Sūkta 61
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nodhas Gautama
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles paṅktiḥ (4, 6, 10, 12); virāṭtrisṭup (1, 14, 16); nicṛttriṣṭup (2, 7, 9); virāṭpaṅkti (3, 5, 15); bhurikpaṅkti (8, 11); nicṛtpaṅkti (13)
2nd set of styles triṣṭubh
-
Ṛk 1
अ॒स्मा इदु॒ प्र त॒वसे॑ तु॒राय॒ प्रयो॒ न ह॑र्मि॒ स्तोमं॒ माहि॑नाय ।
ऋची॑षमा॒याध्रि॑गव॒ ओह॒मिंद्रा॑य॒ ब्रह्मा॑णि रा॒तत॑मा ॥अस्मा इद् उ प्र तवसे तुराय प्रयो न हर्मि स्तोमम् माहिनाय |
ऋचीषमायाध्रिगव ओहम् इन्द्राय ब्रह्माणि राततमा ||asmā́ ídu prá taváse turā́ya práyo ná harmi stómam mā́hināya ǀ
ṛ́cīṣamāyā́dhrigava óhamíndrāya bráhmāṇi rātátamā ǁasmā id u pra tavase turāya prayo na harmi stomam māhināya |
ṛcīṣamāyādhrigava oham indrāya brahmāṇi rātatamā ||अ॒स्मै । इत् । ऊं॒ इति॑ । प्र । त॒वसे॑ । तु॒राय॑ । प्रयः॑ । न । ह॒र्मि॒ । स्तोम॑म् । माहि॑नाय ।
ऋची॑षमाय । अध्रि॑ऽगवे । ओह॑म् । इन्द्रा॑य । ब्रह्मा॑णि । रा॒तऽत॑मा ॥अस्मै । इत् । ऊं इति । प्र । तवसे । तुराय । प्रयः । न । हर्मि । स्तोमम् । माहिनाय ।
ऋचीषमाय । अध्रिऽगवे । ओहम् । इन्द्राय । ब्रह्माणि । रातऽतमा ॥asmái ǀ ít ǀ ūṃ íti ǀ prá ǀ taváse ǀ turā́ya ǀ práyaḥ ǀ ná ǀ harmi ǀ stómam ǀ mā́hināya ǀ
ṛ́cīṣamāya ǀ ádhri-gave ǀ óham ǀ índrāya ǀ bráhmāṇi ǀ rātá-tamā ǁasmai ǀ it ǀ ūṃ iti ǀ pra ǀ tavase ǀ turāya ǀ prayaḥ ǀ na ǀ harmi ǀ stomam ǀ māhināya ǀ
ṛcīṣamāya ǀ adhri-gave ǀ oham ǀ indrāya ǀ brahmāṇi ǀ rāta-tamā ǁ1.61.1 Aṣṭaka 1.4.27.1Anuvāka 1.11.22
-
Ṛk 2
अ॒स्मा इदु॒ प्रय॑ इव॒ प्र यं॑सि॒ भरा॑म्यांगू॒षं बाधे॑ सुवृ॒क्ति ।
इंद्रा॑य हृ॒दा मन॑सा मनी॒षा प्र॒त्नाय॒ पत्ये॒ धियो॑ मर्जयंत ॥अस्मा इद् उ प्रय इव प्र यंसि भराम्य् आङ्गूषम् बाधे सुवृक्ति |
इन्द्राय हृदा मनसा मनीषा प्रत्नाय पत्ये धियो मर्जयन्त ||asmā́ ídu práya iva prá yaṃsi bhárāmyāṅgūṣám bā́dhe suvṛktí ǀ
índrāya hṛdā́ mánasā manīṣā́ pratnā́ya pátye dhíyo marjayanta ǁasmā id u praya iva pra yaṃsi bharāmy āṅgūṣam bādhe suvṛkti |
indrāya hṛdā manasā manīṣā pratnāya patye dhiyo marjayanta ||अ॒स्मै । इत् । ऊं॒ इति॑ । प्रयः॑ऽइव । प्र । यं॒सि॒ । भरा॑मि । आ॒ङ्गू॒षम् । बाधे॑ । सु॒ऽवृ॒क्ति ।
इन्द्रा॑य । हृ॒दा । मन॑सा । म॒नी॒षा । प्र॒त्नाय॑ । पत्ये॑ । धियः॑ । म॒र्ज॒य॒न्त॒ ॥अस्मै । इत् । ऊं इति । प्रयःऽइव । प्र । यंसि । भरामि । आङ्गूषम् । बाधे । सुऽवृक्ति ।
इन्द्राय । हृदा । मनसा । मनीषा । प्रत्नाय । पत्ये । धियः । मर्जयन्त ॥asmái ǀ ít ǀ ūṃ íti ǀ práyaḥ-iva ǀ prá ǀ yaṃsi ǀ bhárāmi ǀ āṅgūṣám ǀ bā́dhe ǀ su-vṛktí ǀ
índrāya ǀ hṛdā́ ǀ mánasā ǀ manīṣā́ ǀ pratnā́ya ǀ pátye ǀ dhíyaḥ ǀ marjayanta ǁasmai ǀ it ǀ ūṃ iti ǀ prayaḥ-iva ǀ pra ǀ yaṃsi ǀ bharāmi ǀ āṅgūṣam ǀ bādhe ǀ su-vṛkti ǀ
