Sūkta 23
- Devatā देवता
- 1: Vāyu; 2, 3: Indra, Vāyu; 4-6: Mitra, Varuṇa; 7-9: Indra Marutvat; 10-12: Viśvedevās; 13-15: Pūṣan; 16-22: Apas; 23: Apas (A); Agni (B); 24: Agni
- Ṛṣi ऋषि
- Medhātithi Kāṇva
- Chandas छन्दस्
- Gāyatrī, Anuṣṭubh, Pura-Uṣṇih, Pratiṣṭhā
Metres by ṛk
1st set of styles gāyatrī (3-11, 13-15, 17); nicṛdgāyatrī (1, 12, 16, 18); anuṣṭup (20, 22-24); pipīlikāmadhyānicṛdgāyatrī (2); purauṣṇik (19); pratiṣṭhāgāyatrī (21)
2nd set of styles gāyatrī (1-18); anuṣṭubh (20, 22-24); pura-uṣṇih (19); pratiṣṭhā (21)
-
Ṛk 1
ती॒व्राः सोमा॑स॒ आ ग॑ह्या॒शीर्वं॑तः सु॒ता इ॒मे ।
वायो॒ तान्प्रस्थि॑तान्पिब ॥तीव्राः सोमास आ गह्य् आशीर्वन्तः सुता इमे |
वायो तान् प्रस्थितान् पिब ||tīvrā́ḥ sómāsa ā́ gahyāśī́rvantaḥ sutā́ imé ǀ
vā́yo tā́nprásthitānpiba ǁtīvrāḥ somāsa ā gahy āśīrvantaḥ sutā ime |
vāyo tān prasthitān piba ||ती॒व्राः । सोमा॑सः । आ । ग॒हि॒ । आ॒शीःऽव॑न्तः । सु॒ताः । इ॒मे ।
वायो॒ इति॑ । तान् । प्रऽस्थि॑तान् । पि॒ब॒ ॥तीव्राः । सोमासः । आ । गहि । आशीःऽवन्तः । सुताः । इमे ।
वायो इति । तान् । प्रऽस्थितान् । पिब ॥tīvrā́ḥ ǀ sómāsaḥ ǀ ā́ ǀ gahi ǀ āśī́ḥ-vantaḥ ǀ sutā́ḥ ǀ imé ǀ
vā́yo íti ǀ tā́n ǀ prá-sthitān ǀ piba ǁtīvrāḥ ǀ somāsaḥ ǀ ā ǀ gahi ǀ āśīḥ-vantaḥ ǀ sutāḥ ǀ ime ǀ
vāyo iti ǀ tān ǀ pra-sthitān ǀ piba ǁ1.23.1 Aṣṭaka 1.2.8.1Anuvāka 1.5.54
-
Ṛk 2
उ॒भा दे॒वा दि॑वि॒स्पृशें॑द्रवा॒यू ह॑वामहे ।
अ॒स्य सोम॑स्य पी॒तये॑ ॥उभा देवा दिविस्पृशेन्द्रवायू हवामहे |
अस्य सोमस्य पीतये ||ubhā́ devā́ divispṛ́śendravāyū́ havāmahe ǀ
asyá sómasya pītáye ǁubhā devā divispṛśendravāyū havāmahe |
asya somasya pītaye ||उ॒भा । दे॒वा । दि॒वि॒ऽस्पृशा॑ । इ॒न्द्र॒वा॒यू इति॑ । ह॒वा॒म॒हे॒ ।
अ॒स्य । सोम॑स्य । पी॒तये॑ ॥उभा । देवा । दिविऽस्पृशा । इन्द्रवायू इति । हवामहे ।
अस्य । सोमस्य । पीतये ॥ubhā́ ǀ devā́ ǀ divi-spṛ́śā ǀ indravāyū́ íti ǀ havāmahe ǀ
asyá ǀ sómasya ǀ pītáye ǁubhā ǀ devā ǀ divi-spṛśā ǀ indravāyū iti ǀ havāmahe ǀ
asya ǀ somasya ǀ pītaye ǁ1.23.2 Aṣṭaka 1.2.8.2Anuvāka 1.5.55
-
Ṛk 3
इं॒द्र॒वा॒यू म॑नो॒जुवा॒ विप्रा॑ हवंत ऊ॒तये॑ ।
स॒ह॒स्रा॒क्षा धि॒यस्पती॑ ॥इन्द्रवायू मनोजुवा विप्रा हवन्त ऊतये |
सहस्राक्षा धियस् पती ||indravāyū́ manojúvā víprā havanta ūtáye ǀ
sahasrākṣā́ dhiyáspátī ǁindravāyū manojuvā viprā havanta ūtaye |
sahasrākṣā dhiyas patī ||इ॒न्द्र॒वा॒यू इति॑ । म॒नः॒ऽजुवा॑ । विप्राः॑ । ह॒व॒न्ते॒ । ऊ॒तये॑ ।
