Ṛgveda · Maṇḍala 1

Sūkta 100

Indra · Ambarīṣa Vārṣāgira; Bhajamāna Vārṣāgira; Ṛjrāśva Vārṣāgira; Sahadeva Vārṣāgira; Surādhas Vārṣāgira · 19 ṛks

Link
Devatā देवता
Indra
Ṛṣi ऋषि
Ambarīṣa Vārṣāgira; Bhajamāna Vārṣāgira; Ṛjrāśva Vārṣāgira; Sahadeva Vārṣāgira; Surādhas Vārṣāgira
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles nicṛttriṣṭup (7-9, 12, 14, 15, 19); virāṭtrisṭup (3, 4, 11, 18); svarāṭpaṅkti (2, 13, 17); bhurikpaṅkti (6, 10, 16); paṅktiḥ (1, 5)

2nd set of styles triṣṭubh

  1. Ṛk 1

    स यो वृषा॒ वृष्ण्ये॑भिः॒ समो॑का म॒हो दि॒वः पृ॑थि॒व्याश्च॑ स॒म्राट् ।
    स॒ती॒नस॑त्वा॒ हव्यो॒ भरे॑षु म॒रुत्वा॑न्नो भव॒त्विंद्र॑ ऊ॒ती ॥

    स यो वृषा वृष्ण्येभिः समोका महो दिवः पृथिव्याश् च सम्राट् |
    सतीनसत्वा हव्यो भरेषु मरुत्वान् नो भवत्व् इन्द्र ऊती ||

    sá yó vṛ́ṣā vṛ́ṣṇyebhiḥ sámokā mahó diváḥ pṛthivyā́śca samrā́ṭ ǀ
    satīnásatvā hávyo bháreṣu marútvānno bhavatvíndra ūtī́ ǁ

    sa yo vṛṣā vṛṣṇyebhiḥ samokā maho divaḥ pṛthivyāś ca samrāṭ |
    satīnasatvā havyo bhareṣu marutvān no bhavatv indra ūtī ||

    सः । यः । वृषा॑ । वृष्ण्ये॑भिः । सम्ऽओ॑काः । म॒हः । दि॒वः । पृ॒थि॒व्याः । च॒ । स॒म्ऽराट् ।
    स॒ती॒नऽस॑त्वा । हव्यः॑ । भरे॑षु । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥

    सः । यः । वृषा । वृष्ण्येभिः । सम्ऽओकाः । महः । दिवः । पृथिव्याः । च । सम्ऽराट् ।
    सतीनऽसत्वा । हव्यः । भरेषु । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥

    sáḥ ǀ yáḥ ǀ vṛ́ṣā ǀ vṛ́ṣṇyebhiḥ ǀ sám-okāḥ ǀ maháḥ ǀ diváḥ ǀ pṛthivyā́ḥ ǀ ca ǀ sam-rā́ṭ ǀ
    satīná-satvā ǀ hávyaḥ ǀ bháreṣu ǀ marútvān ǀ naḥ ǀ bhavatu ǀ índraḥ ǀ ūtī́ ǁ

    saḥ ǀ yaḥ ǀ vṛṣā ǀ vṛṣṇyebhiḥ ǀ sam-okāḥ ǀ mahaḥ ǀ divaḥ ǀ pṛthivyāḥ ǀ ca ǀ sam-rāṭ ǀ
    satīna-satvā ǀ havyaḥ ǀ bhareṣu ǀ marutvān ǀ naḥ ǀ bhavatu ǀ indraḥ ǀ ūtī ǁ

    1.100.1 Aṣṭaka 1.7.8.0

  2. Ṛk 2

    यस्याना॑प्तः॒ सूर्य॑स्येव॒ यामो॒ भरे॑भरे वृत्र॒हा शुष्मो॒ अस्ति॑ ।
    वृषं॑तमः॒ सखि॑भिः॒ स्वेभि॒रेवै॑र्म॒रुत्वा॑न्नो भव॒त्विंद्र॑ ऊ॒ती ॥

    यस्यानाप्तः सूर्यस्येव यामो भरे-भरे वृत्रहा शुष्मो अस्ति |
    वृषन्तमः सखिभिः स्वेभिर् एवैर् मरुत्वान् नो भवत्व् इन्द्र ऊती ||

    yásyā́nāptaḥ sū́ryasyeva yā́mo bhárebhare vṛtrahā́ śúṣmo ásti ǀ
    vṛ́ṣantamaḥ sákhibhiḥ svébhirévairmarútvānno bhavatvíndra ūtī́ ǁ

    yasyānāptaḥ sūryasyeva yāmo bhare-bhare vṛtrahā śuṣmo asti |
    vṛṣantamaḥ sakhibhiḥ svebhir evair marutvān no bhavatv indra ūtī ||

    यस्य॑ । अना॑प्तः । सूर्य॑स्यऽइव । यामः॑ । भरे॑ऽभरे । वृ॒त्र॒ऽहा । शुष्मः॑ । अस्ति॑ ।
    वृष॑न्ऽतमः । सखि॑ऽभिः । स्वेभिः॑ । एवैः॑ । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥

    यस्य । अनाप्तः । सूर्यस्यऽइव । यामः । भरेऽभरे । वृत्रऽहा । शुष्मः । अस्ति ।
    वृषन्ऽतमः । सखिऽभिः । स्वेभिः । एवैः । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥

    yásya ǀ ánāptaḥ ǀ sū́ryasya-iva ǀ yā́maḥ ǀ bháre-bhare ǀ vṛtra-hā́ ǀ śúṣmaḥ ǀ ásti ǀ
    vṛ́ṣan-tamaḥ ǀ sákhi-bhiḥ ǀ svébhiḥ ǀ évaiḥ ǀ marútvān ǀ naḥ ǀ bhavatu ǀ índraḥ ǀ ūtī́ ǁ

    yasya ǀ anāptaḥ ǀ sūryasya-iva ǀ yāmaḥ ǀ bhare-bhare ǀ vṛtra-hā ǀ śuṣmaḥ ǀ asti ǀ
    vṛṣan-tamaḥ ǀ sakhi-bhiḥ ǀ svebhiḥ ǀ evaiḥ ǀ marutvān ǀ naḥ ǀ bhavatu ǀ indraḥ ǀ ūtī ǁ

    1.100.2 Aṣṭaka 1.7.8.0

  3. Ṛk 3

    दि॒वो न यस्य॒ रेत॑सो॒ दुघा॑नाः॒ पंथा॑सो॒ यंति॒ शव॒साप॑रीताः ।
    त॒रद्द्वे॑षाः सास॒हिः पौंस्ये॑भिर्म॒रुत्वा॑न्नो भव॒त्विंद्र॑ ऊ॒ती ॥