indrāya ǀ hṛdā ǀ manasā ǀ manīṣā ǀ pratnāya ǀ patye ǀ dhiyaḥ ǀ marjayanta ǁ1.61.2 Aṣṭaka 1.4.27.2Anuvāka 1.11.23
-
Ṛk 3
अ॒स्मा इदु॒ त्यमु॑प॒मं स्व॒र्षां भरा॑म्यांगू॒षमा॒स्ये॑न ।
मंहि॑ष्ठ॒मच्छो॑क्तिभिर्मती॒नां सु॑वृ॒क्तिभिः॑ सू॒रिं वा॑वृ॒धध्यै॑ ॥अस्मा इद् उ त्यम् उपमं स्वर्षाम् भराम्य् आङ्गूषम् आस्येन |
मंहिष्ठम् अच्छोक्तिभिर् मतीनां सुवृक्तिभिः सूरिं वावृधध्यै ||asmā́ ídu tyámupamám svarṣā́m bhárāmyāṅgūṣámāsyéna ǀ
máṃhiṣṭhamácchoktibhirmatīnā́m suvṛktíbhiḥ sūrím vāvṛdhádhyai ǁasmā id u tyam upamaṃ svarṣām bharāmy āṅgūṣam āsyena |
maṃhiṣṭham acchoktibhir matīnāṃ suvṛktibhiḥ sūriṃ vāvṛdhadhyai ||अ॒स्मै । इत् । ऊं॒ इति॑ । त्यम् । उ॒प॒ऽमम् । स्वः॒ऽसाम् । भरा॑मि । आ॒ङ्गू॒षम् । आ॒स्ये॑न ।
मंहि॑ष्ठम् । अच्छो॑क्तिऽभिः । म॒ती॒नाम् । सु॒वृ॒क्तिऽभिः॑ । सू॒रिम् । व॒वृ॒धध्यै॑ ॥अस्मै । इत् । ऊं इति । त्यम् । उपऽमम् । स्वःऽसाम् । भरामि । आङ्गूषम् । आस्येन ।
मंहिष्ठम् । अच्छोक्तिऽभिः । मतीनाम् । सुवृक्तिऽभिः । सूरिम् । ववृधध्यै ॥asmái ǀ ít ǀ ūṃ íti ǀ tyám ǀ upa-mám ǀ svaḥ-sā́m ǀ bhárāmi ǀ āṅgūṣám ǀ āsyéna ǀ
máṃhiṣṭham ǀ ácchokti-bhiḥ ǀ matīnā́m ǀ suvṛktí-bhiḥ ǀ sūrím ǀ vavṛdhádhyai ǁasmai ǀ it ǀ ūṃ iti ǀ tyam ǀ upa-mam ǀ svaḥ-sām ǀ bharāmi ǀ āṅgūṣam ǀ āsyena ǀ
maṃhiṣṭham ǀ acchokti-bhiḥ ǀ matīnām ǀ suvṛkti-bhiḥ ǀ sūrim ǀ vavṛdhadhyai ǁ1.61.3 Aṣṭaka 1.4.27.3Anuvāka 1.11.24
-
Ṛk 4
अ॒स्मा इदु॒ स्तोमं॒ सं हि॑नोमि॒ रथं॒ न तष्टे॑व॒ तत्सि॑नाय ।
गिर॑श्च॒ गिर्वा॑हसे सुवृ॒क्तींद्रा॑य विश्वमि॒न्वं मेधि॑राय ॥अस्मा इद् उ स्तोमं सं हिनोमि रथं न तष्टेव तत्सिनाय |
गिरश् च गिर्वाहसे सुवृक्तीन्द्राय विश्वमिन्वम् मेधिराय ||asmā́ ídu stómam sám hinomi rátham ná táṣṭeva tátsināya ǀ
gíraśca gírvāhase suvṛktī́ndrāya viśvaminvám médhirāya ǁasmā id u stomaṃ saṃ hinomi rathaṃ na taṣṭeva tatsināya |
giraś ca girvāhase suvṛktīndrāya viśvaminvam medhirāya ||अ॒स्मै । इत् । ऊं॒ इति॑ । स्तोम॑म् । सम् । हि॒नो॒मि॒ । रथ॑म् । न । तष्टा॑ऽइव । तत्ऽसि॑नाय ।
गिरः॑ । च॒ । गिर्वा॑हसे । सु॒ऽवृ॒क्ति । इन्द्रा॑य । वि॒श्व॒म्ऽइ॒न्वम् । मेधि॑राय ॥अस्मै । इत् । ऊं इति । स्तोमम् । सम् । हिनोमि । रथम् । न । तष्टाऽइव । तत्ऽसिनाय ।
गिरः । च । गिर्वाहसे । सुऽवृक्ति । इन्द्राय । विश्वम्ऽइन्वम् । मेधिराय ॥asmái ǀ ít ǀ ūṃ íti ǀ stómam ǀ sám ǀ hinomi ǀ rátham ǀ ná ǀ táṣṭā-iva ǀ tát-sināya ǀ
gíraḥ ǀ ca ǀ gírvāhase ǀ su-vṛktí ǀ índrāya ǀ viśvam-invám ǀ médhirāya ǁasmai ǀ it ǀ ūṃ iti ǀ stomam ǀ sam ǀ hinomi ǀ ratham ǀ na ǀ taṣṭā-iva ǀ tat-sināya ǀ
giraḥ ǀ ca ǀ girvāhase ǀ su-vṛkti ǀ indrāya ǀ viśvam-invam ǀ medhirāya ǁ1.61.4 Aṣṭaka 1.4.27.4Anuvāka 1.11.25
