Ṛk 1.31.12
Saṃhitā
त्वं नो॑ अग्ने॒ तव॑ देव पा॒युभि॑र्म॒घोनो॑ रक्ष त॒न्व॑श्च वंद्य ।
त्रा॒ता तो॒कस्य॒ तन॑ये॒ गवा॑म॒स्यनि॑मेषं॒ रक्ष॑माण॒स्तव॑ व्र॒ते ॥
त्वं नो अग्ने तव देव पायुभिर् मघोनो रक्ष तन्वश् च वन्द्य |
त्राता तोकस्य तनये गवाम् अस्य् अनिमेषं रक्षमाणस् तव व्रते ||
tvám no agne táva deva pāyúbhirmaghóno rakṣa tanváśca vandya ǀ
trātā́ tokásya tánaye gávāmasyánimeṣam rákṣamāṇastáva vraté ǁ
tvaṃ no agne tava deva pāyubhir maghono rakṣa tanvaś ca vandya |
trātā tokasya tanaye gavām asy animeṣaṃ rakṣamāṇas tava vrate ||
Padapāṭha
त्वम् । नः॒ । अ॒ग्ने॒ । तव॑ । दे॒व॒ । पा॒युऽभिः॑ । म॒घोनः॑ । र॒क्ष॒ । त॒न्वः॑ । च॒ । व॒न्द्य॒ ।
त्रा॒ता । तो॒कस्य॑ । तन॑ये । गवा॑म् । अ॒सि॒ । अनि॑ऽमेषम् । रक्ष॑माणः । तव॑ । व्र॒ते ॥
त्वम् । नः । अग्ने । तव । देव । पायुऽभिः । मघोनः । रक्ष । तन्वः । च । वन्द्य ।
त्राता । तोकस्य । तनये । गवाम् । असि । अनिऽमेषम् । रक्षमाणः । तव । व्रते ॥
tvám ǀ naḥ ǀ agne ǀ táva ǀ deva ǀ pāyú-bhiḥ ǀ maghónaḥ ǀ rakṣa ǀ tanváḥ ǀ ca ǀ vandya ǀ
trātā́ ǀ tokásya ǀ tánaye ǀ gávām ǀ asi ǀ áni-meṣam ǀ rákṣamāṇaḥ ǀ táva ǀ vraté ǁ
tvam ǀ naḥ ǀ agne ǀ tava ǀ deva ǀ pāyu-bhiḥ ǀ maghonaḥ ǀ rakṣa ǀ tanvaḥ ǀ ca ǀ vandya ǀ
trātā ǀ tokasya ǀ tanaye ǀ gavām ǀ asi ǀ ani-meṣam ǀ rakṣamāṇaḥ ǀ tava ǀ vrate ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.031.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.2.34.02
- Maṇḍala · Anuvāka · Ṛk
- 01.07.012
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Hiraṇyastūpa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.