Ṛk 1.31.11
Saṃhitā
त्वाम॑ग्ने प्रथ॒ममा॒युमा॒यवे॑ दे॒वा अ॑कृण्व॒न्नहु॑षस्य वि॒श्पतिं॑ ।
इळा॑मकृण्व॒न्मनु॑षस्य॒ शास॑नीं पि॒तुर्यत्पु॒त्रो मम॑कस्य॒ जाय॑ते ॥
त्वाम् अग्ने प्रथमम् आयुम् आयवे देवा अकृण्वन् नहुषस्य विश्पतिम् |
इऌआम् अकृण्वन् मनुषस्य शासनीम् पितुर् यत् पुत्रो ममकस्य जायते ||
tvā́magne prathamámāyúmāyáve devā́ akṛṇvannáhuṣasya viśpátim ǀ
íḷāmakṛṇvanmánuṣasya śā́sanīm pitúryátputró mámakasya jā́yate ǁ
tvām agne prathamam āyum āyave devā akṛṇvan nahuṣasya viśpatim |
iḷām akṛṇvan manuṣasya śāsanīm pitur yat putro mamakasya jāyate ||
Padapāṭha
त्वाम् । अ॒ग्ने॒ । प्र॒थ॒मम् । आ॒युम् । आ॒यवे॑ । दे॒वाः । अ॒कृ॒ण्व॒न् । नहु॑षस्य । वि॒श्पति॑म् ।
इळा॑म् । अ॒कृ॒ण्व॒न् । मनु॑षस्य । शास॑नीम् । पि॒तुः । यत् । पु॒त्रः । मम॑कस्य । जाय॑ते ॥
त्वाम् । अग्ने । प्रथमम् । आयुम् । आयवे । देवाः । अकृण्वन् । नहुषस्य । विश्पतिम् ।
इळाम् । अकृण्वन् । मनुषस्य । शासनीम् । पितुः । यत् । पुत्रः । ममकस्य । जायते ॥
tvā́m ǀ agne ǀ prathamám ǀ āyúm ǀ āyáve ǀ devā́ḥ ǀ akṛṇvan ǀ náhuṣasya ǀ viśpátim ǀ
íḷām ǀ akṛṇvan ǀ mánuṣasya ǀ śā́sanīm ǀ pitúḥ ǀ yát ǀ putráḥ ǀ mámakasya ǀ jā́yate ǁ
tvām ǀ agne ǀ prathamam ǀ āyum ǀ āyave ǀ devāḥ ǀ akṛṇvan ǀ nahuṣasya ǀ viśpatim ǀ
iḷām ǀ akṛṇvan ǀ manuṣasya ǀ śāsanīm ǀ pituḥ ǀ yat ǀ putraḥ ǀ mamakasya ǀ jāyate ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.031.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.2.34.01
- Maṇḍala · Anuvāka · Ṛk
- 01.07.011
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Hiraṇyastūpa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.