-
Ṛk 5
अ॒स्मा इदु॒ सप्ति॑मिव श्रव॒स्येंद्रा॑या॒र्कं जु॒ह्वा॒३॒॑ समं॑जे ।
वी॒रं दा॒नौक॑सं वं॒दध्यै॑ पु॒रां गू॒र्तश्र॑वसं द॒र्माणं॑ ॥अस्मा इद् उ सप्तिम् इव श्रवस्येन्द्रायार्कं जुह्वा सम् अञ्जे |
वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम् ||asmā́ ídu sáptimiva śravasyéndrāyārkám juhvā́ sámañje ǀ
vīrám dānáukasam vandádhyai purā́m gūrtáśravasam darmā́ṇam ǁasmā id u saptim iva śravasyendrāyārkaṃ juhvā sam añje |
vīraṃ dānaukasaṃ vandadhyai purāṃ gūrtaśravasaṃ darmāṇam ||अ॒स्मै । इत् । ऊं॒ इति॑ । सप्ति॑म्ऽइव । श्र॒व॒स्या । इन्द्रा॑य । अ॒र्कम् । जु॒ह्वा॑ । सम् । अ॒ञ्जे॒ ।
वी॒रम् । दा॒नऽओ॑कसम् । व॒न्दध्यै॑ । पु॒राम् । गू॒र्तऽश्र॑वसम् । द॒र्माण॑म् ॥अस्मै । इत् । ऊं इति । सप्तिम्ऽइव । श्रवस्या । इन्द्राय । अर्कम् । जुह्वा । सम् । अञ्जे ।
वीरम् । दानऽओकसम् । वन्दध्यै । पुराम् । गूर्तऽश्रवसम् । दर्माणम् ॥asmái ǀ ít ǀ ūṃ íti ǀ sáptim-iva ǀ śravasyā́ ǀ índrāya ǀ arkám ǀ juhvā́ ǀ sám ǀ añje ǀ
vīrám ǀ dāná-okasam ǀ vandádhyai ǀ purā́m ǀ gūrtá-śravasam ǀ darmā́ṇam ǁasmai ǀ it ǀ ūṃ iti ǀ saptim-iva ǀ śravasyā ǀ indrāya ǀ arkam ǀ juhvā ǀ sam ǀ añje ǀ
vīram ǀ dāna-okasam ǀ vandadhyai ǀ purām ǀ gūrta-śravasam ǀ darmāṇam ǁ1.61.5 Aṣṭaka 1.4.27.5Anuvāka 1.11.26
-
Ṛk 6
अ॒स्मा इदु॒ त्वष्टा॑ तक्ष॒द्वज्रं॒ स्वप॑स्तमं स्व॒र्यं१॒॑ रणा॑य ।
वृ॒त्रस्य॑ चिद्वि॒दद्येन॒ मर्म॑ तु॒जन्नीशा॑नस्तुज॒ता कि॑ये॒धाः ॥अस्मा इद् उ त्वष्टा तक्षद् वज्रं स्वपस्तमं स्वर्यं रणाय |
वृत्रस्य चिद् विदद् येन मर्म तुजन्न् ईशानस् तुजता कियेधाः ||asmā́ ídu tváṣṭā takṣadvájram svápastamam svaryám ráṇāya ǀ
vṛtrásya cidvidádyéna márma tujánnī́śānastujatā́ kiyedhā́ḥ ǁasmā id u tvaṣṭā takṣad vajraṃ svapastamaṃ svaryaṃ raṇāya |
vṛtrasya cid vidad yena marma tujann īśānas tujatā kiyedhāḥ ||अ॒स्मै । इत् । ऊं॒ इति॑ । त्वष्टा॑ । त॒क्ष॒त् । वज्र॑म् । स्वपः॑ऽतमम् । स्व॒र्य॑म् । रणा॑य ।
वृ॒त्रस्य॑ । चि॒त् । वि॒दत् । येन॑ । मर्म॑ । तु॒जन् । ईशा॑नः । तु॒ज॒ता । कि॒ये॒धाः ॥अस्मै । इत् । ऊं इति । त्वष्टा । तक्षत् । वज्रम् । स्वपःऽतमम् । स्वर्यम् । रणाय ।
वृत्रस्य । चित् । विदत् । येन । मर्म । तुजन् । ईशानः । तुजता । कियेधाः ॥asmái ǀ ít ǀ ūṃ íti ǀ tváṣṭā ǀ takṣat ǀ vájram ǀ svápaḥ-tamam ǀ svaryám ǀ ráṇāya ǀ
vṛtrásya ǀ cit ǀ vidát ǀ yéna ǀ márma ǀ tuján ǀ ī́śānaḥ ǀ tujatā́ ǀ kiyedhā́ḥ ǁasmai ǀ it ǀ ūṃ iti ǀ tvaṣṭā ǀ takṣat ǀ vajram ǀ svapaḥ-tamam ǀ svaryam ǀ raṇāya ǀ
vṛtrasya ǀ cit ǀ vidat ǀ yena ǀ marma ǀ tujan ǀ īśānaḥ ǀ tujatā ǀ kiyedhāḥ ǁ1.61.6 Aṣṭaka 1.4.28.1Anuvāka 1.11.27
-
Ṛk 7
अ॒स्येदु॑ मा॒तुः सव॑नेषु स॒द्यो म॒हः पि॒तुं प॑पि॒वांचार्वन्ना॑ ।
