Ṛgveda · Maṇḍala 1 · Sūkta 178
Ṛk 1.178.5
Saṃhitā
त्वया॑ व॒यं म॑घवन्निंद्र॒ शत्रू॑न॒भि ष्या॑म मह॒तो मन्य॑मानान् ।
त्वं त्रा॒ता त्वमु॑ नो वृ॒धे भू॑र्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥
त्वया वयम् मघवन्न् इन्द्र शत्रून् अभि ष्याम महतो मन्यमानान् |
त्वं त्राता त्वम् उ नो वृधे भूर् विद्यामेषं वृजनं जीरदानुम् ||
tváyā vayám maghavannindra śátrūnabhí ṣyāma maható mányamānān ǀ
tvám trātā́ tvámu no vṛdhé bhūrvidyā́meṣám vṛjánam jīrádānum ǁ
tvayā vayam maghavann indra śatrūn abhi ṣyāma mahato manyamānān |
tvaṃ trātā tvam u no vṛdhe bhūr vidyāmeṣaṃ vṛjanaṃ jīradānum ||
Padapāṭha
त्वया॑ । व॒यम् । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । शत्रू॑न् । अ॒भि । स्या॒म॒ । म॒ह॒तः । मन्य॑मानान् ।
त्वम् । त्रा॒ता । त्वम् । ऊं॒ इति॑ । नः॒ । वृ॒धे । भूः॒ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥
त्वया । वयम् । मघऽवन् । इन्द्र । शत्रून् । अभि । स्याम । महतः । मन्यमानान् ।
त्वम् । त्राता । त्वम् । ऊं इति । नः । वृधे । भूः । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥
tváyā ǀ vayám ǀ magha-van ǀ indra ǀ śátrūn ǀ abhí ǀ syāma ǀ mahatáḥ ǀ mányamānān ǀ
tvám ǀ trātā́ ǀ tvám ǀ ūṃ íti ǀ naḥ ǀ vṛdhé ǀ bhūḥ ǀ vidyā́ma ǀ iṣám ǀ vṛjánam ǀ jīrá-dānum ǁ
tvayā ǀ vayam ǀ magha-van ǀ indra ǀ śatrūn ǀ abhi ǀ syāma ǀ mahataḥ ǀ manyamānān ǀ
tvam ǀ trātā ǀ tvam ǀ ūṃ iti ǀ naḥ ǀ vṛdhe ǀ bhūḥ ǀ vidyāma ǀ iṣam ǀ vṛjanam ǀ jīra-dānum ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.178.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.4.21.05
- Maṇḍala · Anuvāka · Ṛk
- 1.23.118
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.