    दिवो न यस्य रेतसो दुघानाः पन्थासो यन्ति शवसापरीताः |
    तरद्द्वेषाः सासहिः पौंस्येभिर् मरुत्वान् नो भवत्व् इन्द्र ऊती ||

    divó ná yásya rétaso dúghānāḥ pánthāso yánti śávasā́parītāḥ ǀ
    taráddveṣāḥ sāsahíḥ páuṃsyebhirmarútvānno bhavatvíndra ūtī́ ǁ

    divo na yasya retaso dughānāḥ panthāso yanti śavasāparītāḥ |
    taraddveṣāḥ sāsahiḥ pauṃsyebhir marutvān no bhavatv indra ūtī ||

    दि॒वः । न । यस्य॑ । रेत॑सः । दुघा॑नाः । पन्था॑सः । यन्ति॑ । शव॑सा । अप॑रिऽइताः ।
    त॒रत्ऽद्वे॑षाः । स॒स॒हिः । पौंस्ये॑भिः । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥

    दिवः । न । यस्य । रेतसः । दुघानाः । पन्थासः । यन्ति । शवसा । अपरिऽइताः ।
    तरत्ऽद्वेषाः । ससहिः । पौंस्येभिः । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥

    diváḥ ǀ ná ǀ yásya ǀ rétasaḥ ǀ dúghānāḥ ǀ pánthāsaḥ ǀ yánti ǀ śávasā ǀ ápari-itāḥ ǀ
    tarát-dveṣāḥ ǀ sasahíḥ ǀ páuṃsyebhiḥ ǀ marútvān ǀ naḥ ǀ bhavatu ǀ índraḥ ǀ ūtī́ ǁ

    divaḥ ǀ na ǀ yasya ǀ retasaḥ ǀ dughānāḥ ǀ panthāsaḥ ǀ yanti ǀ śavasā ǀ apari-itāḥ ǀ
    tarat-dveṣāḥ ǀ sasahiḥ ǀ pauṃsyebhiḥ ǀ marutvān ǀ naḥ ǀ bhavatu ǀ indraḥ ǀ ūtī ǁ

    1.100.3 Aṣṭaka 1.7.8.0

  4. Ṛk 4

    सो अंगि॑रोभि॒रंगि॑रस्तमो भू॒द्वृषा॒ वृष॑भिः॒ सखि॑भिः॒ सखा॒ सन् ।
    ऋ॒ग्मिभि॑र्ऋ॒ग्मी गा॒तुभि॒र्ज्येष्ठो॑ म॒रुत्वा॑न्नो भव॒त्विंद्र॑ ऊ॒ती ॥

    सो अङ्गिरोभिर् अङ्गिरस्तमो भूद् वृषा वृषभिः सखिभिः सखा सन् |
    ऋग्मिभिर् ऋग्मी गातुभिर् ज्येष्ठो मरुत्वान् नो भवत्व् इन्द्र ऊती ||

    só áṅgirobhiráṅgirastamo bhūdvṛ́ṣā vṛ́ṣabhiḥ sákhibhiḥ sákhā sán ǀ
    ṛgmíbhirṛgmī́ gātúbhirjyéṣṭho marútvānno bhavatvíndra ūtī́ ǁ

    so aṅgirobhir aṅgirastamo bhūd vṛṣā vṛṣabhiḥ sakhibhiḥ sakhā san |
    ṛgmibhir ṛgmī gātubhir jyeṣṭho marutvān no bhavatv indra ūtī ||

    सः । अङ्गि॑रःऽभिः । अङ्गि॑रःऽतमः । भू॒त् । वृषा॑ । वृष॑ऽभिः । सखि॑ऽभिः । सखा॑ । सन् ।
    ऋ॒ग्मिऽभिः॑ । ऋ॒ग्मी । गा॒तुऽभिः॑ । ज्येष्ठः॑ । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥

    सः । अङ्गिरःऽभिः । अङ्गिरःऽतमः । भूत् । वृषा । वृषऽभिः । सखिऽभिः । सखा । सन् ।
    ऋग्मिऽभिः । ऋग्मी । गातुऽभिः । ज्येष्ठः । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥

    sáḥ ǀ áṅgiraḥ-bhiḥ ǀ áṅgiraḥ-tamaḥ ǀ bhūt ǀ vṛ́ṣā ǀ vṛ́ṣa-bhiḥ ǀ sákhi-bhiḥ ǀ sákhā ǀ sán ǀ
    ṛgmí-bhiḥ ǀ ṛgmī́ ǀ gātú-bhiḥ ǀ jyéṣṭhaḥ ǀ marútvān ǀ naḥ ǀ bhavatu ǀ índraḥ ǀ ūtī́ ǁ

    saḥ ǀ aṅgiraḥ-bhiḥ ǀ aṅgiraḥ-tamaḥ ǀ bhūt ǀ vṛṣā ǀ vṛṣa-bhiḥ ǀ sakhi-bhiḥ ǀ sakhā ǀ san ǀ
    ṛgmi-bhiḥ ǀ ṛgmī ǀ gātu-bhiḥ ǀ jyeṣṭhaḥ ǀ marutvān ǀ naḥ ǀ bhavatu ǀ indraḥ ǀ ūtī ǁ

    1.100.4 Aṣṭaka 1.7.8.0

  5. Ṛk 5

    स सू॒नुभि॒र्न रु॒द्रेभि॒र्ऋभ्वा॑ नृ॒षाह्ये॑ सास॒ह्वाँ अ॒मित्रा॑न् ।
    सनी॑ळेभिः श्रव॒स्या॑नि॒ तूर्व॑न्म॒रुत्वा॑न्नो भव॒त्विंद्र॑ ऊ॒ती ॥

    स सूनुभिर् न रुद्रेभिर् ऋभ्वा नृषाह्ये सासह्वां अमित्रान् |
    सनीळेभिः श्रवस्यानि तूर्वन् मरुत्वान् नो भवत्व् इन्द्र ऊती ||

    sá sūnúbhirná rudrébhirṛ́bhvā nṛṣā́hye sāsahvā́m̐ amítrān ǀ
    sánīḷebhiḥ śravasyā́ni tū́rvanmarútvānno bhavatvíndra ūtī́ ǁ

    sa sūnubhir na rudrebhir ṛbhvā nṛṣāhye sāsahvāṃ amitrān |
    sanīḷebhiḥ śravasyāni tūrvan marutvān no bhavatv indra ūtī ||

    सः । सू॒नुऽभिः॑ । न । रु॒द्रेभिः॑ । ऋभ्वा॑ । नृ॒ऽसह्ये॑ । स॒स॒ह्वान् । अ॒मित्रा॑न् ।
    सऽनी॑ळेभिः । श्र॒व॒स्या॑नि । तूर्व॑न् । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥

    सः । सूनुऽभिः । न । रुद्रेभिः । ऋभ्वा । नृऽसह्ये । ससह्वान् । अमित्रान् ।
    सऽनीळेभिः । श्रवस्यानि । तूर्वन् । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥

    sáḥ ǀ sūnú-bhiḥ ǀ ná ǀ rudrébhiḥ ǀ ṛ́bhvā ǀ nṛ-sáhye ǀ sasahvā́n ǀ amítrān ǀ
    sá-nīḷebhiḥ ǀ śravasyā́ni ǀ tū́rvan ǀ marútvān ǀ naḥ ǀ bhavatu ǀ índraḥ ǀ ūtī́ ǁ

    saḥ ǀ sūnu-bhiḥ ǀ na ǀ rudrebhiḥ ǀ ṛbhvā ǀ nṛ-sahye ǀ sasahvān ǀ amitrān ǀ
    sa-nīḷebhiḥ ǀ śravasyāni ǀ tūrvan ǀ marutvān ǀ naḥ ǀ bhavatu ǀ indraḥ ǀ ūtī ǁ

    1.100.5 Aṣṭaka 1.7.8.0

  6. Ṛk 6

    स म॑न्यु॒मीः स॒मद॑नस्य क॒र्तास्माके॑भि॒र्नृभिः॒ सूर्यं॑ सनत् ।
    अ॒स्मिन्नह॒न्त्सत्प॑तिः पुरुहू॒तो म॒रुत्वा॑न्नो भव॒त्विंद्र॑ ऊ॒ती ॥

    स मन्युमीः समदनस्य कर्तास्माकेभिर् नृभिः सूर्यं सनत् |
    अस्मिन्न् अहन् सत्पतिः पुरुहूतो मरुत्वान् नो भवत्व् इन्द्र ऊती ||

    sá manyumī́ḥ samádanasya kartā́smā́kebhirnṛ́bhiḥ sū́ryam sanat ǀ
    asmínnáhantsátpatiḥ puruhūtó marútvānno bhavatvíndra ūtī́ ǁ

    sa manyumīḥ samadanasya kartāsmākebhir nṛbhiḥ sūryaṃ sanat |
    asminn ahan satpatiḥ puruhūto marutvān no bhavatv indra ūtī ||

    सः । म॒न्यु॒ऽमीः । स॒ऽमद॑नस्य । क॒र्ता । अ॒स्माके॑भिः । नृऽभिः॑ । सूर्य॑म् । स॒न॒त् ।
    अ॒स्मिन् । अह॑न् । सत्ऽप॑तिः । पु॒रु॒ऽहू॒तः । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥

    सः । मन्युऽमीः । सऽमदनस्य । कर्ता । अस्माकेभिः । नृऽभिः । सूर्यम् । सनत् ।
    अस्मिन् । अहन् । सत्ऽपतिः । पुरुऽहूतः । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥

    sáḥ ǀ manyu-mī́ḥ ǀ sa-mádanasya ǀ kartā́ ǀ asmā́kebhiḥ ǀ nṛ́-bhiḥ ǀ sū́ryam ǀ sanat ǀ
    asmín ǀ áhan ǀ sát-patiḥ ǀ puru-hūtáḥ ǀ marútvān ǀ naḥ ǀ bhavatu ǀ índraḥ ǀ ūtī́ ǁ

    saḥ ǀ manyu-mīḥ ǀ sa-madanasya ǀ kartā ǀ asmākebhiḥ ǀ nṛ-bhiḥ ǀ sūryam ǀ sanat ǀ
    asmin ǀ ahan ǀ sat-patiḥ ǀ puru-hūtaḥ ǀ marutvān ǀ naḥ ǀ bhavatu ǀ indraḥ ǀ ūtī ǁ

    1.100.6 Aṣṭaka 1.7.9.0

  7. Ṛk 7

    तमू॒तयो॑ रणयं॒छूर॑सातौ॒ तं क्षेम॑स्य क्षि॒तयः॑ कृण्वत॒ त्रां ।
    स विश्व॑स्य क॒रुण॑स्येश॒ एको॑ म॒रुत्वा॑न्नो भव॒त्विंद्र॑ ऊ॒ती ॥

    तम् ऊतयो रणयञ् छूरसातौ तं क्षेमस्य क्षितयः कृण्वत त्राम् |
    स विश्वस्य करुणस्येश एको मरुत्वान् नो भवत्व् इन्द्र ऊती ||

    támūtáyo raṇayañchū́rasātau tám kṣémasya kṣitáyaḥ kṛṇvata trā́m ǀ
    sá víśvasya karúṇasyeśa éko marútvānno bhavatvíndra ūtī́ ǁ

    tam ūtayo raṇayañ chūrasātau taṃ kṣemasya kṣitayaḥ kṛṇvata trām |
    sa viśvasya karuṇasyeśa eko marutvān no bhavatv indra ūtī ||

    तम् । ऊ॒तयः॑ । र॒ण॒य॒त् । शूर॑ऽसातौ । तम् । क्षेम॑स्य । क्षि॒तयः॑ । कृ॒ण्व॒त॒ । त्राम् ।
    सः । विश्व॑स्य । क॒रुण॑स्य । ई॒शे॒ । एकः॑ । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥

    तम् । ऊतयः । रणयत् । शूरऽसातौ । तम् । क्षेमस्य । क्षितयः । कृण्वत । त्राम् ।
    सः । विश्वस्य । करुणस्य । ईशे । एकः । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥

    tám ǀ ūtáyaḥ ǀ raṇayat ǀ śū́ra-sātau ǀ tám ǀ kṣémasya ǀ kṣitáyaḥ ǀ kṛṇvata ǀ trā́m ǀ
    sáḥ ǀ víśvasya ǀ karúṇasya ǀ īśe ǀ ékaḥ ǀ marútvān ǀ naḥ ǀ bhavatu ǀ índraḥ ǀ ūtī́ ǁ

    tam ǀ ūtayaḥ ǀ raṇayat ǀ śūra-sātau ǀ tam ǀ kṣemasya ǀ kṣitayaḥ ǀ kṛṇvata ǀ trām ǀ
    saḥ ǀ viśvasya ǀ karuṇasya ǀ īśe ǀ ekaḥ ǀ marutvān ǀ naḥ ǀ bhavatu ǀ indraḥ ǀ ūtī ǁ

    1.100.7 Aṣṭaka 1.7.9.0

  8. Ṛk 8

    तम॑प्संत॒ शव॑स उत्स॒वेषु॒ नरो॒ नर॒मव॑से॒ तं धना॑य ।
    सो अं॒धे चि॒त्तम॑सि॒ ज्योति॑र्विदन्म॒रुत्वा॑न्नो भव॒त्विंद्र॑ ऊ॒ती ॥

    तम् अप्सन्त शवस उत्सवेषु नरो नरम् अवसे तं धनाय |
    सो अन्धे चित् तमसि ज्योतिर् विदन् मरुत्वान् नो भवत्व् इन्द्र ऊती ||

    támapsanta śávasa utsavéṣu náro náramávase tám dhánāya ǀ
    só andhé cittámasi jyótirvidanmarútvānno bhavatvíndra ūtī́ ǁ

    tam apsanta śavasa utsaveṣu naro naram avase taṃ dhanāya |
    so andhe cit tamasi jyotir vidan marutvān no bhavatv indra ūtī ||