मु॒षा॒यद्विष्णुः॑ पच॒तं सही॑या॒न्विध्य॑द्वरा॒हं ति॒रो अद्रि॒मस्ता॑ ॥अस्येद् उ मातुः सवनेषु सद्यो महः पितुम् पपिवाञ् चार्व् अन्ना |
मुषायद् विष्णुः पचतं सहीयान् विध्यद् वराहं तिरो अद्रिम् अस्ता ||asyédu mātúḥ sávaneṣu sadyó maháḥ pitúm papivā́ñcā́rvánnā ǀ
muṣāyádvíṣṇuḥ pacatám sáhīyānvídhyadvarāhám tiró ádrimástā ǁasyed u mātuḥ savaneṣu sadyo mahaḥ pitum papivāñ cārv annā |
muṣāyad viṣṇuḥ pacataṃ sahīyān vidhyad varāhaṃ tiro adrim astā ||अ॒स्य । इत् । ऊं॒ इति॑ । मा॒तुः । सव॑नेषु । स॒द्यः । म॒हः । पि॒तुम् । प॒पि॒ऽवान् । चारु॑ । अन्ना॑ ।
मु॒षा॒यत् । विष्णुः॑ । प॒च॒तम् । सही॑यान् । विध्य॑त् । व॒रा॒हम् । ति॒रः । अद्रि॑म् । अस्ता॑ ॥अस्य । इत् । ऊं इति । मातुः । सवनेषु । सद्यः । महः । पितुम् । पपिऽवान् । चारु । अन्ना ।
मुषायत् । विष्णुः । पचतम् । सहीयान् । विध्यत् । वराहम् । तिरः । अद्रिम् । अस्ता ॥asyá ǀ ít ǀ ūṃ íti ǀ mātúḥ ǀ sávaneṣu ǀ sadyáḥ ǀ maháḥ ǀ pitúm ǀ papi-vā́n ǀ cā́ru ǀ ánnā ǀ
muṣāyát ǀ víṣṇuḥ ǀ pacatám ǀ sáhīyān ǀ vídhyat ǀ varāhám ǀ tiráḥ ǀ ádrim ǀ ástā ǁasya ǀ it ǀ ūṃ iti ǀ mātuḥ ǀ savaneṣu ǀ sadyaḥ ǀ mahaḥ ǀ pitum ǀ papi-vān ǀ cāru ǀ annā ǀ
muṣāyat ǀ viṣṇuḥ ǀ pacatam ǀ sahīyān ǀ vidhyat ǀ varāham ǀ tiraḥ ǀ adrim ǀ astā ǁ1.61.7 Aṣṭaka 1.4.28.2Anuvāka 1.11.28
-
Ṛk 8
अ॒स्मा इदु॒ ग्नाश्चि॑द्दे॒वप॑त्नी॒रिंद्रा॑या॒र्कम॑हि॒हत्य॑ ऊवुः ।
परि॒ द्यावा॑पृथि॒वी ज॑भ्र उ॒र्वी नास्य॒ ते म॑हि॒मानं॒ परि॑ ष्टः ॥अस्मा इद् उ ग्नाश् चिद् देवपत्नीर् इन्द्रायार्कम् अहिहत्य ऊवुः |
परि द्यावापृथिवी जभ्र उर्वी नास्य ते महिमानम् परि ष्टः ||asmā́ ídu gnā́ściddevápatnīríndrāyārkámahihátya ūvuḥ ǀ
pári dyā́vāpṛthivī́ jabhra urvī́ nā́sya té mahimā́nam pári ṣṭaḥ ǁasmā id u gnāś cid devapatnīr indrāyārkam ahihatya ūvuḥ |
pari dyāvāpṛthivī jabhra urvī nāsya te mahimānam pari ṣṭaḥ ||अ॒स्मै । इत् । ऊं॒ इति॑ । ग्नाः । चि॒त् । दे॒वऽप॑त्नीः । इन्द्रा॑य । अ॒र्कम् । अ॒हि॒ऽहत्ये॑ । ऊ॒वु॒रित्यू॑वुः ।
परि॑ । द्यावा॑पृथि॒वी इति॑ । ज॒भ्रे॒ । उ॒र्वी इति॑ । न । अ॒स्य॒ । ते इति॑ । म॒हि॒मान॑म् । परि॑ । स्त॒ इति॑ स्तः ॥अस्मै । इत् । ऊं इति । ग्नाः । चित् । देवऽपत्नीः । इन्द्राय । अर्कम् । अहिऽहत्ये । ऊवुरित्यूवुः ।
परि । द्यावापृथिवी इति । जभ्रे । उर्वी इति । न । अस्य । ते इति । महिमानम् । परि । स्त इति स्तः ॥asmái ǀ ít ǀ ūṃ íti ǀ gnā́ḥ ǀ cit ǀ devá-patnīḥ ǀ índrāya ǀ arkám ǀ ahi-hátye ǀ ūvurítyūvuḥ ǀ
pári ǀ dyā́vāpṛthivī́ íti ǀ jabhre ǀ urvī́ íti ǀ ná ǀ asya ǀ té íti ǀ mahimā́nam ǀ pári ǀ sta íti staḥ ǁasmai ǀ it ǀ ūṃ iti ǀ gnāḥ ǀ cit ǀ deva-patnīḥ ǀ indrāya ǀ arkam ǀ ahi-hatye ǀ ūvurityūvuḥ ǀ
