā́sanīm ǀ pitúḥ ǀ yát ǀ putráḥ ǀ mámakasya ǀ jā́yate ǁtvām ǀ agne ǀ prathamam ǀ āyum ǀ āyave ǀ devāḥ ǀ akṛṇvan ǀ nahuṣasya ǀ viśpatim ǀ
iḷām ǀ akṛṇvan ǀ manuṣasya ǀ śāsanīm ǀ pituḥ ǀ yat ǀ putraḥ ǀ mamakasya ǀ jāyate ǁ1.31.11 Aṣṭaka 1.2.34.1Anuvāka 1.7.11
-
Ṛk 12
त्वं नो॑ अग्ने॒ तव॑ देव पा॒युभि॑र्म॒घोनो॑ रक्ष त॒न्व॑श्च वंद्य ।
त्रा॒ता तो॒कस्य॒ तन॑ये॒ गवा॑म॒स्यनि॑मेषं॒ रक्ष॑माण॒स्तव॑ व्र॒ते ॥त्वं नो अग्ने तव देव पायुभिर् मघोनो रक्ष तन्वश् च वन्द्य |
त्राता तोकस्य तनये गवाम् अस्य् अनिमेषं रक्षमाणस् तव व्रते ||tvám no agne táva deva pāyúbhirmaghóno rakṣa tanváśca vandya ǀ
trātā́ tokásya tánaye gávāmasyánimeṣam rákṣamāṇastáva vraté ǁtvaṃ no agne tava deva pāyubhir maghono rakṣa tanvaś ca vandya |
trātā tokasya tanaye gavām asy animeṣaṃ rakṣamāṇas tava vrate ||त्वम् । नः॒ । अ॒ग्ने॒ । तव॑ । दे॒व॒ । पा॒युऽभिः॑ । म॒घोनः॑ । र॒क्ष॒ । त॒न्वः॑ । च॒ । व॒न्द्य॒ ।
त्रा॒ता । तो॒कस्य॑ । तन॑ये । गवा॑म् । अ॒सि॒ । अनि॑ऽमेषम् । रक्ष॑माणः । तव॑ । व्र॒ते ॥त्वम् । नः । अग्ने । तव । देव । पायुऽभिः । मघोनः । रक्ष । तन्वः । च । वन्द्य ।
त्राता । तोकस्य । तनये । गवाम् । असि । अनिऽमेषम् । रक्षमाणः । तव । व्रते ॥tvám ǀ naḥ ǀ agne ǀ táva ǀ deva ǀ pāyú-bhiḥ ǀ maghónaḥ ǀ rakṣa ǀ tanváḥ ǀ ca ǀ vandya ǀ
trātā́ ǀ tokásya ǀ tánaye ǀ gávām ǀ asi ǀ áni-meṣam ǀ rákṣamāṇaḥ ǀ táva ǀ vraté ǁtvam ǀ naḥ ǀ agne ǀ tava ǀ deva ǀ pāyu-bhiḥ ǀ maghonaḥ ǀ rakṣa ǀ tanvaḥ ǀ ca ǀ vandya ǀ
trātā ǀ tokasya ǀ tanaye ǀ gavām ǀ asi ǀ ani-meṣam ǀ rakṣamāṇaḥ ǀ tava ǀ vrate ǁ1.31.12 Aṣṭaka 1.2.34.2Anuvāka 1.7.12
-
Ṛk 13
त्वम॑ग्ने॒ यज्य॑वे पा॒युरंत॑रोऽनिषं॒गाय॑ चतुर॒क्ष इ॑ध्यसे ।
यो रा॒तह॑व्योऽवृ॒काय॒ धाय॑से की॒रेश्चि॒न्मंत्रं॒ मन॑सा व॒नोषि॒ तं ॥त्वम् अग्ने यज्यवे पायुर् अन्तरो ऽनिषङ्गाय चतुरक्ष इध्यसे |
यो रातहव्यो ऽवृकाय धायसे कीरेश् चिन् मन्त्रम् मनसा वनोषि तम् ||tvámagne yájyave pāyúrántaro’niṣaṅgā́ya caturakṣá idhyase ǀ