स॒ह॒स्र॒ऽअ॒क्षा । धि॒यः । पती॒ इति॑ ॥इन्द्रवायू इति । मनःऽजुवा । विप्राः । हवन्ते । ऊतये ।
सहस्रऽअक्षा । धियः । पती इति ॥indravāyū́ íti ǀ manaḥ-júvā ǀ víprāḥ ǀ havante ǀ ūtáye ǀ
sahasra-akṣā́ ǀ dhiyáḥ ǀ pátī íti ǁindravāyū iti ǀ manaḥ-juvā ǀ viprāḥ ǀ havante ǀ ūtaye ǀ
sahasra-akṣā ǀ dhiyaḥ ǀ patī iti ǁ1.23.3 Aṣṭaka 1.2.8.3Anuvāka 1.5.56
-
Ṛk 4
मि॒त्रं व॒यं ह॑वामहे॒ वरु॑णं॒ सोम॑पीतये ।
ज॒ज्ञा॒ना पू॒तद॑क्षसा ॥मित्रं वयं हवामहे वरुणं सोमपीतये |
जज्ञाना पूतदक्षसा ||mitrám vayám havāmahe váruṇam sómapītaye ǀ
jajñānā́ pūtádakṣasā ǁmitraṃ vayaṃ havāmahe varuṇaṃ somapītaye |
jajñānā pūtadakṣasā ||मि॒त्रम् । व॒यम् । ह॒वा॒म॒हे॒ । वरु॑णम् । सोम॑ऽपीतये ।
ज॒ज्ञा॒ना । पू॒तऽद॑क्षसा ॥मित्रम् । वयम् । हवामहे । वरुणम् । सोमऽपीतये ।
जज्ञाना । पूतऽदक्षसा ॥mitrám ǀ vayám ǀ havāmahe ǀ váruṇam ǀ sóma-pītaye ǀ
jajñānā́ ǀ pūtá-dakṣasā ǁmitram ǀ vayam ǀ havāmahe ǀ varuṇam ǀ soma-pītaye ǀ
jajñānā ǀ pūta-dakṣasā ǁ1.23.4 Aṣṭaka 1.2.8.4Anuvāka 1.5.57
-
Ṛk 5
ऋ॒तेन॒ यावृ॑ता॒वृधा॑वृ॒तस्य॒ ज्योति॑ष॒स्पती॑ ।
ता मि॒त्रावरु॑णा हुवे ॥ऋतेन याव् ऋतावृधाव् ऋतस्य ज्योतिषस् पती |
ता मित्रावरुणा हुवे ||ṛténa yā́vṛtāvṛ́dhāvṛtásya jyótiṣaspátī ǀ
tā́ mitrā́váruṇā huve ǁṛtena yāv ṛtāvṛdhāv ṛtasya jyotiṣas patī |
tā mitrāvaruṇā huve ||ऋ॒तेन॑ । यौ । ऋ॒त॒ऽवृधौ॑ । ऋ॒तस्य॑ । ज्योति॑षः । पती॒ इति॑ ।
ता । मि॒त्रावरु॑णा । हु॒वे॒ ॥ऋतेन । यौ । ऋतऽवृधौ । ऋतस्य । ज्योतिषः । पती इति ।
ता । मित्रावरुणा । हुवे ॥ṛténa ǀ yáu ǀ ṛta-vṛ́dhau ǀ ṛtásya ǀ jyótiṣaḥ ǀ pátī íti ǀ
tā́ ǀ mitrā́váruṇā ǀ huve ǁṛtena ǀ yau ǀ ṛta-vṛdhau ǀ ṛtasya ǀ jyotiṣaḥ ǀ patī iti ǀ
tā ǀ mitrāvaruṇā ǀ huve ǁ1.23.5 Aṣṭaka 1.2.8.5Anuvāka 1.5.58
-
Ṛk 6
वरु॑णः प्रावि॒ता भु॑वन्मि॒त्रो विश्वा॑भिरू॒तिभिः॑ ।
कर॑तां नः सु॒राध॑सः ॥वरुणः प्राविता भुवन् मित्रो विश्वाभिर् ऊतिभिः |
करतां नः सुराधसः ||váruṇaḥ prāvitā́ bhuvanmitró víśvābhirūtíbhiḥ ǀ
káratām naḥ surā́dhasaḥ ǁvaruṇaḥ prāvitā bhuvan mitro viśvābhir ūtibhiḥ |
karatāṃ naḥ surādhasaḥ ||वरु॑णः । प्र॒ऽअ॒वि॒ता । भु॒व॒त् । मि॒त्रः । विश्वा॑भिः । ऊ॒तिऽभिः॑ ।
कर॑ताम् । नः॒ । सु॒ऽराध॑सः ॥वरुणः । प्रऽअविता । भुवत् । मित्रः । विश्वाभिः । ऊतिऽभिः ।
करताम् । नः । सुऽराधसः ॥váruṇaḥ ǀ pra-avitā́ ǀ bhuvat ǀ mitráḥ ǀ víśvābhiḥ ǀ ūtí-bhiḥ ǀ
káratām ǀ naḥ ǀ su-rā́dhasaḥ ǁvaruṇaḥ ǀ pra-avitā ǀ bhuvat ǀ mitraḥ ǀ viśvābhiḥ ǀ ūti-bhiḥ ǀ