pari ǀ dyāvāpṛthivī iti ǀ jabhre ǀ urvī iti ǀ na ǀ asya ǀ te iti ǀ mahimānam ǀ pari ǀ sta iti staḥ ǁ1.61.8 Aṣṭaka 1.4.28.3Anuvāka 1.11.29
-
Ṛk 9
अ॒स्येदे॒व प्र रि॑रिचे महि॒त्वं दि॒वस्पृ॑थि॒व्याः पर्यं॒तरि॑क्षात् ।
स्व॒राळिंद्रो॒ दम॒ आ वि॒श्वगू॑र्तः स्व॒रिरम॑त्रो ववक्षे॒ रणा॑य ॥अस्येद् एव प्र रिरिचे महित्वं दिवस् पृथिव्याः पर्य् अन्तरिक्षात् |
स्वराऌ इन्द्रो दम आ विश्वगूर्तः स्वरिर् अमत्रो ववक्षे रणाय ||asyédevá prá ririce mahitvám diváspṛthivyā́ḥ páryantárikṣāt ǀ
svarā́ḷíndro dáma ā́ viśvágūrtaḥ svarírámatro vavakṣe ráṇāya ǁasyed eva pra ririce mahitvaṃ divas pṛthivyāḥ pary antarikṣāt |
svarāḷ indro dama ā viśvagūrtaḥ svarir amatro vavakṣe raṇāya ||अ॒स्य । इत् । ए॒व । प्र । रि॒रि॒चे॒ । म॒हि॒ऽत्वम् । दि॒वः । पृ॒थि॒व्याः । परि॑ । अ॒न्तरि॑क्षात् ।
स्व॒ऽराट् । इन्द्रः॑ । दमे॑ । आ । वि॒श्वऽगू॑र्तः । सु॒ऽअ॒रिः । अम॑त्रः । व॒व॒क्षे॒ । रणा॑य ॥अस्य । इत् । एव । प्र । रिरिचे । महिऽत्वम् । दिवः । पृथिव्याः । परि । अन्तरिक्षात् ।
स्वऽराट् । इन्द्रः । दमे । आ । विश्वऽगूर्तः । सुऽअरिः । अमत्रः । ववक्षे । रणाय ॥asyá ǀ ít ǀ evá ǀ prá ǀ ririce ǀ mahi-tvám ǀ diváḥ ǀ pṛthivyā́ḥ ǀ pári ǀ antárikṣāt ǀ
sva-rā́ṭ ǀ índraḥ ǀ dáme ǀ ā́ ǀ viśvá-gūrtaḥ ǀ su-aríḥ ǀ ámatraḥ ǀ vavakṣe ǀ ráṇāya ǁasya ǀ it ǀ eva ǀ pra ǀ ririce ǀ mahi-tvam ǀ divaḥ ǀ pṛthivyāḥ ǀ pari ǀ antarikṣāt ǀ
sva-rāṭ ǀ indraḥ ǀ dame ǀ ā ǀ viśva-gūrtaḥ ǀ su-ariḥ ǀ amatraḥ ǀ vavakṣe ǀ raṇāya ǁ1.61.9 Aṣṭaka 1.4.28.4Anuvāka 1.11.30
-
Ṛk 10
अ॒स्येदे॒व शव॑सा शु॒षंतं॒ वि वृ॑श्च॒द्वज्रे॑ण वृ॒त्रमिंद्रः॑ ।
गा न व्रा॒णा अ॒वनी॑रमुंचद॒भि श्रवो॑ दा॒वने॒ सचे॑ताः ॥अस्येद् एव शवसा शुषन्तं वि वृश्चद् वज्रेण वृत्रम् इन्द्रः |
गा न व्राणा अवनीर् अमुञ्चद् अभि श्रवो दावने सचेताः ||asyédevá śávasā śuṣántam ví vṛścadvájreṇa vṛtrámíndraḥ ǀ
gā́ ná vrāṇā́ avánīramuñcadabhí śrávo dāváne sácetāḥ ǁasyed eva śavasā śuṣantaṃ vi vṛścad vajreṇa vṛtram indraḥ |
gā na vrāṇā avanīr amuñcad abhi śravo dāvane sacetāḥ ||अ॒स्य । इत् । ए॒व । शव॑सा । शु॒षन्त॑म् । वि । वृ॒श्च॒त् । वज्रे॑ण । वृ॒त्रम् । इन्द्रः॑ ।
गाः । न । व्रा॒णाः । अ॒वनीः॑ । अ॒मु॒ञ्च॒त् । अ॒भि । श्रवः॑ । दा॒वने॑ । सऽचे॑ताः ॥अस्य । इत् । एव । शवसा । शुषन्तम् । वि । वृश्चत् । वज्रेण । वृत्रम् । इन्द्रः ।
गाः । न । व्राणाः । अवनीः । अमुञ्चत् । अभि । श्रवः । दावने । सऽचेताः ॥asyá ǀ ít ǀ evá ǀ śávasā ǀ śuṣántam ǀ ví ǀ vṛścat ǀ vájreṇa ǀ vṛtrám ǀ índraḥ ǀ
gā́ḥ ǀ ná ǀ vrāṇā́ḥ ǀ avánīḥ ǀ amuñcat ǀ abhí ǀ śrávaḥ ǀ dāváne ǀ sá-cetāḥ ǁasya ǀ it ǀ eva ǀ śavasā ǀ śuṣantam ǀ vi ǀ vṛścat ǀ vajreṇa ǀ vṛtram ǀ indraḥ ǀ
