Sūkta 178
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles bhurikpaṅkti (1, 2); nicṛttriṣṭup (3, 4); virāṭtrisṭup (5)
2nd set of styles triṣṭubh
-
Ṛk 1
यद्ध॒ स्या त॑ इंद्र श्रु॒ष्टिरस्ति॒ यया॑ ब॒भूथ॑ जरि॒तृभ्य॑ ऊ॒ती ।
मा नः॒ कामं॑ म॒हयं॑त॒मा ध॒ग्विश्वा॑ ते अश्यां॒ पर्याप॑ आ॒योः ॥यद् ध स्या त इन्द्र श्रुष्टिर् अस्ति यया बभूथ जरितृभ्य ऊती |
मा नः कामम् महयन्तम् आ धग् विश्वा ते अश्याम् पर्य् आप आयोः ||yáddha syā́ ta indra śruṣṭírásti yáyā babhū́tha jaritṛ́bhya ūtī́ ǀ
mā́ naḥ kā́mam maháyantamā́ dhagvíśvā te aśyām páryā́pa āyóḥ ǁyad dha syā ta indra śruṣṭir asti yayā babhūtha jaritṛbhya ūtī |
mā naḥ kāmam mahayantam ā dhag viśvā te aśyām pary āpa āyoḥ ||यत् । ह॒ । स्या । ते॒ । इ॒न्द्र॒ । श्रु॒ष्टिः । अस्ति॑ । यया॑ । ब॒भूथ॑ । ज॒रि॒तृऽभ्यः॑ । ऊ॒ती ।
मा । नः॒ । काम॑म् । म॒हय॑न्तम् । आ । ध॒क् । विश्वा॑ । ते॒ । अ॒श्या॒म् । परि॑ । आपः॑ । आ॒योः ॥यत् । ह । स्या । ते । इन्द्र । श्रुष्टिः । अस्ति । यया । बभूथ । जरितृऽभ्यः । ऊती ।
मा । नः । कामम् । महयन्तम् । आ । धक् । विश्वा । ते । अश्याम् । परि । आपः । आयोः ॥yát ǀ ha ǀ syā́ ǀ te ǀ indra ǀ śruṣṭíḥ ǀ ásti ǀ yáyā ǀ babhū́tha ǀ jaritṛ́-bhyaḥ ǀ ūtī́ ǀ
mā́ ǀ naḥ ǀ kā́mam ǀ maháyantam ǀ ā́ ǀ dhak ǀ víśvā ǀ te ǀ aśyām ǀ pári ǀ ā́paḥ ǀ āyóḥ ǁyat ǀ ha ǀ syā ǀ te ǀ indra ǀ śruṣṭiḥ ǀ asti ǀ yayā ǀ babhūtha ǀ jaritṛ-bhyaḥ ǀ ūtī ǀ
mā ǀ naḥ ǀ kāmam ǀ mahayantam ǀ ā ǀ dhak ǀ viśvā ǀ te ǀ aśyām ǀ pari ǀ āpaḥ ǀ āyoḥ ǁ1.178.1 Aṣṭaka 2.4.21.1Anuvāka 1.23.114
-
Ṛk 2
न घा॒ राजेंद्र॒ आ द॑भन्नो॒ या नु स्वसा॑रा कृ॒णवं॑त॒ योनौ॑ ।
आप॑श्चिदस्मै सु॒तुका॑ अवेष॒न्गम॑न्न॒ इंद्रः॑ स॒ख्या वय॑श्च ॥न घा राजेन्द्र आ दभन् नो या नु स्वसारा कृणवन्त योनौ |
आपश् चिद् अस्मै सुतुका अवेषन् गमन् न इन्द्रः सख्या वयश् च ||ná ghā rā́jéndra ā́ dabhanno yā́ nú svásārā kṛṇávanta yónau ǀ
ā́paścidasmai sutúkā aveṣangámanna índraḥ sakhyā́ váyaśca ǁna ghā rājendra ā dabhan no yā nu svasārā kṛṇavanta yonau |
āpaś cid asmai sutukā aveṣan gaman na indraḥ sakhyā vayaś ca ||न । घ॒ । राजा॑ । इन्द्रः॑ । आ । द॒भ॒त् । नः॒ । या । नु । स्वसा॑रा । कृ॒णव॑न्त । योनौ॑ ।
आपः॑ । चि॒त् । अ॒स्मै॒ । सु॒ऽतुकाः॑ । अ॒वे॒ष॒न् । गम॑त् । नः॒ । इन्द्रः॑ । स॒ख्या । वयः॑ । च॒ ॥न । घ । राजा । इन्द्रः । आ । दभत् । नः । या । नु । स्वसारा । कृणवन्त । योनौ ।