karatām ǀ naḥ ǀ su-rādhasaḥ ǁ1.23.6 Aṣṭaka 1.2.9.1Anuvāka 1.5.59
-
Ṛk 7
म॒रुत्वं॑तं हवामह॒ इंद्र॒मा सोम॑पीतये ।
स॒जूर्ग॒णेन॑ तृंपतु ॥मरुत्वन्तं हवामह इन्द्रम् आ सोमपीतये |
सजूर् गणेन तृम्पतु ||marútvantam havāmaha índramā́ sómapītaye ǀ
sajū́rgaṇéna tṛmpatu ǁmarutvantaṃ havāmaha indram ā somapītaye |
sajūr gaṇena tṛmpatu ||म॒रुत्व॑न्तम् । ह॒वा॒म॒हे॒ । इन्द्र॑म् । आ । सोम॑ऽपीतये ।
स॒ऽजूः । ग॒णेन॑ । तृ॒म्प॒तु॒ ॥मरुत्वन्तम् । हवामहे । इन्द्रम् । आ । सोमऽपीतये ।
सऽजूः । गणेन । तृम्पतु ॥marútvantam ǀ havāmahe ǀ índram ǀ ā́ ǀ sóma-pītaye ǀ
sa-jū́ḥ ǀ gaṇéna ǀ tṛmpatu ǁmarutvantam ǀ havāmahe ǀ indram ǀ ā ǀ soma-pītaye ǀ
sa-jūḥ ǀ gaṇena ǀ tṛmpatu ǁ1.23.7 Aṣṭaka 1.2.9.2Anuvāka 1.5.60
-
Ṛk 8
इंद्र॑ज्येष्ठा॒ मरु॑द्गणा॒ देवा॑सः॒ पूष॑रातयः ।
विश्वे॒ मम॑ श्रुता॒ हवं॑ ॥इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः |
विश्वे मम श्रुता हवम् ||índrajyeṣṭhā márudgaṇā dévāsaḥ pū́ṣarātayaḥ ǀ
víśve máma śrutā hávam ǁindrajyeṣṭhā marudgaṇā devāsaḥ pūṣarātayaḥ |
viśve mama śrutā havam ||इन्द्र॑ऽज्येष्ठाः । मरु॑त्ऽगणाः । देवा॑सः । पूष॑ऽरातयः ।
विश्वे॑ । मम॑ । श्रु॒त॒ । हव॑म् ॥इन्द्रऽज्येष्ठाः । मरुत्ऽगणाः । देवासः । पूषऽरातयः ।
विश्वे । मम । श्रुत । हवम् ॥índra-jyeṣṭhāḥ ǀ márut-gaṇāḥ ǀ dévāsaḥ ǀ pū́ṣa-rātayaḥ ǀ
víśve ǀ máma ǀ śruta ǀ hávam ǁindra-jyeṣṭhāḥ ǀ marut-gaṇāḥ ǀ devāsaḥ ǀ pūṣa-rātayaḥ ǀ
viśve ǀ mama ǀ śruta ǀ havam ǁ1.23.8 Aṣṭaka 1.2.9.3Anuvāka 1.5.61
-
Ṛk 9
ह॒त वृ॒त्रं सु॑दानव॒ इंद्रे॑ण॒ सह॑सा यु॒जा ।
मा नो॑ दुः॒शंस॑ ईशत ॥हत वृत्रं सुदानव इन्द्रेण सहसा युजा |
मा नो दुःशंस ईशत ||hatá vṛtrám sudānava índreṇa sáhasā yujā́ ǀ
mā́ no duḥśáṃsa īśata ǁhata vṛtraṃ sudānava indreṇa sahasā yujā |
mā no duḥśaṃsa īśata ||ह॒त । वृ॒त्रम् । सु॒ऽदा॒न॒वः॒ । इन्द्रे॑ण । सह॑सा । यु॒जा ।
मा । नः॒ । दुः॒ऽशंसः॑ । ई॒श॒त॒ ॥हत । वृत्रम् । सुऽदानवः । इन्द्रेण । सहसा । युजा ।
मा । नः । दुःऽशंसः । ईशत ॥hatá ǀ vṛtrám ǀ su-dānavaḥ ǀ índreṇa ǀ sáhasā ǀ yujā́ ǀ
mā́ ǀ naḥ ǀ duḥ-śáṃsaḥ ǀ īśata ǁhata ǀ vṛtram ǀ su-dānavaḥ ǀ indreṇa ǀ sahasā ǀ yujā ǀ
mā ǀ naḥ ǀ duḥ-śaṃsaḥ ǀ īśata ǁ1.23.9 Aṣṭaka 1.2.9.4Anuvāka 1.5.62
-
Ṛk 10
विश्वां॑दे॒वान्ह॑वामहे म॒रुतः॒ सोम॑पीतये ।
उ॒ग्रा हि पृश्नि॑मातरः ॥विश्वान् देवान् हवामहे मरुतः सोमपीतये |
उग्रा हि पृश्निमातरः ||víśvāndevā́nhavāmahe marútaḥ sómapītaye ǀ