gāḥ ǀ na ǀ vrāṇāḥ ǀ avanīḥ ǀ amuñcat ǀ abhi ǀ śravaḥ ǀ dāvane ǀ sa-cetāḥ ǁ1.61.10 Aṣṭaka 1.4.28.5Anuvāka 1.11.31
-
Ṛk 11
अ॒स्येदु॑ त्वे॒षसा॑ रंत॒ सिंध॑वः॒ परि॒ यद्वज्रे॑ण सी॒मय॑च्छत् ।
ई॒शा॒न॒कृद्दा॒शुषे॑ दश॒स्यंतु॒र्वीत॑ये गा॒धं तु॒र्वणिः॑ कः ॥अस्येद् उ त्वेषसा रन्त सिन्धवः परि यद् वज्रेण सीम् अयच्छत् |
ईशानकृद् दाशुषे दशस्यन् तुर्वीतये गाधं तुर्वणिः कः ||asyédu tveṣásā ranta síndhavaḥ pári yádvájreṇa sīmáyacchat ǀ
īśānakṛ́ddāśúṣe daśasyánturvī́taye gādhám turváṇiḥ kaḥ ǁasyed u tveṣasā ranta sindhavaḥ pari yad vajreṇa sīm ayacchat |
īśānakṛd dāśuṣe daśasyan turvītaye gādhaṃ turvaṇiḥ kaḥ ||अ॒स्य । इत् । ऊं॒ इति॑ । त्वे॒षसा॑ । र॒न्त॒ । सिन्ध॑वः । परि॑ । यत् । वज्रे॑ण । सी॒म् । अय॑च्छत् ।
ई॒शा॒न॒ऽकृत् । दा॒शुषे॑ । द॒श॒स्यन् । तु॒र्वीत॑ये । गा॒धम् । तु॒र्वणिः॑ । क॒रिति॑ कः ॥अस्य । इत् । ऊं इति । त्वेषसा । रन्त । सिन्धवः । परि । यत् । वज्रेण । सीम् । अयच्छत् ।
ईशानऽकृत् । दाशुषे । दशस्यन् । तुर्वीतये । गाधम् । तुर्वणिः । करिति कः ॥asyá ǀ ít ǀ ūṃ íti ǀ tveṣásā ǀ ranta ǀ síndhavaḥ ǀ pári ǀ yát ǀ vájreṇa ǀ sīm ǀ áyacchat ǀ
īśāna-kṛ́t ǀ dāśúṣe ǀ daśasyán ǀ turvī́taye ǀ gādhám ǀ turváṇiḥ ǀ karíti kaḥ ǁasya ǀ it ǀ ūṃ iti ǀ tveṣasā ǀ ranta ǀ sindhavaḥ ǀ pari ǀ yat ǀ vajreṇa ǀ sīm ǀ ayacchat ǀ
īśāna-kṛt ǀ dāśuṣe ǀ daśasyan ǀ turvītaye ǀ gādham ǀ turvaṇiḥ ǀ kariti kaḥ ǁ1.61.11 Aṣṭaka 1.4.29.1Anuvāka 1.11.32
-
Ṛk 12
अ॒स्मा इदु॒ प्र भ॑रा॒ तूतु॑जानो वृ॒त्राय॒ वज्र॒मीशा॑नः किये॒धाः ।
गोर्न पर्व॒ वि र॑दा तिर॒श्चेष्य॒न्नर्णां॑स्य॒पां च॒रध्यै॑ ॥अस्मा इद् उ प्र भरा तूतुजानो वृत्राय वज्रम् ईशानः कियेधाः |
गोर् न पर्व वि रदा तिरश्चेष्यन्न् अर्णांस्य् अपां चरध्यै ||asmā́ ídu prá bharā tū́tujāno vṛtrā́ya vájramī́śānaḥ kiyedhā́ḥ ǀ
górná párva ví radā tiraścéṣyannárṇāṃsyapā́m carádhyai ǁasmā id u pra bharā tūtujāno vṛtrāya vajram īśānaḥ kiyedhāḥ |
gor na parva vi radā tiraśceṣyann arṇāṃsy apāṃ caradhyai ||अ॒स्मै । इत् । ऊं॒ इति॑ । प्र । भ॒र॒ । तूतु॑जानः । वृ॒त्राय॑ । वज्र॑म् । ईशा॑नः । कि॒ये॒धाः ।
गोः । न । पर्व॑ । वि । र॒द॒ । ति॒र॒श्चा । इष्य॑न् । अर्णां॑सि । अ॒पाम् । च॒रध्यै॑ ॥अस्मै । इत् । ऊं इति । प्र । भर । तूतुजानः । वृत्राय । वज्रम् । ईशानः । कियेधाः ।
गोः । न । पर्व । वि । रद । तिरश्चा । इष्यन् । अर्णांसि । अपाम् । चरध्यै ॥asmái ǀ ít ǀ ūṃ íti ǀ prá ǀ bhara ǀ tū́tujānaḥ ǀ vṛtrā́ya ǀ vájram ǀ ī́śānaḥ ǀ kiyedhā́ḥ ǀ
góḥ ǀ ná ǀ párva ǀ ví ǀ rada ǀ tiraścā́ ǀ íṣyan ǀ árṇāṃsi ǀ apā́m ǀ carádhyai ǁasmai ǀ it ǀ ūṃ iti ǀ pra ǀ bhara ǀ tūtujānaḥ ǀ vṛtrāya ǀ vajram ǀ īśānaḥ ǀ kiyedhāḥ ǀ
goḥ ǀ na ǀ parva ǀ vi ǀ rada ǀ tiraścā ǀ iṣyan ǀ arṇāṃsi ǀ apām ǀ caradhyai ǁ1.61.12 Aṣṭaka 1.4.29.2Anuvāka 1.11.33