आपः । चित् । अस्मै । सुऽतुकाः । अवेषन् । गमत् । नः । इन्द्रः । सख्या । वयः । च ॥ná ǀ gha ǀ rā́jā ǀ índraḥ ǀ ā́ ǀ dabhat ǀ naḥ ǀ yā́ ǀ nú ǀ svásārā ǀ kṛṇávanta ǀ yónau ǀ
ā́paḥ ǀ cit ǀ asmai ǀ su-túkāḥ ǀ aveṣan ǀ gámat ǀ naḥ ǀ índraḥ ǀ sakhyā́ ǀ váyaḥ ǀ ca ǁna ǀ gha ǀ rājā ǀ indraḥ ǀ ā ǀ dabhat ǀ naḥ ǀ yā ǀ nu ǀ svasārā ǀ kṛṇavanta ǀ yonau ǀ
āpaḥ ǀ cit ǀ asmai ǀ su-tukāḥ ǀ aveṣan ǀ gamat ǀ naḥ ǀ indraḥ ǀ sakhyā ǀ vayaḥ ǀ ca ǁ1.178.2 Aṣṭaka 2.4.21.2Anuvāka 1.23.115
-
Ṛk 3
जेता॒ नृभि॒रिंद्रः॑ पृ॒त्सु शूरः॒ श्रोता॒ हवं॒ नाध॑मानस्य का॒रोः ।
प्रभ॑र्ता॒ रथं॑ दा॒शुष॑ उपा॒क उद्यं॑ता॒ गिरो॒ यदि॑ च॒ त्मना॒ भूत् ॥जेता नृभिर् इन्द्रः पृत्सु शूरः श्रोता हवं नाधमानस्य कारोः |
प्रभर्ता रथं दाशुष उपाक उद्यन्ता गिरो यदि च त्मना भूत् ||jétā nṛ́bhiríndraḥ pṛtsú śū́raḥ śrótā hávam nā́dhamānasya kāróḥ ǀ
prábhartā rátham dāśúṣa upāká údyantā gíro yádi ca tmánā bhū́t ǁjetā nṛbhir indraḥ pṛtsu śūraḥ śrotā havaṃ nādhamānasya kāroḥ |
prabhartā rathaṃ dāśuṣa upāka udyantā giro yadi ca tmanā bhūt ||जेता॑ । नृऽभिः॑ । इन्द्रः॑ । पृ॒त्ऽसु । शूरः॑ । श्रोता॑ । हव॑म् । नाध॑मानस्य । का॒रोः ।
प्रऽभ॑र्ता । रथ॑म् । दा॒शुषः॑ । उ॒पा॒के । उत्ऽय॑न्ता । गिरः॑ । यदि॑ । च॒ । त्मना॑ । भूत् ॥जेता । नृऽभिः । इन्द्रः । पृत्ऽसु । शूरः । श्रोता । हवम् । नाधमानस्य । कारोः ।
प्रऽभर्ता । रथम् । दाशुषः । उपाके । उत्ऽयन्ता । गिरः । यदि । च । त्मना । भूत् ॥jétā ǀ nṛ́-bhiḥ ǀ índraḥ ǀ pṛt-sú ǀ śū́raḥ ǀ śrótā ǀ hávam ǀ nā́dhamānasya ǀ kāróḥ ǀ
prá-bhartā ǀ rátham ǀ dāśúṣaḥ ǀ upāké ǀ út-yantā ǀ gíraḥ ǀ yádi ǀ ca ǀ tmánā ǀ bhū́t ǁjetā ǀ nṛ-bhiḥ ǀ indraḥ ǀ pṛt-su ǀ śūraḥ ǀ śrotā ǀ havam ǀ nādhamānasya ǀ kāroḥ ǀ
pra-bhartā ǀ ratham ǀ dāśuṣaḥ ǀ upāke ǀ ut-yantā ǀ giraḥ ǀ yadi ǀ ca ǀ tmanā ǀ bhūt ǁ1.178.3 Aṣṭaka 2.4.21.3Anuvāka 1.23.116
-
Ṛk 4
ए॒वा नृभि॒रिंद्रः॑ सुश्रव॒स्या प्र॑खा॒दः पृ॒क्षो अ॒भि मि॒त्रिणो॑ भूत् ।
स॒म॒र्य इ॒षः स्त॑वते॒ विवा॑चि सत्राक॒रो यज॑मानस्य॒ शंसः॑ ॥एवा नृभिर् इन्द्रः सुश्रवस्या प्रखादः पृक्षो अभि मित्रिणो भूत् |
समर्य इष स्तवते विवाचि सत्राकरो यजमानस्य शंसः ||evā́ nṛ́bhiríndraḥ suśravasyā́ prakhādáḥ pṛkṣó abhí mitríṇo bhūt ǀ
samaryá iṣáḥ stavate vívāci satrākaró yájamānasya śáṃsaḥ ǁevā nṛbhir indraḥ suśravasyā prakhādaḥ pṛkṣo abhi mitriṇo bhūt |