yó rātáhavyo’vṛkā́ya dhā́yase kīréścinmántram mánasā vanóṣi tám ǁtvam agne yajyave pāyur antaro 'niṣaṅgāya caturakṣa idhyase |
yo rātahavyo 'vṛkāya dhāyase kīreś cin mantram manasā vanoṣi tam ||त्वम् । अ॒ग्ने॒ । यज्य॑वे । पा॒युः । अन्त॑रः । अ॒नि॒ष॒ङ्गाय॑ । च॒तुः॒ऽअ॒क्षः । इ॒ध्य॒से॒ ।
यः । रा॒तऽह॑व्यः । अ॒वृ॒काय॑ । धाय॑से । की॒रेः । चि॒त् । मन्त्र॑म् । मन॑सा । व॒नोषि॑ । तम् ॥त्वम् । अग्ने । यज्यवे । पायुः । अन्तरः । अनिषङ्गाय । चतुःऽअक्षः । इध्यसे ।
यः । रातऽहव्यः । अवृकाय । धायसे । कीरेः । चित् । मन्त्रम् । मनसा । वनोषि । तम् ॥tvám ǀ agne ǀ yájyave ǀ pāyúḥ ǀ ántaraḥ ǀ aniṣaṅgā́ya ǀ catuḥ-akṣáḥ ǀ idhyase ǀ
yáḥ ǀ rātá-havyaḥ ǀ avṛkā́ya ǀ dhā́yase ǀ kīréḥ ǀ cit ǀ mántram ǀ mánasā ǀ vanóṣi ǀ tám ǁtvam ǀ agne ǀ yajyave ǀ pāyuḥ ǀ antaraḥ ǀ aniṣaṅgāya ǀ catuḥ-akṣaḥ ǀ idhyase ǀ
yaḥ ǀ rāta-havyaḥ ǀ avṛkāya ǀ dhāyase ǀ kīreḥ ǀ cit ǀ mantram ǀ manasā ǀ vanoṣi ǀ tam ǁ1.31.13 Aṣṭaka 1.2.34.3Anuvāka 1.7.13
-
Ṛk 14
त्वम॑ग्न उरु॒शंसा॑य वा॒घते॑ स्पा॒र्हं यद्रेक्णः॑ पर॒मं व॒नोषि॒ तत् ।
आ॒ध्रस्य॑ चि॒त्प्रम॑तिरुच्यसे पि॒ता प्र पाकं॒ शास्सि॒ प्र दिशो॑ वि॒दुष्ट॑रः ॥त्वम् अग्न उरुशंसाय वाघते स्पार्हं यद् रेक्णः परमं वनोषि तत् |
आध्रस्य चित् प्रमतिर् उच्यसे पिता प्र पाकं शास्सि प्र दिशो विदुष्टरः ||tvámagna uruśáṃsāya vāgháte spārhám yádrékṇaḥ paramám vanóṣi tát ǀ
ādhrásya citprámatirucyase pitā́ prá pā́kam śā́ssi prá díśo vidúṣṭaraḥ ǁtvam agna uruśaṃsāya vāghate spārhaṃ yad rekṇaḥ paramaṃ vanoṣi tat |
ādhrasya cit pramatir ucyase pitā pra pākaṃ śāssi pra diśo viduṣṭaraḥ ||त्वम् । अ॒ग्ने॒ । उ॒रु॒ऽशंसा॑य । वा॒घते॑ । स्पा॒र्हम् । यत् । रेक्णः॑ । प॒र॒मम् । व॒नोषि॑ । तत् ।
आ॒ध्रस्य॑ । चि॒त् । प्रऽम॑तिः । उ॒च्य॒से॒ । पि॒ता । प्र । पाक॑म् । शास्सि॑ । प्र । दिशः॑ । वि॒दुःऽत॑रः ॥त्वम् । अग्ने । उरुऽशंसाय । वाघते । स्पार्हम् । यत् । रेक्णः । परमम् । वनोषि । तत् ।
