Ṛk 1.31.9
Saṃhitā
त्वं नो॑ अग्ने पि॒त्रोरु॒पस्थ॒ आ दे॒वो दे॒वेष्व॑नवद्य॒ जागृ॑विः ।
त॒नू॒कृद्बो॑धि॒ प्रम॑तिश्च का॒रवे॒ त्वं क॑ल्याण॒ वसु॒ विश्व॒मोपि॑षे ॥
त्वं नो अग्ने पित्रोर् उपस्थ आ देवो देवेष्व् अनवद्य जागृविः |
तनूकृद् बोधि प्रमतिश् च कारवे त्वं कल्याण वसु विश्वम् ओपिषे ||
tvám no agne pitrórupástha ā́ devó devéṣvanavadya jā́gṛviḥ ǀ
tanūkṛ́dbodhi prámatiśca kāráve tvám kalyāṇa vásu víśvamópiṣe ǁ
tvaṃ no agne pitror upastha ā devo deveṣv anavadya jāgṛviḥ |
tanūkṛd bodhi pramatiś ca kārave tvaṃ kalyāṇa vasu viśvam opiṣe ||
Padapāṭha
त्वम् । नः॒ । अ॒ग्ने॒ । पि॒त्रोः । उ॒पऽस्थे॑ । आ । दे॒वः । दे॒वेषु॑ । अ॒न॒व॒द्य॒ । जागृ॑विः ।
त॒नू॒ऽकृत् । बो॒धि॒ । प्रऽम॑तिः । च॒ । का॒रवे॑ । त्वम् । क॒ल्या॒ण॒ । वसु॑ । विश्व॑म् । आ । ऊ॒पि॒षे॒ ॥
त्वम् । नः । अग्ने । पित्रोः । उपऽस्थे । आ । देवः । देवेषु । अनवद्य । जागृविः ।
तनूऽकृत् । बोधि । प्रऽमतिः । च । कारवे । त्वम् । कल्याण । वसु । विश्वम् । आ । ऊपिषे ॥
tvám ǀ naḥ ǀ agne ǀ pitróḥ ǀ upá-sthe ǀ ā́ ǀ deváḥ ǀ devéṣu ǀ anavadya ǀ jā́gṛviḥ ǀ
tanū-kṛ́t ǀ bodhi ǀ prá-matiḥ ǀ ca ǀ kāráve ǀ tvám ǀ kalyāṇa ǀ vásu ǀ víśvam ǀ ā́ ǀ ūpiṣe ǁ
tvam ǀ naḥ ǀ agne ǀ pitroḥ ǀ upa-sthe ǀ ā ǀ devaḥ ǀ deveṣu ǀ anavadya ǀ jāgṛviḥ ǀ
tanū-kṛt ǀ bodhi ǀ pra-matiḥ ǀ ca ǀ kārave ǀ tvam ǀ kalyāṇa ǀ vasu ǀ viśvam ǀ ā ǀ ūpiṣe ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.031.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.2.33.04
- Maṇḍala · Anuvāka · Ṛk
- 01.07.009
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Hiraṇyastūpa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.