    तम् । अ॒प्स॒न्त॒ । शव॑सः । उ॒त्ऽस॒वेषु॑ । नरः॑ । नर॑म् । अव॑से । तम् । धना॑य ।
    सः । अ॒न्धे । चि॒त् । तम॑सि । ज्योतिः॑ । वि॒द॒त् । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥

    तम् । अप्सन्त । शवसः । उत्ऽसवेषु । नरः । नरम् । अवसे । तम् । धनाय ।
    सः । अन्धे । चित् । तमसि । ज्योतिः । विदत् । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥

    tám ǀ apsanta ǀ śávasaḥ ǀ ut-savéṣu ǀ náraḥ ǀ náram ǀ ávase ǀ tám ǀ dhánāya ǀ
    sáḥ ǀ andhé ǀ cit ǀ támasi ǀ jyótiḥ ǀ vidat ǀ marútvān ǀ naḥ ǀ bhavatu ǀ índraḥ ǀ ūtī́ ǁ

    tam ǀ apsanta ǀ śavasaḥ ǀ ut-saveṣu ǀ naraḥ ǀ naram ǀ avase ǀ tam ǀ dhanāya ǀ
    saḥ ǀ andhe ǀ cit ǀ tamasi ǀ jyotiḥ ǀ vidat ǀ marutvān ǀ naḥ ǀ bhavatu ǀ indraḥ ǀ ūtī ǁ

    1.100.8 Aṣṭaka 1.7.9.0

  9. Ṛk 9

    स स॒व्येन॑ यमति॒ व्राध॑तश्चि॒त्स द॑क्षि॒णे संगृ॑भीता कृ॒तानि॑ ।
    स की॒रिणा॑ चि॒त्सनि॑ता॒ धना॑नि म॒रुत्वा॑न्नो भव॒त्विंद्र॑ ऊ॒ती ॥

    स सव्येन यमति व्राधतश् चित् स दक्षिणे संगृभीता कृतानि |
    स कीरिणा चित् सनिता धनानि मरुत्वान् नो भवत्व् इन्द्र ऊती ||

    sá savyéna yamati vrā́dhataścitsá dakṣiṇé sáṃgṛbhītā kṛtā́ni ǀ
    sá kīríṇā citsánitā dhánāni marútvānno bhavatvíndra ūtī́ ǁ

    sa savyena yamati vrādhataś cit sa dakṣiṇe saṃgṛbhītā kṛtāni |
    sa kīriṇā cit sanitā dhanāni marutvān no bhavatv indra ūtī ||

    सः । स॒व्येन॑ । य॒म॒ति॒ । व्राध॑तः । चि॒त् । सः । द॒क्षि॒णे । सम्ऽगृ॑भीता । कृ॒तानि॑ ।
    सः । की॒रिणा॑ । चि॒त् । सनि॑ता । धना॑नि । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥

    सः । सव्येन । यमति । व्राधतः । चित् । सः । दक्षिणे । सम्ऽगृभीता । कृतानि ।
    सः । कीरिणा । चित् । सनिता । धनानि । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥

    sáḥ ǀ savyéna ǀ yamati ǀ vrā́dhataḥ ǀ cit ǀ sáḥ ǀ dakṣiṇé ǀ sám-gṛbhītā ǀ kṛtā́ni ǀ
    sáḥ ǀ kīríṇā ǀ cit ǀ sánitā ǀ dhánāni ǀ marútvān ǀ naḥ ǀ bhavatu ǀ índraḥ ǀ ūtī́ ǁ

    saḥ ǀ savyena ǀ yamati ǀ vrādhataḥ ǀ cit ǀ saḥ ǀ dakṣiṇe ǀ sam-gṛbhītā ǀ kṛtāni ǀ
    saḥ ǀ kīriṇā ǀ cit ǀ sanitā ǀ dhanāni ǀ marutvān ǀ naḥ ǀ bhavatu ǀ indraḥ ǀ ūtī ǁ

    1.100.9 Aṣṭaka 1.7.9.0

  10. Ṛk 10

    स ग्रामे॑भिः॒ सनि॑ता॒ स रथे॑भिर्वि॒दे विश्वा॑भिः कृ॒ष्टिभि॒र्न्व१॒॑द्य ।
    स पौंस्ये॑भिरभि॒भूरश॑स्तीर्म॒रुत्वा॑न्नो भव॒त्विंद्र॑ ऊ॒ती ॥

    स ग्रामेभिः सनिता स रथेभिर् विदे विश्वाभिः कृष्टिभिर् न्व् अद्य |
    स पौंस्येभिर् अभिभूर् अशस्तीर् मरुत्वान् नो भवत्व् इन्द्र ऊती ||

    sá grā́mebhiḥ sánitā sá ráthebhirvidé víśvābhiḥ kṛṣṭíbhirnvádyá ǀ
    sá páuṃsyebhirabhibhū́ráśastīrmarútvānno bhavatvíndra ūtī́ ǁ

    sa grāmebhiḥ sanitā sa rathebhir vide viśvābhiḥ kṛṣṭibhir nv adya |
    sa pauṃsyebhir abhibhūr aśastīr marutvān no bhavatv indra ūtī ||

    सः । ग्रामे॑भिः । सनि॑ता । सः । रथे॑भिः । वि॒दे । विश्वा॑भिः । कृ॒ष्टिऽभिः॑ । नु । अ॒द्य ।
    सः । पौंस्ये॑भिः । अ॒भि॒ऽभूः । अश॑स्तीः । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥

    सः । ग्रामेभिः । सनिता । सः । रथेभिः । विदे । विश्वाभिः । कृष्टिऽभिः । नु । अद्य ।
    सः । पौंस्येभिः । अभिऽभूः । अशस्तीः । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥

    sáḥ ǀ grā́mebhiḥ ǀ sánitā ǀ sáḥ ǀ ráthebhiḥ ǀ vidé ǀ víśvābhiḥ ǀ kṛṣṭí-bhiḥ ǀ nú ǀ adyá ǀ
    sáḥ ǀ páuṃsyebhiḥ ǀ abhi-bhū́ḥ ǀ áśastīḥ ǀ marútvān ǀ naḥ ǀ bhavatu ǀ índraḥ ǀ ūtī́ ǁ

    saḥ ǀ grāmebhiḥ ǀ sanitā ǀ saḥ ǀ rathebhiḥ ǀ vide ǀ viśvābhiḥ ǀ kṛṣṭi-bhiḥ ǀ nu ǀ adya ǀ
    saḥ ǀ pauṃsyebhiḥ ǀ abhi-bhūḥ ǀ aśastīḥ ǀ marutvān ǀ naḥ ǀ bhavatu ǀ indraḥ ǀ ūtī ǁ

    1.100.10 Aṣṭaka 1.7.9.0

  11. Ṛk 11

    स जा॒मिभि॒र्यत्स॒मजा॑ति मी॒ळ्हेऽजा॑मिभिर्वा पुरुहू॒त एवैः॑ ।
    अ॒पां तो॒कस्य॒ तन॑यस्य जे॒षे म॒रुत्वा॑न्नो भव॒त्विंद्र॑ ऊ॒ती ॥