-
Ṛk 13
अ॒स्येदु॒ प्र ब्रू॑हि पू॒र्व्याणि॑ तु॒रस्य॒ कर्मा॑णि॒ नव्य॑ उ॒क्थैः ।
यु॒धे यदि॑ष्णा॒न आयु॑धान्यृघा॒यमा॑णो निरि॒णाति॒ शत्रू॑न् ॥अस्येद् उ प्र ब्रूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः |
युधे यद् इष्णान आयुधान्य् ऋघायमाणो निरिणाति शत्रून् ||asyédu prá brūhi pūrvyā́ṇi turásya kármāṇi návya uktháiḥ ǀ
yudhé yádiṣṇāná ā́yudhānyṛghāyámāṇo niriṇā́ti śátrūn ǁasyed u pra brūhi pūrvyāṇi turasya karmāṇi navya ukthaiḥ |
yudhe yad iṣṇāna āyudhāny ṛghāyamāṇo niriṇāti śatrūn ||अ॒स्य । इत् । ऊं॒ इति॑ । प्र । ब्रू॒हि॒ । पू॒र्व्याणि॑ । तु॒रस्य॑ । कर्मा॑णि । नव्यः॑ । उ॒क्थैः ।
यु॒धे । यत् । इ॒ष्णा॒नः । आयु॑धानि । ऋ॒घा॒यमा॑णः । नि॒ऽरि॒णाति॑ । शत्रू॑न् ॥अस्य । इत् । ऊं इति । प्र । ब्रूहि । पूर्व्याणि । तुरस्य । कर्माणि । नव्यः । उक्थैः ।
युधे । यत् । इष्णानः । आयुधानि । ऋघायमाणः । निऽरिणाति । शत्रून् ॥asyá ǀ ít ǀ ūṃ íti ǀ prá ǀ brūhi ǀ pūrvyā́ṇi ǀ turásya ǀ kármāṇi ǀ návyaḥ ǀ uktháiḥ ǀ
yudhé ǀ yát ǀ iṣṇānáḥ ǀ ā́yudhāni ǀ ṛghāyámāṇaḥ ǀ ni-riṇā́ti ǀ śátrūn ǁasya ǀ it ǀ ūṃ iti ǀ pra ǀ brūhi ǀ pūrvyāṇi ǀ turasya ǀ karmāṇi ǀ navyaḥ ǀ ukthaiḥ ǀ
yudhe ǀ yat ǀ iṣṇānaḥ ǀ āyudhāni ǀ ṛghāyamāṇaḥ ǀ ni-riṇāti ǀ śatrūn ǁ1.61.13 Aṣṭaka 1.4.29.3Anuvāka 1.11.34
-
Ṛk 14
अ॒स्येदु॑ भि॒या गि॒रय॑श्च दृ॒ळ्हा द्यावा॑ च॒ भूमा॑ ज॒नुष॑स्तुजेते ।
उपो॑ वे॒नस्य॒ जोगु॑वान ओ॒णिं स॒द्यो भु॑वद्वी॒र्या॑य नो॒धाः ॥अस्येद् उ भिया गिरयश् च दृऌहा द्यावा च भूमा जनुषस् तुजेते |
उपो वेनस्य जोगुवान ओणिं सद्यो भुवद् वीर्याय नोधाः ||asyédu bhiyā́ giráyaśca dṛḷhā́ dyā́vā ca bhū́mā janúṣastujete ǀ
úpo venásya jóguvāna oṇím sadyó bhuvadvīryā́ya nodhā́ḥ ǁasyed u bhiyā girayaś ca dṛḷhā dyāvā ca bhūmā januṣas tujete |
upo venasya joguvāna oṇiṃ sadyo bhuvad vīryāya nodhāḥ ||अ॒स्य । इत् । ऊं॒ इति॑ । भि॒या । गि॒रयः॑ । च॒ । दृ॒ळ्हाः । द्यावा॑ । च॒ । भूम॑ । ज॒नुषः॑ । तु॒जे॒ते॒ इति॑ ।
उपो॒ इति॑ । वे॒नस्य॑ । जोगु॑वानः । ओ॒णिम् । स॒द्यः । भु॒व॒त् । वी॒र्या॑य । नो॒धाः ॥अस्य । इत् । ऊं इति । भिया । गिरयः । च । दृळ्हाः । द्यावा । च । भूम । जनुषः । तुजेते इति ।
उपो इति । वेनस्य । जोगुवानः । ओणिम् । सद्यः । भुवत् । वीर्याय । नोधाः ॥asyá ǀ ít ǀ ūṃ íti ǀ bhiyā́ ǀ giráyaḥ ǀ ca ǀ dṛḷhā́ḥ ǀ dyā́vā ǀ ca ǀ bhū́ma ǀ janúṣaḥ ǀ tujete íti ǀ
úpo íti ǀ venásya ǀ jóguvānaḥ ǀ oṇím ǀ sadyáḥ ǀ bhuvat ǀ vīryā́ya ǀ nodhā́ḥ ǁasya ǀ it ǀ ūṃ iti ǀ bhiyā ǀ girayaḥ ǀ ca ǀ dṛḷhāḥ ǀ dyāvā ǀ ca ǀ bhūma ǀ januṣaḥ ǀ tujete iti ǀ
upo iti ǀ venasya ǀ joguvānaḥ ǀ oṇim ǀ sadyaḥ ǀ bhuvat ǀ vīryāya ǀ nodhāḥ ǁ1.61.14 Aṣṭaka 1.4.29.4Anuvāka 1.11.35
-
Ṛk 15