आध्रस्य । चित् । प्रऽमतिः । उच्यसे । पिता । प्र । पाकम् । शास्सि । प्र । दिशः । विदुःऽतरः ॥tvám ǀ agne ǀ uru-śáṃsāya ǀ vāgháte ǀ spārhám ǀ yát ǀ rékṇaḥ ǀ paramám ǀ vanóṣi ǀ tát ǀ
ādhrásya ǀ cit ǀ prá-matiḥ ǀ ucyase ǀ pitā́ ǀ prá ǀ pā́kam ǀ śā́ssi ǀ prá ǀ díśaḥ ǀ vidúḥ-taraḥ ǁtvam ǀ agne ǀ uru-śaṃsāya ǀ vāghate ǀ spārham ǀ yat ǀ rekṇaḥ ǀ paramam ǀ vanoṣi ǀ tat ǀ
ādhrasya ǀ cit ǀ pra-matiḥ ǀ ucyase ǀ pitā ǀ pra ǀ pākam ǀ śāssi ǀ pra ǀ diśaḥ ǀ viduḥ-taraḥ ǁ1.31.14 Aṣṭaka 1.2.34.4Anuvāka 1.7.14
-
Ṛk 15
त्वम॑ग्ने॒ प्रय॑तदक्षिणं॒ नरं॒ वर्मे॑व स्यू॒तं परि॑ पासि वि॒श्वतः॑ ।
स्वा॒दु॒क्षद्मा॒ यो व॑स॒तौ स्यो॑न॒कृज्जी॑वया॒जं यज॑ते॒ सोप॒मा दि॒वः ॥त्वम् अग्ने प्रयतदक्षिणं नरं वर्मेव स्यूतम् परि पासि विश्वतः |
स्वादुक्षद्मा यो वसतौ स्योनकृज् जीवयाजं यजते सोपमा दिवः ||tvámagne práyatadakṣiṇam náram vármeva syūtám pári pāsi viśvátaḥ ǀ
svādukṣádmā yó vasatáu syonakṛ́jjīvayājám yájate sópamā́ diváḥ ǁtvam agne prayatadakṣiṇaṃ naraṃ varmeva syūtam pari pāsi viśvataḥ |
svādukṣadmā yo vasatau syonakṛj jīvayājaṃ yajate sopamā divaḥ ||त्वम् । अ॒ग्ने॒ । प्रय॑तऽदक्षिणम् । नर॑म् । वर्म॑ऽइव । स्यू॒तम् । परि॑ । पा॒सि॒ । वि॒श्वतः॑ ।
स्वा॒दु॒ऽक्षद्मा॑ । यः । व॒स॒तौ । स्यो॒न॒ऽकृत् । जी॒व॒ऽया॒जम् । यज॑ते । सः । उ॒प॒ऽमा । दि॒वः ॥त्वम् । अग्ने । प्रयतऽदक्षिणम् । नरम् । वर्मऽइव । स्यूतम् । परि । पासि । विश्वतः ।
स्वादुऽक्षद्मा । यः । वसतौ । स्योनऽकृत् । जीवऽयाजम् । यजते । सः । उपऽमा । दिवः ॥tvám ǀ agne ǀ práyata-dakṣiṇam ǀ náram ǀ várma-iva ǀ syūtám ǀ pári ǀ pāsi ǀ viśvátaḥ ǀ
svādu-kṣádmā ǀ yáḥ ǀ vasatáu ǀ syona-kṛ́t ǀ jīva-yājám ǀ yájate ǀ sáḥ ǀ upa-mā́ ǀ diváḥ ǁtvam ǀ agne ǀ prayata-dakṣiṇam ǀ naram ǀ varma-iva ǀ syūtam ǀ pari ǀ pāsi ǀ viśvataḥ ǀ
svādu-kṣadmā ǀ yaḥ ǀ vasatau ǀ syona-kṛt ǀ jīva-yājam ǀ yajate ǀ saḥ ǀ upa-mā ǀ divaḥ ǁ1.31.15 Aṣṭaka 1.2.34.5Anuvāka 1.7.15
-
Ṛk 16
इ॒माम॑ग्ने श॒रणिं॑ मीमृषो न इ॒ममध्वा॑नं॒ यमगा॑म दू॒रात् ।
