Ṛk 1.31.14
Saṃhitā
त्वम॑ग्न उरु॒शंसा॑य वा॒घते॑ स्पा॒र्हं यद्रेक्णः॑ पर॒मं व॒नोषि॒ तत् ।
आ॒ध्रस्य॑ चि॒त्प्रम॑तिरुच्यसे पि॒ता प्र पाकं॒ शास्सि॒ प्र दिशो॑ वि॒दुष्ट॑रः ॥
त्वम् अग्न उरुशंसाय वाघते स्पार्हं यद् रेक्णः परमं वनोषि तत् |
आध्रस्य चित् प्रमतिर् उच्यसे पिता प्र पाकं शास्सि प्र दिशो विदुष्टरः ||
tvámagna uruśáṃsāya vāgháte spārhám yádrékṇaḥ paramám vanóṣi tát ǀ
ādhrásya citprámatirucyase pitā́ prá pā́kam śā́ssi prá díśo vidúṣṭaraḥ ǁ
tvam agna uruśaṃsāya vāghate spārhaṃ yad rekṇaḥ paramaṃ vanoṣi tat |
ādhrasya cit pramatir ucyase pitā pra pākaṃ śāssi pra diśo viduṣṭaraḥ ||
Padapāṭha
त्वम् । अ॒ग्ने॒ । उ॒रु॒ऽशंसा॑य । वा॒घते॑ । स्पा॒र्हम् । यत् । रेक्णः॑ । प॒र॒मम् । व॒नोषि॑ । तत् ।
आ॒ध्रस्य॑ । चि॒त् । प्रऽम॑तिः । उ॒च्य॒से॒ । पि॒ता । प्र । पाक॑म् । शास्सि॑ । प्र । दिशः॑ । वि॒दुःऽत॑रः ॥
त्वम् । अग्ने । उरुऽशंसाय । वाघते । स्पार्हम् । यत् । रेक्णः । परमम् । वनोषि । तत् ।
आध्रस्य । चित् । प्रऽमतिः । उच्यसे । पिता । प्र । पाकम् । शास्सि । प्र । दिशः । विदुःऽतरः ॥
tvám ǀ agne ǀ uru-śáṃsāya ǀ vāgháte ǀ spārhám ǀ yát ǀ rékṇaḥ ǀ paramám ǀ vanóṣi ǀ tát ǀ
ādhrásya ǀ cit ǀ prá-matiḥ ǀ ucyase ǀ pitā́ ǀ prá ǀ pā́kam ǀ śā́ssi ǀ prá ǀ díśaḥ ǀ vidúḥ-taraḥ ǁ
tvam ǀ agne ǀ uru-śaṃsāya ǀ vāghate ǀ spārham ǀ yat ǀ rekṇaḥ ǀ paramam ǀ vanoṣi ǀ tat ǀ
ādhrasya ǀ cit ǀ pra-matiḥ ǀ ucyase ǀ pitā ǀ pra ǀ pākam ǀ śāssi ǀ pra ǀ diśaḥ ǀ viduḥ-taraḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.031.14
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.2.34.04
- Maṇḍala · Anuvāka · Ṛk
- 01.07.014
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Hiraṇyastūpa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.