अ॒स्मा इदु॒ त्यदनु॑ दाय्येषा॒मेको॒ यद्व॒व्ने भूरे॒रीशा॑नः ।
प्रैत॑शं॒ सूर्ये॑ पस्पृधा॒नं सौव॑श्व्ये॒ सुष्वि॑माव॒दिंद्रः॑ ॥अस्मा इद् उ त्यद् अनु दाय्य् एषाम् एको यद् वव्ने भूरेर् ईशानः |
प्रैतशं सूर्ये पस्पृधानं सौवश्व्ये सुष्विम् आवद् इन्द्रः ||asmā́ ídu tyádánu dāyyeṣāméko yádvavné bhū́rerī́śānaḥ ǀ
práitaśam sū́rye paspṛdhānám sáuvaśvye súṣvimāvadíndraḥ ǁasmā id u tyad anu dāyy eṣām eko yad vavne bhūrer īśānaḥ |
praitaśaṃ sūrye paspṛdhānaṃ sauvaśvye suṣvim āvad indraḥ ||अ॒स्मै । इत् । ऊं॒ इति॑ । त्यत् । अनु॑ । दा॒यि॒ । ए॒षा॒म् । एकः॑ । यत् । व॒व्ने । भूरेः॑ । ईशा॑नः ।
प्र । एत॑शम् । सूर्ये॑ । प॒स्पृ॒धा॒नम् । सौव॑श्व्ये । सुस्वि॑म् । आ॒व॒त् । इन्द्रः॑ ॥अस्मै । इत् । ऊं इति । त्यत् । अनु । दायि । एषाम् । एकः । यत् । वव्ने । भूरेः । ईशानः ।
प्र । एतशम् । सूर्ये । पस्पृधानम् । सौवश्व्ये । सुस्विम् । आवत् । इन्द्रः ॥asmái ǀ ít ǀ ūṃ íti ǀ tyát ǀ ánu ǀ dāyi ǀ eṣām ǀ ékaḥ ǀ yát ǀ vavné ǀ bhū́reḥ ǀ ī́śānaḥ ǀ
prá ǀ étaśam ǀ sū́rye ǀ paspṛdhānám ǀ sáuvaśvye ǀ súsvim ǀ āvat ǀ índraḥ ǁasmai ǀ it ǀ ūṃ iti ǀ tyat ǀ anu ǀ dāyi ǀ eṣām ǀ ekaḥ ǀ yat ǀ vavne ǀ bhūreḥ ǀ īśānaḥ ǀ
pra ǀ etaśam ǀ sūrye ǀ paspṛdhānam ǀ sauvaśvye ǀ susvim ǀ āvat ǀ indraḥ ǁ1.61.15 Aṣṭaka 1.4.29.5Anuvāka 1.11.36
-
Ṛk 16
ए॒वा ते॑ हारियोजना सुवृ॒क्तींद्र॒ ब्रह्मा॑णि॒ गोत॑मासो अक्रन् ।
ऐषु॑ वि॒श्वपे॑शसं॒ धियं॑ धाः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥एवा ते हारियोजना सुवृक्तीन्द्र ब्रह्माणि गोतमासो अक्रन् |
ऐषु विश्वपेशसं धियं धाः प्रातर् मक्षू धियावसुर् जगम्यात् ||evā́ te hāriyojanā suvṛktī́ndra bráhmāṇi gótamāso akran ǀ
áiṣu viśvápeśasam dhíyam dhāḥ prātármakṣū́ dhiyā́vasurjagamyāt ǁevā te hāriyojanā suvṛktīndra brahmāṇi gotamāso akran |
aiṣu viśvapeśasaṃ dhiyaṃ dhāḥ prātar makṣū dhiyāvasur jagamyāt ||ए॒व । ते॒ । हा॒रि॒ऽयो॒ज॒न॒ । सु॒ऽवृ॒क्ति । इन्द्र॑ । ब्रह्मा॑णि । गोत॑मासः । अ॒क्र॒न् ।
आ । ए॒षु॒ । वि॒श्वऽपे॑शसम् । धिय॑म् । धाः॒ । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥एव । ते । हारिऽयोजन । सुऽवृक्ति । इन्द्र । ब्रह्माणि । गोतमासः । अक्रन् ।
आ । एषु । विश्वऽपेशसम् । धियम् । धाः । प्रातः । मक्षु । धियाऽवसुः । जगम्यात् ॥evá ǀ te ǀ hāri-yojana ǀ su-vṛktí ǀ índra ǀ bráhmāṇi ǀ gótamāsaḥ ǀ akran ǀ
ā́ ǀ eṣu ǀ viśvá-peśasam ǀ dhíyam ǀ dhāḥ ǀ prātáḥ ǀ makṣú ǀ dhiyā́-vasuḥ ǀ jagamyāt ǁeva ǀ te ǀ hāri-yojana ǀ su-vṛkti ǀ indra ǀ brahmāṇi ǀ gotamāsaḥ ǀ akran ǀ
ā ǀ eṣu ǀ viśva-peśasam ǀ dhiyam ǀ dhāḥ ǀ prātaḥ ǀ makṣu ǀ dhiyā-vasuḥ ǀ jagamyāt ǁ1.61.16 Aṣṭaka 1.4.29.6Anuvāka 1.11.37
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.