आ॒पिः पि॒ता प्रम॑तिः सो॒म्यानां॒ भृमि॑रस्यृषि॒कृन्मर्त्या॑नां ॥इमाम् अग्ने शरणिम् मीमृषो न इमम् अध्वानं यम् अगाम दूरात् |
आपिः पिता प्रमतिः सोम्यानाम् भृमिर् अस्य् ऋषिकृन् मर्त्यानाम् ||imā́magne śaráṇim mīmṛṣo na imámádhvānam yámágāma dūrā́t ǀ
āpíḥ pitā́ prámatiḥ somyā́nām bhṛ́mirasyṛṣikṛ́nmártyānām ǁimām agne śaraṇim mīmṛṣo na imam adhvānaṃ yam agāma dūrāt |
āpiḥ pitā pramatiḥ somyānām bhṛmir asy ṛṣikṛn martyānām ||इ॒माम् । अ॒ग्ने॒ । श॒रणि॑म् । मी॒मृ॒षः॒ । नः॒ । इ॒मम् । अध्वा॑नम् । यम् । अगा॑म । दू॒रात् ।
आ॒पिः । पि॒ता । प्रऽम॑तिः । सो॒म्याना॑म् । भृमिः॑ । अ॒सि॒ । ऋ॒षि॒ऽकृत् । मर्त्या॑नाम् ॥इमाम् । अग्ने । शरणिम् । मीमृषः । नः । इमम् । अध्वानम् । यम् । अगाम । दूरात् ।
आपिः । पिता । प्रऽमतिः । सोम्यानाम् । भृमिः । असि । ऋषिऽकृत् । मर्त्यानाम् ॥imā́m ǀ agne ǀ śaráṇim ǀ mīmṛṣaḥ ǀ naḥ ǀ imám ǀ ádhvānam ǀ yám ǀ ágāma ǀ dūrā́t ǀ
āpíḥ ǀ pitā́ ǀ prá-matiḥ ǀ somyā́nām ǀ bhṛ́miḥ ǀ asi ǀ ṛṣi-kṛ́t ǀ mártyānām ǁimām ǀ agne ǀ śaraṇim ǀ mīmṛṣaḥ ǀ naḥ ǀ imam ǀ adhvānam ǀ yam ǀ agāma ǀ dūrāt ǀ
āpiḥ ǀ pitā ǀ pra-matiḥ ǀ somyānām ǀ bhṛmiḥ ǀ asi ǀ ṛṣi-kṛt ǀ martyānām ǁ1.31.16 Aṣṭaka 1.2.35.1Anuvāka 1.7.16
-
Ṛk 17
म॒नु॒ष्वद॑ग्ने अंगिर॒स्वदं॑गिरो ययाति॒वत्सद॑ने पूर्व॒वच्छु॑चे ।
अच्छ॑ या॒ह्या व॑हा॒ दैव्यं॒ जन॒मा सा॑दय ब॒र्हिषि॒ यक्षि॑ च प्रि॒यं ॥मनुष्वद् अग्ने अङ्गिरस्वद् अङ्गिरो ययातिवत् सदने पूर्ववच् छुचे |
अच्छ याह्य् आ वहा दैव्यं जनम् आ सादय बर्हिषि यक्षि च प्रियम् ||manuṣvádagne aṅgirasvádaṅgiro yayātivátsádane pūrvavácchuce ǀ
áccha yāhyā́ vahā dáivyam jánamā́ sādaya barhíṣi yákṣi ca priyám ǁmanuṣvad agne aṅgirasvad aṅgiro yayātivat sadane pūrvavac chuce |
accha yāhy ā vahā daivyaṃ janam ā sādaya barhiṣi yakṣi ca priyam ||म॒नु॒ष्वत् । अ॒ग्ने॒ । अ॒ङ्गि॒र॒स्वत् । अ॒ङ्गि॒रः॒ । य॒या॒ति॒ऽवत् । सद॑ने । पू॒र्व॒ऽवत् । शु॒चे॒ ।
अच्छ॑ । या॒हि॒ । आ । व॒ह॒ । दैव्य॑म् । जन॑म् । आ । सा॒द॒य॒ । ब॒र्हिषि॑ । यक्षि॑ । च॒ । प्रि॒यम् ॥मनुष्वत् । अग्ने । अङ्गिरस्वत् । अङ्गिरः । ययातिऽवत् । सदने । पूर्वऽवत् । शुचे ।