ugrā́ hí pṛ́śnimātaraḥ ǁviśvān devān havāmahe marutaḥ somapītaye |
ugrā hi pṛśnimātaraḥ ||विश्वा॑न् । दे॒वान् । ह॒वा॒म॒हे॒ । म॒रुतः॑ । सोम॑ऽपीतये ।
उ॒ग्राः । हि । पृश्नि॑ऽमातरः ॥विश्वान् । देवान् । हवामहे । मरुतः । सोमऽपीतये ।
उग्राः । हि । पृश्निऽमातरः ॥víśvān ǀ devā́n ǀ havāmahe ǀ marútaḥ ǀ sóma-pītaye ǀ
ugrā́ḥ ǀ hí ǀ pṛ́śni-mātaraḥ ǁviśvān ǀ devān ǀ havāmahe ǀ marutaḥ ǀ soma-pītaye ǀ
ugrāḥ ǀ hi ǀ pṛśni-mātaraḥ ǁ1.23.10 Aṣṭaka 1.2.9.5Anuvāka 1.5.63
-
Ṛk 11
जय॑तामिव तन्य॒तुर्म॒रुता॑मेति धृष्णु॒या ।
यच्छुभं॑ या॒थना॑ नरः ॥जयताम् इव तन्यतुर् मरुताम् एति धृष्णुया |
यच् छुभं याथना नरः ||jáyatāmiva tanyatúrmarútāmeti dhṛṣṇuyā́ ǀ
yácchúbham yāthánā naraḥ ǁjayatām iva tanyatur marutām eti dhṛṣṇuyā |
yac chubhaṃ yāthanā naraḥ ||जय॑ताम्ऽइव । त॒न्य॒तुः । म॒रुता॑म् । ए॒ति॒ । धृ॒ष्णु॒ऽया ।
यत् । शुभ॑म् । या॒थन॑ । न॒रः॒ ॥जयताम्ऽइव । तन्यतुः । मरुताम् । एति । धृष्णुऽया ।
यत् । शुभम् । याथन । नरः ॥jáyatām-iva ǀ tanyatúḥ ǀ marútām ǀ eti ǀ dhṛṣṇu-yā́ ǀ
yát ǀ śúbham ǀ yāthána ǀ naraḥ ǁjayatām-iva ǀ tanyatuḥ ǀ marutām ǀ eti ǀ dhṛṣṇu-yā ǀ
yat ǀ śubham ǀ yāthana ǀ naraḥ ǁ1.23.11 Aṣṭaka 1.2.10.1Anuvāka 1.5.64
-
Ṛk 12
ह॒स्का॒राद्वि॒द्युत॒स्पर्यतो॑ जा॒ता अ॑वंतु नः ।
म॒रुतो॑ मृळयंतु नः ॥हस्काराद् विद्युतस् पर्य् अतो जाता अवन्तु नः |
मरुतो मृऌअयन्तु नः ||haskārā́dvidyútaspáryáto jātā́ avantu naḥ ǀ
marúto mṛḷayantu naḥ ǁhaskārād vidyutas pary ato jātā avantu naḥ |
maruto mṛḷayantu naḥ ||ह॒स्का॒रात् । वि॒ऽद्युतः॑ । परि॑ । अतः॑ । जा॒ताः । अ॒व॒न्तु॒ । नः॒ ।
म॒रुतः॑ । मृ॒ळ॒य॒न्तु॒ । नः॒ ॥हस्कारात् । विऽद्युतः । परि । अतः । जाताः । अवन्तु । नः ।
मरुतः । मृळयन्तु । नः ॥haskārā́t ǀ vi-dyútaḥ ǀ pári ǀ átaḥ ǀ jātā́ḥ ǀ avantu ǀ naḥ ǀ
marútaḥ ǀ mṛḷayantu ǀ naḥ ǁhaskārāt ǀ vi-dyutaḥ ǀ pari ǀ ataḥ ǀ jātāḥ ǀ avantu ǀ naḥ ǀ
marutaḥ ǀ mṛḷayantu ǀ naḥ ǁ1.23.12 Aṣṭaka 1.2.10.2Anuvāka 1.5.65
-
Ṛk 13
आ पू॑षंचि॒त्रब॑र्हिष॒माघृ॑णे ध॒रुणं॑ दि॒वः ।
आजा॑ न॒ष्टं यथा॑ प॒शुं ॥आ पूषञ् चित्रबर्हिषम् आघृणे धरुणं दिवः |
आजा नष्टं यथा पशुम् ||ā́ pūṣañcitrábarhiṣamā́ghṛṇe dharúṇam diváḥ ǀ
ā́jā naṣṭám yáthā paśúm ǁā pūṣañ citrabarhiṣam āghṛṇe dharuṇaṃ divaḥ |
ājā naṣṭaṃ yathā paśum ||आ । पू॒ष॒न् । चि॒त्रऽब॑र्हिषम् । आघृ॑णे । ध॒रुण॑म् । दि॒वः ।
आ । अ॒ज॒ । न॒ष्टम् । यथा॑ । प॒शुम् ॥आ । पूषन् । चित्रऽबर्हिषम् । आघृणे । धरुणम् । दिवः ।