    स जामिभिर् यत् समजाति मीऌहे ऽजामिभिर् वा पुरुहूत एवैः |
    अपां तोकस्य तनयस्य जेषे मरुत्वान् नो भवत्व् इन्द्र ऊती ||

    sá jāmíbhiryátsamájāti mīḷhé’jāmibhirvā puruhūtá évaiḥ ǀ
    apā́m tokásya tánayasya jeṣé marútvānno bhavatvíndra ūtī́ ǁ

    sa jāmibhir yat samajāti mīḷhe 'jāmibhir vā puruhūta evaiḥ |
    apāṃ tokasya tanayasya jeṣe marutvān no bhavatv indra ūtī ||

    सः । जा॒मिऽभिः॑ । यत् । स॒म्ऽअजा॑ति । मी॒ळ्हे । अजा॑मिऽभिः । वा॒ । पु॒रु॒ऽहू॒तः । एवैः॑ ।
    अ॒पाम् । तो॒कस्य॑ । तन॑यस्य । जे॒षे । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥

    सः । जामिऽभिः । यत् । सम्ऽअजाति । मीळ्हे । अजामिऽभिः । वा । पुरुऽहूतः । एवैः ।
    अपाम् । तोकस्य । तनयस्य । जेषे । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥

    sáḥ ǀ jāmí-bhiḥ ǀ yát ǀ sam-ájāti ǀ mīḷhé ǀ ájāmi-bhiḥ ǀ vā ǀ puru-hūtáḥ ǀ évaiḥ ǀ
    apā́m ǀ tokásya ǀ tánayasya ǀ jeṣé ǀ marútvān ǀ naḥ ǀ bhavatu ǀ índraḥ ǀ ūtī́ ǁ

    saḥ ǀ jāmi-bhiḥ ǀ yat ǀ sam-ajāti ǀ mīḷhe ǀ ajāmi-bhiḥ ǀ vā ǀ puru-hūtaḥ ǀ evaiḥ ǀ
    apām ǀ tokasya ǀ tanayasya ǀ jeṣe ǀ marutvān ǀ naḥ ǀ bhavatu ǀ indraḥ ǀ ūtī ǁ

    1.100.11 Aṣṭaka 1.7.10.1Anuvāka 1.15.59

  12. Ṛk 12

    स व॑ज्र॒भृद्द॑स्यु॒हा भी॒म उ॒ग्रः स॒हस्र॑चेताः श॒तनी॑थ॒ ऋभ्वा॑ ।
    च॒म्री॒षो न शव॑सा॒ पांच॑जन्यो म॒रुत्वा॑न्नो भव॒त्विंद्र॑ ऊ॒ती ॥

    स वज्रभृद् दस्युहा भीम उग्रः सहस्रचेताः शतनीथ ऋभ्वा |
    चम्रीषो न शवसा पाञ्चजन्यो मरुत्वान् नो भवत्व् इन्द्र ऊती ||

    sá vajrabhṛ́ddasyuhā́ bhīmá ugráḥ sahásracetāḥ śatánītha ṛ́bhvā ǀ
    camrīṣó ná śávasā pā́ñcajanyo marútvānno bhavatvíndra ūtī́ ǁ

    sa vajrabhṛd dasyuhā bhīma ugraḥ sahasracetāḥ śatanītha ṛbhvā |
    camrīṣo na śavasā pāñcajanyo marutvān no bhavatv indra ūtī ||

    सः । व॒ज्र॒ऽभृत् । द॒स्यु॒ऽहा । भी॒मः । उ॒ग्रः । स॒हस्र॑ऽचेताः । श॒तऽनी॑थः । ऋभ्वा॑ ।
    च॒म्री॒षः । न । शव॑सा । पाञ्च॑ऽजन्यः । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥

    सः । वज्रऽभृत् । दस्युऽहा । भीमः । उग्रः । सहस्रऽचेताः । शतऽनीथः । ऋभ्वा ।
    चम्रीषः । न । शवसा । पाञ्चऽजन्यः । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥

    sáḥ ǀ vajra-bhṛ́t ǀ dasyu-hā́ ǀ bhīmáḥ ǀ ugráḥ ǀ sahásra-cetāḥ ǀ śatá-nīthaḥ ǀ ṛ́bhvā ǀ
    camrīṣáḥ ǀ ná ǀ śávasā ǀ pā́ñca-janyaḥ ǀ marútvān ǀ naḥ ǀ bhavatu ǀ índraḥ ǀ ūtī́ ǁ

    saḥ ǀ vajra-bhṛt ǀ dasyu-hā ǀ bhīmaḥ ǀ ugraḥ ǀ sahasra-cetāḥ ǀ śata-nīthaḥ ǀ ṛbhvā ǀ
    camrīṣaḥ ǀ na ǀ śavasā ǀ pāñca-janyaḥ ǀ marutvān ǀ naḥ ǀ bhavatu ǀ indraḥ ǀ ūtī ǁ

    1.100.12 Aṣṭaka 1.7.10.2Anuvāka 1.15.60

  13. Ṛk 13

    तस्य॒ वज्रः॑ क्रंदति॒ स्मत्स्व॒र्षा दि॒वो न त्वे॒षो र॒वथः॒ शिमी॑वान् ।
    तं स॑चंते स॒नय॒स्तं धना॑नि म॒रुत्वा॑न्नो भव॒त्विंद्र॑ ऊ॒ती ॥

    तस्य वज्रः क्रन्दति स्मत् स्वर्षा दिवो न त्वेषो रवथः शिमीवान् |
    तं सचन्ते सनयस् तं धनानि मरुत्वान् नो भवत्व् इन्द्र ऊती ||

    tásya vájraḥ krandati smátsvarṣā́ divó ná tveṣó raváthaḥ śímīvān ǀ
    tám sacante sanáyastám dhánāni marútvānno bhavatvíndra ūtī́ ǁ

    tasya vajraḥ krandati smat svarṣā divo na tveṣo ravathaḥ śimīvān |
    taṃ sacante sanayas taṃ dhanāni marutvān no bhavatv indra ūtī ||

    तस्य॑ । वज्रः॑ । क्र॒न्द॒ति॒ । स्मत् । स्वः॒ऽसाः । दि॒वः । न । त्वे॒षः । र॒वथः॑ । शिमी॑ऽवान् ।
    तम् । स॒च॒न्ते॒ । स॒नयः॑ । तम् । धना॑नि । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥

    तस्य । वज्रः । क्रन्दति । स्मत् । स्वःऽसाः । दिवः । न । त्वेषः । रवथः । शिमीऽवान् ।
    तम् । सचन्ते । सनयः । तम् । धनानि । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥

    tásya ǀ vájraḥ ǀ krandati ǀ smát ǀ svaḥ-sā́ḥ ǀ diváḥ ǀ ná ǀ tveṣáḥ ǀ raváthaḥ ǀ śímī-vān ǀ
    tám ǀ sacante ǀ sanáyaḥ ǀ tám ǀ dhánāni ǀ marútvān ǀ naḥ ǀ bhavatu ǀ índraḥ ǀ ūtī́ ǁ

    tasya ǀ vajraḥ ǀ krandati ǀ smat ǀ svaḥ-sāḥ ǀ divaḥ ǀ na ǀ tveṣaḥ ǀ ravathaḥ ǀ śimī-vān ǀ
    tam ǀ sacante ǀ sanayaḥ ǀ tam ǀ dhanāni ǀ marutvān ǀ naḥ ǀ bhavatu ǀ indraḥ ǀ ūtī ǁ

    1.100.13 Aṣṭaka 1.7.10.3Anuvāka 1.15.61

  14. Ṛk 14

    यस्याज॑स्रं॒ शव॑सा॒ मान॑मु॒क्थं प॑रिभु॒जद्रोद॑सी वि॒श्वतः॑ सीं ।
    स पा॑रिष॒त्क्रतु॑भिर्मंदसा॒नो म॒रुत्वा॑न्नो भव॒त्विंद्र॑ ऊ॒ती ॥

    यस्याजस्रं शवसा मानम् उक्थम् परिभुजद् रोदसी विश्वतः सीम् |
    स पारिषत् क्रतुभिर् मन्दसानो मरुत्वान् नो भवत्व् इन्द्र ऊती ||

    yásyā́jasram śávasā mā́namukthám paribhujádródasī viśvátaḥ sīm ǀ
    sá pāriṣatkrátubhirmandasānó marútvānno bhavatvíndra ūtī́ ǁ

    yasyājasraṃ śavasā mānam uktham paribhujad rodasī viśvataḥ sīm |
    sa pāriṣat kratubhir mandasāno marutvān no bhavatv indra ūtī ||

    यस्य॑ । अज॑स्रम् । शव॑सा । मान॑म् । उ॒क्थम् । प॒रि॒ऽभु॒जत् । रोद॑सी॒ इति॑ । वि॒श्वतः॑ । सी॒म् ।
    सः । पा॒रि॒ष॒त् । क्रतु॑ऽभिः । म॒न्द॒सा॒नः । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥

    यस्य । अजस्रम् । शवसा । मानम् । उक्थम् । परिऽभुजत् । रोदसी इति । विश्वतः । सीम् ।
    सः । पारिषत् । क्रतुऽभिः । मन्दसानः । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥

    yásya ǀ ájasram ǀ śávasā ǀ mā́nam ǀ ukthám ǀ pari-bhuját ǀ ródasī íti ǀ viśvátaḥ ǀ sīm ǀ
    sáḥ ǀ pāriṣat ǀ krátu-bhiḥ ǀ mandasānáḥ ǀ marútvān ǀ naḥ ǀ bhavatu ǀ índraḥ ǀ ūtī́ ǁ

    yasya ǀ ajasram ǀ śavasā ǀ mānam ǀ uktham ǀ pari-bhujat ǀ rodasī iti ǀ viśvataḥ ǀ sīm ǀ
    saḥ ǀ pāriṣat ǀ kratu-bhiḥ ǀ mandasānaḥ ǀ marutvān ǀ naḥ ǀ bhavatu ǀ indraḥ ǀ ūtī ǁ

    1.100.14 Aṣṭaka 1.7.10.4Anuvāka 1.15.62

  15. Ṛk 15

    न यस्य॑ दे॒वा दे॒वता॒ न मर्ता॒ आप॑श्च॒न शव॑सो॒ अंत॑मा॒पुः ।
    स प्र॒रिक्वा॒ त्वक्ष॑सा॒ क्ष्मो दि॒वश्च॑ म॒रुत्वा॑न्नो भव॒त्विंद्र॑ ऊ॒ती ॥

    न यस्य देवा देवता न मर्ता आपश् चन शवसो अन्तम् आपुः |
    स प्ररिक्वा त्वक्षसा क्ष्मो दिवश् च मरुत्वान् नो भवत्व् इन्द्र ऊती ||

    ná yásya devā́ devátā ná mártā ā́paścaná śávaso ántamāpúḥ ǀ
    sá praríkvā tvákṣasā kṣmó diváśca marútvānno bhavatvíndra ūtī́ ǁ

    na yasya devā devatā na martā āpaś cana śavaso antam āpuḥ |
    sa prarikvā tvakṣasā kṣmo divaś ca marutvān no bhavatv indra ūtī ||

    न । यस्य॑ । दे॒वाः । दे॒वता॑ । न । मर्ताः॑ । आपः॑ । च॒न । शव॑सः । अन्त॑म् । आ॒पुः ।
    सः । प्र॒ऽरिक्वा॑ । त्वक्ष॑सा । क्ष्मः । दि॒वः । च॒ । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥

    न । यस्य । देवाः । देवता । न । मर्ताः । आपः । चन । शवसः । अन्तम् । आपुः ।
    सः । प्रऽरिक्वा । त्वक्षसा । क्ष्मः । दिवः । च । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥

    ná ǀ yásya ǀ devā́ḥ ǀ devátā ǀ ná ǀ mártāḥ ǀ ā́paḥ ǀ caná ǀ śávasaḥ ǀ ántam ǀ āpúḥ ǀ
    sáḥ ǀ pra-ríkvā ǀ tvákṣasā ǀ kṣmáḥ ǀ diváḥ ǀ ca ǀ marútvān ǀ naḥ ǀ bhavatu ǀ índraḥ ǀ ūtī́ ǁ

    na ǀ yasya ǀ devāḥ ǀ devatā ǀ na ǀ martāḥ ǀ āpaḥ ǀ cana ǀ śavasaḥ ǀ antam ǀ āpuḥ ǀ
    saḥ ǀ pra-rikvā ǀ tvakṣasā ǀ kṣmaḥ ǀ divaḥ ǀ ca ǀ marutvān ǀ naḥ ǀ bhavatu ǀ indraḥ ǀ ūtī ǁ

    1.100.15 Aṣṭaka 1.7.10.5Anuvāka 1.15.63

  16. Ṛk 16

    रो॒हिच्छ्या॒वा सु॒मदं॑शुर्लला॒मीर्द्यु॒क्षा रा॒य ऋ॒ज्राश्व॑स्य ।
    वृष॑ण्वंतं॒ बिभ्र॑ती धू॒र्षु रथं॑ मं॒द्रा चि॑केत॒ नाहु॑षीषु वि॒क्षु ॥