अच्छ । याहि । आ । वह । दैव्यम् । जनम् । आ । सादय । बर्हिषि । यक्षि । च । प्रियम् ॥manuṣvát ǀ agne ǀ aṅgirasvát ǀ aṅgiraḥ ǀ yayāti-vát ǀ sádane ǀ pūrva-vát ǀ śuce ǀ
áccha ǀ yāhi ǀ ā́ ǀ vaha ǀ dáivyam ǀ jánam ǀ ā́ ǀ sādaya ǀ barhíṣi ǀ yákṣi ǀ ca ǀ priyám ǁmanuṣvat ǀ agne ǀ aṅgirasvat ǀ aṅgiraḥ ǀ yayāti-vat ǀ sadane ǀ pūrva-vat ǀ śuce ǀ
accha ǀ yāhi ǀ ā ǀ vaha ǀ daivyam ǀ janam ǀ ā ǀ sādaya ǀ barhiṣi ǀ yakṣi ǀ ca ǀ priyam ǁ1.31.17 Aṣṭaka 1.2.35.2Anuvāka 1.7.17
-
Ṛk 18
ए॒तेना॑ग्ने॒ ब्रह्म॑णा वावृधस्व॒ शक्ती॑ वा॒ यत्ते॑ चकृ॒मा वि॒दा वा॑ ।
उ॒त प्र णे॑ष्य॒भि वस्यो॑ अ॒स्मान्त्सं नः॑ सृज सुम॒त्या वाज॑वत्या ॥एतेनाग्ने ब्रह्मणा वावृधस्व शक्ती वा यत् ते चकृमा विदा वा |
उत प्र णेष्य् अभि वस्यो अस्मान् सं नः सृज सुमत्या वाजवत्या ||eténāgne bráhmaṇā vāvṛdhasva śáktī vā yátte cakṛmā́ vidā́ vā ǀ
utá prá ṇeṣyabhí vásyo asmā́ntsám naḥ sṛja sumatyā́ vā́javatyā ǁetenāgne brahmaṇā vāvṛdhasva śaktī vā yat te cakṛmā vidā vā |
uta pra ṇeṣy abhi vasyo asmān saṃ naḥ sṛja sumatyā vājavatyā ||ए॒तेन॑ । अ॒ग्ने॒ । ब्रह्म॑णा । व॒वृ॒ध॒स्व॒ । शक्ती॑ । वा॒ । यत् । ते॒ । च॒कृ॒म । वि॒दा । वा॒ ।
उ॒त । प्र । ने॒षि॒ । अ॒भि । वस्यः॑ । अ॒स्मान् । सम् । नः॒ । सृ॒ज॒ । सु॒ऽम॒त्या । वाज॑ऽवत्या ॥एतेन । अग्ने । ब्रह्मणा । ववृधस्व । शक्ती । वा । यत् । ते । चकृम । विदा । वा ।
उत । प्र । नेषि । अभि । वस्यः । अस्मान् । सम् । नः । सृज । सुऽमत्या । वाजऽवत्या ॥eténa ǀ agne ǀ bráhmaṇā ǀ vavṛdhasva ǀ śáktī ǀ vā ǀ yát ǀ te ǀ cakṛmá ǀ vidā́ ǀ vā ǀ
utá ǀ prá ǀ neṣi ǀ abhí ǀ vásyaḥ ǀ asmā́n ǀ sám ǀ naḥ ǀ sṛja ǀ su-matyā́ ǀ vā́ja-vatyā ǁetena ǀ agne ǀ brahmaṇā ǀ vavṛdhasva ǀ śaktī ǀ vā ǀ yat ǀ te ǀ cakṛma ǀ vidā ǀ vā ǀ
uta ǀ pra ǀ neṣi ǀ abhi ǀ vasyaḥ ǀ asmān ǀ sam ǀ naḥ ǀ sṛja ǀ su-matyā ǀ vāja-vatyā ǁ1.31.18 Aṣṭaka 1.2.35.3Anuvāka 1.7.18
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.