आ । अज । नष्टम् । यथा । पशुम् ॥ā́ ǀ pūṣan ǀ citrá-barhiṣam ǀ ā́ghṛṇe ǀ dharúṇam ǀ diváḥ ǀ
ā́ ǀ aja ǀ naṣṭám ǀ yáthā ǀ paśúm ǁā ǀ pūṣan ǀ citra-barhiṣam ǀ āghṛṇe ǀ dharuṇam ǀ divaḥ ǀ
ā ǀ aja ǀ naṣṭam ǀ yathā ǀ paśum ǁ1.23.13 Aṣṭaka 1.2.10.3Anuvāka 1.5.66
-
Ṛk 14
पू॒षा राजा॑न॒माघृ॑णि॒रप॑गूळ्हं॒ गुहा॑ हि॒तं ।
अविं॑दच्चि॒त्रब॑र्हिषं ॥पूषा राजानम् आघृणिर् अपगूऌहं गुहा हितम् |
अविन्दच् चित्रबर्हिषम् ||pūṣā́ rā́jānamā́ghṛṇirápagūḷham gúhā hitám ǀ
ávindaccitrábarhiṣam ǁpūṣā rājānam āghṛṇir apagūḷhaṃ guhā hitam |
avindac citrabarhiṣam ||पू॒षा । राजा॑नम् । आघृ॑णिः । अप॑ऽगूळ्हम् । गुहा॑ । हि॒तम् ।
अवि॑न्दत् । चि॒त्रऽब॑र्हिषम् ॥पूषा । राजानम् । आघृणिः । अपऽगूळ्हम् । गुहा । हितम् ।
अविन्दत् । चित्रऽबर्हिषम् ॥pūṣā́ ǀ rā́jānam ǀ ā́ghṛṇiḥ ǀ ápa-gūḷham ǀ gúhā ǀ hitám ǀ
ávindat ǀ citrá-barhiṣam ǁpūṣā ǀ rājānam ǀ āghṛṇiḥ ǀ apa-gūḷham ǀ guhā ǀ hitam ǀ
avindat ǀ citra-barhiṣam ǁ1.23.14 Aṣṭaka 1.2.10.4Anuvāka 1.5.67
-
Ṛk 15
उ॒तो स मह्य॒मिंदु॑भिः॒ षड्यु॒क्ताँ अ॑नु॒सेषि॑धत् ।
गोभि॒र्यवं॒ न च॑र्कृषत् ॥उतो स मह्यम् इन्दुभिः षड् युक्तां अनुसेषिधत् |
गोभिर् यवं न चर्कृषत् ||utó sá máhyamíndubhiḥ ṣáḍyuktā́m̐ anuséṣidhat ǀ
góbhiryávam ná carkṛṣat ǁuto sa mahyam indubhiḥ ṣaḍ yuktāṃ anuseṣidhat |
gobhir yavaṃ na carkṛṣat ||उ॒तो इति॑ । सः । मह्य॑म् । इन्दु॑ऽभिः । षट् । यु॒क्तान् । अ॒नु॒ऽसेसि॑धत् ।
गोभिः॑ । यव॑म् । न । च॒र्कृ॒ष॒त् ॥उतो इति । सः । मह्यम् । इन्दुऽभिः । षट् । युक्तान् । अनुऽसेसिधत् ।
गोभिः । यवम् । न । चर्कृषत् ॥utó íti ǀ sáḥ ǀ máhyam ǀ índu-bhiḥ ǀ ṣáṭ ǀ yuktā́n ǀ anu-sésidhat ǀ
góbhiḥ ǀ yávam ǀ ná ǀ carkṛṣat ǁuto iti ǀ saḥ ǀ mahyam ǀ indu-bhiḥ ǀ ṣaṭ ǀ yuktān ǀ anu-sesidhat ǀ
gobhiḥ ǀ yavam ǀ na ǀ carkṛṣat ǁ1.23.15 Aṣṭaka 1.2.10.5Anuvāka 1.5.68
-
Ṛk 16
अं॒बयो॑ यं॒त्यध्व॑भिर्जा॒मयो॑ अध्वरीय॒तां ।
पृं॒च॒तीर्मधु॑ना॒ पयः॑ ॥अम्बयो यन्त्य् अध्वभिर् जामयो अध्वरीयताम् |
पृञ्चतीर् मधुना पयः ||ambáyo yantyádhvabhirjāmáyo adhvarīyatā́m ǀ
pṛñcatī́rmádhunā páyaḥ ǁambayo yanty adhvabhir jāmayo adhvarīyatām |
pṛñcatīr madhunā payaḥ ||अ॒म्बयः॑ । य॒न्ति॒ । अध्व॑ऽभिः । जा॒मयः॑ । अ॒ध्व॒रि॒ऽय॒ताम् ।
पृ॒ञ्च॒तीः । मधु॑ना । पयः॑ ॥अम्बयः । यन्ति । अध्वऽभिः । जामयः । अध्वरिऽयताम् ।
पृञ्चतीः । मधुना । पयः ॥ambáyaḥ ǀ yanti ǀ ádhva-bhiḥ ǀ jāmáyaḥ ǀ adhvari-yatā́m ǀ
pṛñcatī́ḥ ǀ mádhunā ǀ páyaḥ ǁambayaḥ ǀ yanti ǀ adhva-bhiḥ ǀ jāmayaḥ ǀ adhvari-yatām ǀ