    रोहिच् छ्यावा सुमदंशुर् ललामीर् द्युक्षा राय ऋज्राश्वस्य |
    वृषण्वन्तम् बिभ्रती धूर्षु रथम् मन्द्रा चिकेत नाहुषीषु विक्षु ||

    rohícchyāvā́ sumádaṃśurlalāmī́rdyukṣā́ rāyá ṛjrā́śvasya ǀ
    vṛ́ṣaṇvantam bíbhratī dhūrṣú rátham mandrā́ ciketa nā́huṣīṣu vikṣú ǁ

    rohic chyāvā sumadaṃśur lalāmīr dyukṣā rāya ṛjrāśvasya |
    vṛṣaṇvantam bibhratī dhūrṣu ratham mandrā ciketa nāhuṣīṣu vikṣu ||

    रो॒हित् । श्या॒वा । सु॒मत्ऽअं॑शुः । ल॒ला॒मीः । द्यु॒क्षा । रा॒ये । ऋ॒ज्रऽअ॑श्वस्य ।
    वृष॑ण्ऽवन्तम् । बिभ्र॑ती । धूः॒ऽसु । रथ॑म् । म॒न्द्रा । चि॒के॒त॒ । नाहु॑षीषु । वि॒क्षु ॥

    रोहित् । श्यावा । सुमत्ऽअंशुः । ललामीः । द्युक्षा । राये । ऋज्रऽअश्वस्य ।
    वृषण्ऽवन्तम् । बिभ्रती । धूःऽसु । रथम् । मन्द्रा । चिकेत । नाहुषीषु । विक्षु ॥

    rohít ǀ śyāvā́ ǀ sumát-aṃśuḥ ǀ lalāmī́ḥ ǀ dyukṣā́ ǀ rāyé ǀ ṛjrá-aśvasya ǀ
    vṛ́ṣaṇ-vantam ǀ bíbhratī ǀ dhūḥ-sú ǀ rátham ǀ mandrā́ ǀ ciketa ǀ nā́huṣīṣu ǀ vikṣú ǁ

    rohit ǀ śyāvā ǀ sumat-aṃśuḥ ǀ lalāmīḥ ǀ dyukṣā ǀ rāye ǀ ṛjra-aśvasya ǀ
    vṛṣaṇ-vantam ǀ bibhratī ǀ dhūḥ-su ǀ ratham ǀ mandrā ǀ ciketa ǀ nāhuṣīṣu ǀ vikṣu ǁ

    1.100.16 Aṣṭaka 1.7.11.1Anuvāka 1.15.64

  17. Ṛk 17

    ए॒तत्त्यत्त॑ इंद्र॒ वृष्ण॑ उ॒क्थं वा॑र्षागि॒रा अ॒भि गृ॑णंति॒ राधः॑ ।
    ऋ॒ज्राश्वः॒ प्रष्टि॑भिरंब॒रीषः॑ स॒हदे॑वो॒ भय॑मानः सु॒राधाः॑ ॥

    एतत् त्यत् त इन्द्र वृष्ण उक्थं वार्षागिरा अभि गृणन्ति राधः |
    ऋज्राश्वः प्रष्टिभिर् अम्बरीषः सहदेवो भयमानः सुराधाः ||

    etáttyátta indra vṛ́ṣṇa ukthám vārṣāgirā́ abhí gṛṇanti rā́dhaḥ ǀ
    ṛjrā́śvaḥ práṣṭibhirambarī́ṣaḥ sahádevo bháyamānaḥ surā́dhāḥ ǁ

    etat tyat ta indra vṛṣṇa ukthaṃ vārṣāgirā abhi gṛṇanti rādhaḥ |
    ṛjrāśvaḥ praṣṭibhir ambarīṣaḥ sahadevo bhayamānaḥ surādhāḥ ||

    ए॒तत् । त्यत् । ते॒ । इ॒न्द्र॒ । वृष्णे॑ । उ॒क्थम् । वा॒र्षा॒गि॒राः । अ॒भि । गृ॒ण॒न्ति॒ । राधः॑ ।
    ऋ॒ज्रऽअ॑श्वः । प्रष्टि॑ऽभिः । अ॒म्ब॒रीषः॑ । स॒हऽदे॑वः । भय॑मानः । सु॒ऽराधाः॑ ॥

    एतत् । त्यत् । ते । इन्द्र । वृष्णे । उक्थम् । वार्षागिराः । अभि । गृणन्ति । राधः ।
    ऋज्रऽअश्वः । प्रष्टिऽभिः । अम्बरीषः । सहऽदेवः । भयमानः । सुऽराधाः ॥

    etát ǀ tyát ǀ te ǀ indra ǀ vṛ́ṣṇe ǀ ukthám ǀ vārṣāgirā́ḥ ǀ abhí ǀ gṛṇanti ǀ rā́dhaḥ ǀ
    ṛjrá-aśvaḥ ǀ práṣṭi-bhiḥ ǀ ambarī́ṣaḥ ǀ sahá-devaḥ ǀ bháyamānaḥ ǀ su-rā́dhāḥ ǁ

    etat ǀ tyat ǀ te ǀ indra ǀ vṛṣṇe ǀ uktham ǀ vārṣāgirāḥ ǀ abhi ǀ gṛṇanti ǀ rādhaḥ ǀ
    ṛjra-aśvaḥ ǀ praṣṭi-bhiḥ ǀ ambarīṣaḥ ǀ saha-devaḥ ǀ bhayamānaḥ ǀ su-rādhāḥ ǁ

    1.100.17 Aṣṭaka 1.7.11.2Anuvāka 1.15.65

  18. Ṛk 18

    दस्यूं॒छिम्यूं॑श्च पुरुहू॒त एवै॑र्ह॒त्वा पृ॑थि॒व्यां शर्वा॒ नि ब॑र्हीत् ।
    सन॒त्क्षेत्रं॒ सखि॑भिः श्वि॒त्न्येभिः॒ सन॒त्सूर्यं॒ सन॑द॒पः सु॒वज्रः॑ ॥

    दस्यूञ् छिम्यूंश् च पुरुहूत एवैर् हत्वा पृथिव्यां शर्वा नि बर्हीत् |
    सनत् क्षेत्रं सखिभिः श्वित्न्येभिः सनत् सूर्यं सनद् अपः सुवज्रः ||

    dásyūñchímyūṃśca puruhūtá évairhatvā́ pṛthivyā́m śárvā ní barhīt ǀ
    sánatkṣétram sákhibhiḥ śvitnyébhiḥ sánatsū́ryam sánadapáḥ suvájraḥ ǁ

    dasyūñ chimyūṃś ca puruhūta evair hatvā pṛthivyāṃ śarvā ni barhīt |
    sanat kṣetraṃ sakhibhiḥ śvitnyebhiḥ sanat sūryaṃ sanad apaḥ suvajraḥ ||

    दस्यू॑न् । शिम्यू॑न् । च॒ । पु॒रु॒ऽहू॒तः । एवैः॑ । ह॒त्वा । पृ॒थि॒व्याम् । शर्वा॑ । नि । ब॒र्ही॒त् ।
    सन॑त् । क्षेत्र॑म् । सखि॑ऽभिः । श्वि॒त्न्येभिः॑ । सन॑त् । सूर्य॑म् । सन॑त् । अ॒पः । सु॒ऽवज्रः॑ ॥