samarya iṣa stavate vivāci satrākaro yajamānasya śaṃsaḥ ||ए॒व । नृऽभिः॑ । इन्द्रः॑ । सु॒ऽश्र॒व॒स्या । प्र॒ऽखा॒दः । पृ॒क्षः । अ॒भि । मि॒त्रिणः॑ । भू॒त् ।
स॒ऽम॒र्ये । इ॒षः । स्त॒व॒ते॒ । विऽवा॑चि । स॒त्रा॒ऽक॒रः । यज॑मानस्य । शंसः॑ ॥एव । नृऽभिः । इन्द्रः । सुऽश्रवस्या । प्रऽखादः । पृक्षः । अभि । मित्रिणः । भूत् ।
सऽमर्ये । इषः । स्तवते । विऽवाचि । सत्राऽकरः । यजमानस्य । शंसः ॥evá ǀ nṛ́-bhiḥ ǀ índraḥ ǀ su-śravasyā́ ǀ pra-khādáḥ ǀ pṛkṣáḥ ǀ abhí ǀ mitríṇaḥ ǀ bhūt ǀ
sa-maryé ǀ iṣáḥ ǀ stavate ǀ ví-vāci ǀ satrā-karáḥ ǀ yájamānasya ǀ śáṃsaḥ ǁeva ǀ nṛ-bhiḥ ǀ indraḥ ǀ su-śravasyā ǀ pra-khādaḥ ǀ pṛkṣaḥ ǀ abhi ǀ mitriṇaḥ ǀ bhūt ǀ
sa-marye ǀ iṣaḥ ǀ stavate ǀ vi-vāci ǀ satrā-karaḥ ǀ yajamānasya ǀ śaṃsaḥ ǁ1.178.4 Aṣṭaka 2.4.21.4Anuvāka 1.23.117
-
Ṛk 5
त्वया॑ व॒यं म॑घवन्निंद्र॒ शत्रू॑न॒भि ष्या॑म मह॒तो मन्य॑मानान् ।
त्वं त्रा॒ता त्वमु॑ नो वृ॒धे भू॑र्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥त्वया वयम् मघवन्न् इन्द्र शत्रून् अभि ष्याम महतो मन्यमानान् |
त्वं त्राता त्वम् उ नो वृधे भूर् विद्यामेषं वृजनं जीरदानुम् ||tváyā vayám maghavannindra śátrūnabhí ṣyāma maható mányamānān ǀ
tvám trātā́ tvámu no vṛdhé bhūrvidyā́meṣám vṛjánam jīrádānum ǁtvayā vayam maghavann indra śatrūn abhi ṣyāma mahato manyamānān |
tvaṃ trātā tvam u no vṛdhe bhūr vidyāmeṣaṃ vṛjanaṃ jīradānum ||त्वया॑ । व॒यम् । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । शत्रू॑न् । अ॒भि । स्या॒म॒ । म॒ह॒तः । मन्य॑मानान् ।
त्वम् । त्रा॒ता । त्वम् । ऊं॒ इति॑ । नः॒ । वृ॒धे । भूः॒ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥त्वया । वयम् । मघऽवन् । इन्द्र । शत्रून् । अभि । स्याम । महतः । मन्यमानान् ।
त्वम् । त्राता । त्वम् । ऊं इति । नः । वृधे । भूः । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥tváyā ǀ vayám ǀ magha-van ǀ indra ǀ śátrūn ǀ abhí ǀ syāma ǀ mahatáḥ ǀ mányamānān ǀ
tvám ǀ trātā́ ǀ tvám ǀ ūṃ íti ǀ naḥ ǀ vṛdhé ǀ bhūḥ ǀ vidyā́ma ǀ iṣám ǀ vṛjánam ǀ jīrá-dānum ǁtvayā ǀ vayam ǀ magha-van ǀ indra ǀ śatrūn ǀ abhi ǀ syāma ǀ mahataḥ ǀ manyamānān ǀ
tvam ǀ trātā ǀ tvam ǀ ūṃ iti ǀ naḥ ǀ vṛdhe ǀ bhūḥ ǀ vidyāma ǀ iṣam ǀ vṛjanam ǀ jīra-dānum ǁ1.178.5 Aṣṭaka 2.4.21.5Anuvāka 1.23.118
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.