pṛñcatīḥ ǀ madhunā ǀ payaḥ ǁ1.23.16 Aṣṭaka 1.2.11.1Anuvāka 1.5.69
-
Ṛk 17
अ॒मूर्या उप॒ सूर्ये॒ याभि॑र्वा॒ सूर्यः॑ स॒ह ।
ता नो॑ हिन्वंत्वध्व॒रं ॥अमूर् या उप सूर्ये याभिर् वा सूर्यः सह |
ता नो हिन्वन्त्व् अध्वरम् ||amū́ryā́ úpa sū́rye yā́bhirvā sū́ryaḥ sahá ǀ
tā́ no hinvantvadhvarám ǁamūr yā upa sūrye yābhir vā sūryaḥ saha |
tā no hinvantv adhvaram ||अ॒मूः । याः । उप॑ । सूर्ये॑ । याभिः॑ । वा॒ । सूर्यः॑ । स॒ह ।
ताः । नः॒ । हि॒न्व॒न्तु॒ । अ॒ध्व॒रम् ॥अमूः । याः । उप । सूर्ये । याभिः । वा । सूर्यः । सह ।
ताः । नः । हिन्वन्तु । अध्वरम् ॥amū́ḥ ǀ yā́ḥ ǀ úpa ǀ sū́rye ǀ yā́bhiḥ ǀ vā ǀ sū́ryaḥ ǀ sahá ǀ
tā́ḥ ǀ naḥ ǀ hinvantu ǀ adhvarám ǁamūḥ ǀ yāḥ ǀ upa ǀ sūrye ǀ yābhiḥ ǀ vā ǀ sūryaḥ ǀ saha ǀ
tāḥ ǀ naḥ ǀ hinvantu ǀ adhvaram ǁ1.23.17 Aṣṭaka 1.2.11.2Anuvāka 1.5.70
-
Ṛk 18
अ॒पो दे॒वीरुप॑ ह्वये॒ यत्र॒ गावः॒ पिबं॑ति नः ।
सिंधु॑भ्यः॒ कर्त्वं॑ ह॒विः ॥अपो देवीर् उप ह्वये यत्र गावः पिबन्ति नः |
सिन्धुभ्यः कर्त्वं हविः ||apó devī́rúpa hvaye yátra gā́vaḥ píbanti naḥ ǀ
síndhubhyaḥ kártvam havíḥ ǁapo devīr upa hvaye yatra gāvaḥ pibanti naḥ |
sindhubhyaḥ kartvaṃ haviḥ ||अ॒पः । दे॒वीः । उप॑ । ह्व॒ये॒ । यत्र॑ । गावः॑ । पिब॑न्ति । नः॒ ।
सिन्धु॑ऽभ्यः । कर्त्व॑म् । ह॒विः ॥अपः । देवीः । उप । ह्वये । यत्र । गावः । पिबन्ति । नः ।
सिन्धुऽभ्यः । कर्त्वम् । हविः ॥apáḥ ǀ devī́ḥ ǀ úpa ǀ hvaye ǀ yátra ǀ gā́vaḥ ǀ píbanti ǀ naḥ ǀ
síndhu-bhyaḥ ǀ kártvam ǀ havíḥ ǁapaḥ ǀ devīḥ ǀ upa ǀ hvaye ǀ yatra ǀ gāvaḥ ǀ pibanti ǀ naḥ ǀ
sindhu-bhyaḥ ǀ kartvam ǀ haviḥ ǁ1.23.18 Aṣṭaka 1.2.11.3Anuvāka 1.5.71
-
Ṛk 19
अ॒प्स्वं१॒॑तर॒मृत॑म॒प्सु भे॑ष॒जम॒पामु॒त प्रश॑स्तये ।
देवा॒ भव॑त वा॒जिनः॑ ॥अप्स्व् अन्तर् अमृतम् अप्सु भेषजम् अपाम् उत प्रशस्तये |
देवा भवत वाजिनः ||apsvántáramṛ́tamapsú bheṣajámapā́mutá práśastaye ǀ
dévā bhávata vājínaḥ ǁapsv antar amṛtam apsu bheṣajam apām uta praśastaye |
devā bhavata vājinaḥ ||अ॒प्ऽसु । अ॒न्तः । अ॒मृत॑म् । अ॒प्ऽसु । भे॒ष॒जम् । अ॒पाम् । उ॒त । प्रऽश॑स्तये ।
देवाः॑ । भव॑त । वा॒जिनः॑ ॥अप्ऽसु । अन्तः । अमृतम् । अप्ऽसु । भेषजम् । अपाम् । उत । प्रऽशस्तये ।
देवाः । भवत । वाजिनः ॥ap-sú ǀ antáḥ ǀ amṛ́tam ǀ ap-sú ǀ bheṣajám ǀ apā́m ǀ utá ǀ prá-śastaye ǀ
dévāḥ ǀ bhávata ǀ vājínaḥ ǁap-su ǀ antaḥ ǀ amṛtam ǀ ap-su ǀ bheṣajam ǀ apām ǀ uta ǀ pra-śastaye ǀ
devāḥ ǀ bhavata ǀ vājinaḥ ǁ1.23.19 Aṣṭaka 1.2.11.4Anuvāka 1.5.72