    दस्यून् । शिम्यून् । च । पुरुऽहूतः । एवैः । हत्वा । पृथिव्याम् । शर्वा । नि । बर्हीत् ।
    सनत् । क्षेत्रम् । सखिऽभिः । श्वित्न्येभिः । सनत् । सूर्यम् । सनत् । अपः । सुऽवज्रः ॥

    dásyūn ǀ śímyūn ǀ ca ǀ puru-hūtáḥ ǀ évaiḥ ǀ hatvā́ ǀ pṛthivyā́m ǀ śárvā ǀ ní ǀ barhīt ǀ
    sánat ǀ kṣétram ǀ sákhi-bhiḥ ǀ śvitnyébhiḥ ǀ sánat ǀ sū́ryam ǀ sánat ǀ apáḥ ǀ su-vájraḥ ǁ

    dasyūn ǀ śimyūn ǀ ca ǀ puru-hūtaḥ ǀ evaiḥ ǀ hatvā ǀ pṛthivyām ǀ śarvā ǀ ni ǀ barhīt ǀ
    sanat ǀ kṣetram ǀ sakhi-bhiḥ ǀ śvitnyebhiḥ ǀ sanat ǀ sūryam ǀ sanat ǀ apaḥ ǀ su-vajraḥ ǁ

    1.100.18 Aṣṭaka 1.7.11.3Anuvāka 1.15.66

  19. Ṛk 19

    वि॒श्वाहेंद्रो॑ अधिव॒क्ता नो॑ अ॒स्त्वप॑रिह्वृताः सनुयाम॒ वाजं॑ ।
    तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥

    विश्वाहेन्द्रो अधिवक्ता नो अस्त्व् अपरिह्वृताः सनुयाम वाजम् |
    तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ||

    viśvā́héndro adhivaktā́ no astváparihvṛtāḥ sanuyāma vā́jam ǀ
    tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyáuḥ ǁ

    viśvāhendro adhivaktā no astv aparihvṛtāḥ sanuyāma vājam |
    tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

    वि॒श्वाहा॑ । इन्द्रः॑ । अ॒धि॒ऽव॒क्ता । नः॒ । अ॒स्तु॒ । अप॑रिऽह्वृताः । स॒नु॒या॒म॒ । वाज॑म् ।
    तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥

    विश्वाहा । इन्द्रः । अधिऽवक्ता । नः । अस्तु । अपरिऽह्वृताः । सनुयाम । वाजम् ।
    तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥

    viśvā́hā ǀ índraḥ ǀ adhi-vaktā́ ǀ naḥ ǀ astu ǀ ápari-hvṛtāḥ ǀ sanuyāma ǀ vā́jam ǀ
    tát ǀ naḥ ǀ mitráḥ ǀ váruṇaḥ ǀ mamahantām ǀ áditiḥ ǀ síndhuḥ ǀ pṛthivī́ ǀ utá ǀ dyáuḥ ǁ

    viśvāhā ǀ indraḥ ǀ adhi-vaktā ǀ naḥ ǀ astu ǀ apari-hvṛtāḥ ǀ sanuyāma ǀ vājam ǀ
    tat ǀ naḥ ǀ mitraḥ ǀ varuṇaḥ ǀ mamahantām ǀ aditiḥ ǀ sindhuḥ ǀ pṛthivī ǀ uta ǀ dyauḥ ǁ

    1.100.19 Aṣṭaka 1.7.11.4Anuvāka 1.15.67

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.100 · Indra

Interpretations

Sri Aurobindo

Ṛk 1

He who sits the Strong housed with his strengths and is the all-ruler of the Great Heaven and the earth, the assailant of our assailants to whom we call in the mellays,

Ṛk 2

The Slayer of the Coverer whose march is intangible like the course of the Sun, in his greatest strength with his own rushing comrades,

Ṛk 3

He whose paths go as if milking the streams of heaven and because of his puissance they are not circumscribed, the overcomer, the breaker of the hostile powers by his virile mights,

Ṛk 4

He shall become most Angiras with the Angirases, strong with the strong, a comrade with the comrades, a singer of the word of light with the singers of the word, the Eldest with those who make the journey.

Ṛk 5

Far-moving he goes with the Violent Ones as if with his children and overcomes the unfriendly host in the battle which is a forceful fighting of gods. He makes his way through the things of the Word with the Powers that dwell with him in his lair.

Ṛk 6

He who forms the mind of passion and is the maker of the rapture, the Master of being to whom these many creatures call, shall on this very day by our Strong Ones conquer the Sun.

Ṛk 7

His increasings make him glad in the conquering of the Hero; the inhabitants of the worlds have made him the deliverer of their having. He is One and alone and yet the lord of all work that is done.

Ṛk 8

Strong men have gotten them a strong god for their increase and riches in the holidays of his might. He shall find the Light for us even in our blind darkness.

Ṛk 9

His left hand represses those who grow too large, his right hand gathers together the things done. He shall conquer by the doer heaven’s riches.

Ṛk 10

This is he that shall conquer with his hosts and his chariots; today he is known by all the nations. His strength overpowers the denials of the Word.

Ṛk 11

These many creatures have called to him and in his rain of bounty he courses with his Rushing Ones to the conquest of the Waters and Son and the creation from our body.

Ṛk 12

He is armed with the thunderbolt and a slayer of the Destroyers, he is strong and terrible and far-moving, he is the master of a thousand wisdoms and a hundred leadings. He is in his power as if the nectar-cup of the five peoples of men.

Ṛk 13

His thunder harmoniously cries aloud conquering the World of the Sun and is as if the rending luminous shout of Heaven. Conquests cleave to him and all kinds of riches.

Ṛk 14

His unbroken word measures with its thought earth and heaven and world to enjoy them in its embrace from each side and all around. He shall carry us beyond them in the rapture of his intoxication by the mights of his will.

Ṛk 15

Gods in their godheads cannot reach any end of his puissance, nor mortals come to it, nor these waters attain to it. He exceeds by his all-cleaving strength earth and heaven.

Ṛk 16

His rapturous mare who is red and bay of hue and of a happy lustre and a blaze is upon her forehead and heaven is her dwelling-place has awakened to knowledge among the human peoples for the felicity of Rijraswa and she comes bearing in his yoke the chariot with the Mighty One.

Ṛk 17

The sons of Vrishagira, Rijraswa with those who stand behind him and Ambarisha and Sahadeva and Bhayamana and Suradhas, O Indra, speak the utterance that is an opulent joy of thee, of thee the Mighty One.

Ṛk 18

The Lord of the thunderbolt to whom the many call shall slay, shall crush down on our earth the embattled Renders and Destroyers and with his white-shining comrades conquer the Field and conquer the Sun and conquer the Waters.

Ṛk 19

Let Indra be ever our spokesman so that unturned to crookedness we may conquer heaven’s plenty. This let Mitra and Varuna and the Mother Infinite magnify in me and the great River and Earth and Heaven.