-
Ṛk 20
अ॒प्सु मे॒ सोमो॑ अब्रवीदं॒तर्विश्वा॑नि भेष॒जा ।
अ॒ग्निं च॑ वि॒श्वशं॑भुव॒माप॑श्च वि॒श्वभे॑षजीः ॥अप्सु मे सोमो अब्रवीद् अन्तर् विश्वानि भेषजा |
अग्निं च विश्वशम्भुवम् आपश् च विश्वभेषजीः ||apsú me sómo abravīdantárvíśvāni bheṣajā́ ǀ
agním ca viśváśambhuvamā́paśca viśvábheṣajīḥ ǁapsu me somo abravīd antar viśvāni bheṣajā |
agniṃ ca viśvaśambhuvam āpaś ca viśvabheṣajīḥ ||अ॒प्ऽसु । मे॒ । सोमः॑ । अ॒ब्र॒वी॒त् । अ॒न्तः । विश्वा॑नि । भे॒ष॒जा ।
अ॒ग्निम् । च॒ । वि॒श्वऽश॑म्भुवम् । आपः॑ । च॒ । वि॒श्वऽभे॑षजीः ॥अप्ऽसु । मे । सोमः । अब्रवीत् । अन्तः । विश्वानि । भेषजा ।
अग्निम् । च । विश्वऽशम्भुवम् । आपः । च । विश्वऽभेषजीः ॥ap-sú ǀ me ǀ sómaḥ ǀ abravīt ǀ antáḥ ǀ víśvāni ǀ bheṣajā́ ǀ
agním ǀ ca ǀ viśvá-śambhuvam ǀ ā́paḥ ǀ ca ǀ viśvá-bheṣajīḥ ǁap-su ǀ me ǀ somaḥ ǀ abravīt ǀ antaḥ ǀ viśvāni ǀ bheṣajā ǀ
agnim ǀ ca ǀ viśva-śambhuvam ǀ āpaḥ ǀ ca ǀ viśva-bheṣajīḥ ǁ1.23.20 Aṣṭaka 1.2.11.5Anuvāka 1.5.73
-
Ṛk 21
आपः॑ पृणी॒त भे॑ष॒जं वरू॑थं त॒न्वे॒३॒॑ मम॑ ।
ज्योक् च॒ सूर्यं॑ दृ॒शे ॥आपः पृणीत भेषजं वरूथं तन्वे मम |
ज्योक् च सूर्यं दृशे ||ā́paḥ pṛṇītá bheṣajám várūtham tanvé máma ǀ
jyók ca sū́ryam dṛśé ǁāpaḥ pṛṇīta bheṣajaṃ varūthaṃ tanve mama |
jyok ca sūryaṃ dṛśe ||आपः॑ । पृ॒णी॒त । भे॒ष॒जम् । वरू॑थम् । त॒न्वे॑ । मम॑ ।
ज्योक् । च॒ । सूर्य॑म् । दृ॒शे ॥आपः । पृणीत । भेषजम् । वरूथम् । तन्वे । मम ।
ज्योक् । च । सूर्यम् । दृशे ॥ā́paḥ ǀ pṛṇītá ǀ bheṣajám ǀ várūtham ǀ tanvé ǀ máma ǀ
jyók ǀ ca ǀ sū́ryam ǀ dṛśé ǁāpaḥ ǀ pṛṇīta ǀ bheṣajam ǀ varūtham ǀ tanve ǀ mama ǀ
jyok ǀ ca ǀ sūryam ǀ dṛśe ǁ1.23.21 Aṣṭaka 1.2.12.1Anuvāka 1.5.74
-
Ṛk 22
इ॒दमा॑पः॒ प्र व॑हत॒ यत्किं च॑ दुरि॒तं मयि॑ ।
यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा॑ शे॒प उ॒तानृ॑तं ॥इदम् आपः प्र वहत यत् किं च दुरितम् मयि |
यद् वाहम् अभिदुद्रोह यद् वा शेप उतानृतम् ||idámāpaḥ prá vahata yátkím ca duritám máyi ǀ
yádvāhámabhidudróha yádvā śepá utā́nṛtam ǁidam āpaḥ pra vahata yat kiṃ ca duritam mayi |
yad vāham abhidudroha yad vā śepa utānṛtam ||इ॒दम् । आ॒पः॒ । प्र । व॒ह॒त॒ । यत् । किम् । च॒ । दुः॒ऽइ॒तम् । मयि॑ ।
यत् । वा॒ । अ॒हम् । अ॒भि॒ऽदु॒द्रोह॑ । यत् । वा॒ । शे॒पे । उ॒त । अनृ॑तम् ॥इदम् । आपः । प्र । वहत । यत् । किम् । च । दुःऽइतम् । मयि ।
यत् । वा । अहम् । अभिऽदुद्रोह । यत् । वा । शेपे । उत । अनृतम् ॥idám ǀ āpaḥ ǀ prá ǀ vahata ǀ yát ǀ kím ǀ ca ǀ duḥ-itám ǀ máyi ǀ
yát ǀ vā ǀ ahám ǀ abhi-dudróha ǀ yát ǀ vā ǀ śepé ǀ utá ǀ ánṛtam ǁidam ǀ āpaḥ ǀ pra ǀ vahata ǀ yat ǀ kim ǀ ca ǀ duḥ-itam ǀ mayi ǀ
yat ǀ vā ǀ aham ǀ abhi-dudroha ǀ yat ǀ vā ǀ śepe ǀ uta ǀ anṛtam ǁ1.23.22 Aṣṭaka 1.2.12.2Anuvāka 1.5.75
-
Ṛk 23
आपो॑ अ॒द्यान्व॑चारिषं॒ रसे॑न॒ सम॑गस्महि ।
पय॑स्वानग्न॒ आ ग॑हि॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ॥आपो अद्यान्व् अचारिषं रसेन सम् अगस्महि |
पयस्वान् अग्न आ गहि तम् मा सं सृज वर्चसा ||ā́po adyā́nvacāriṣam rásena sámagasmahi ǀ
páyasvānagna ā́ gahi tám mā sám sṛja várcasā ǁāpo adyānv acāriṣaṃ rasena sam agasmahi |
payasvān agna ā gahi tam mā saṃ sṛja varcasā ||आपः॑ । अ॒द्य । अनु॑ । अ॒चा॒रि॒ष॒म् । रसे॑न । सम् । अ॒ग॒स्म॒हि॒ ।
पय॑स्वान् । अ॒ग्ने॒ । आ । ग॒हि॒ । तम् । मा॒ । सम् । सृ॒ज॒ । वर्च॑सा ॥आपः । अद्य । अनु । अचारिषम् । रसेन । सम् । अगस्महि ।
पयस्वान् । अग्ने । आ । गहि । तम् । मा । सम् । सृज । वर्चसा ॥ā́paḥ ǀ adyá ǀ ánu ǀ acāriṣam ǀ rásena ǀ sám ǀ agasmahi ǀ
páyasvān ǀ agne ǀ ā́ ǀ gahi ǀ tám ǀ mā ǀ sám ǀ sṛja ǀ várcasā ǁāpaḥ ǀ adya ǀ anu ǀ acāriṣam ǀ rasena ǀ sam ǀ agasmahi ǀ
payasvān ǀ agne ǀ ā ǀ gahi ǀ tam ǀ mā ǀ sam ǀ sṛja ǀ varcasā ǁ1.23.23 Aṣṭaka 1.2.12.3Anuvāka 1.5.76
-
Ṛk 24
सं मा॑ग्ने॒ वर्च॑सा सृज॒ सं प्र॒जया॒ समायु॑षा ।
वि॒द्युर्मे॑ अस्य दे॒वा इंद्रो॑ विद्यात्स॒ह ऋषि॑भिः ॥सम् माग्ने वर्चसा सृज सम् प्रजया सम् आयुषा |
विद्युर् मे अस्य देवा इन्द्रो विद्यात् सह ऋषिभिः ||sám māgne várcasā sṛja sám prajáyā sámā́yuṣā ǀ
vidyúrme asya devā́ índro vidyātsahá ṛ́ṣibhiḥ ǁsam māgne varcasā sṛja sam prajayā sam āyuṣā |
vidyur me asya devā indro vidyāt saha ṛṣibhiḥ ||सम् । मा॒ । अ॒ग्ने॒ । वर्च॑सा । सृ॒ज॒ । सम् । प्र॒ऽजया॑ । सम् । आयु॑षा ।
वि॒द्युः । मे॒ । अ॒स्य॒ । दे॒वाः । इन्द्रः॑ । वि॒द्या॒त् । स॒ह । ऋषि॑ऽभिः ॥सम् । मा । अग्ने । वर्चसा । सृज । सम् । प्रऽजया । सम् । आयुषा ।
विद्युः । मे । अस्य । देवाः । इन्द्रः । विद्यात् । सह । ऋषिऽभिः ॥sám ǀ mā ǀ agne ǀ várcasā ǀ sṛja ǀ sám ǀ pra-jáyā ǀ sám ǀ ā́yuṣā ǀ
vidyúḥ ǀ me ǀ asya ǀ devā́ḥ ǀ índraḥ ǀ vidyāt ǀ sahá ǀ ṛ́ṣi-bhiḥ ǁsam ǀ mā ǀ agne ǀ varcasā ǀ sṛja ǀ sam ǀ pra-jayā ǀ sam ǀ āyuṣā ǀ
vidyuḥ ǀ me ǀ asya ǀ devāḥ ǀ indraḥ ǀ vidyāt ǀ saha ǀ ṛṣi-bhiḥ ǁ1.23.24 Aṣṭaka 1.2.12.4Anuvāka 1.5.77
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.