Ṛk 1.61.6
Saṃhitā
अ॒स्मा इदु॒ त्वष्टा॑ तक्ष॒द्वज्रं॒ स्वप॑स्तमं स्व॒र्यं१॒॑ रणा॑य ।
वृ॒त्रस्य॑ चिद्वि॒दद्येन॒ मर्म॑ तु॒जन्नीशा॑नस्तुज॒ता कि॑ये॒धाः ॥
अस्मा इद् उ त्वष्टा तक्षद् वज्रं स्वपस्तमं स्वर्यं रणाय |
वृत्रस्य चिद् विदद् येन मर्म तुजन्न् ईशानस् तुजता कियेधाः ||
asmā́ ídu tváṣṭā takṣadvájram svápastamam svaryám ráṇāya ǀ
vṛtrásya cidvidádyéna márma tujánnī́śānastujatā́ kiyedhā́ḥ ǁ
asmā id u tvaṣṭā takṣad vajraṃ svapastamaṃ svaryaṃ raṇāya |
vṛtrasya cid vidad yena marma tujann īśānas tujatā kiyedhāḥ ||
Padapāṭha
अ॒स्मै । इत् । ऊं॒ इति॑ । त्वष्टा॑ । त॒क्ष॒त् । वज्र॑म् । स्वपः॑ऽतमम् । स्व॒र्य॑म् । रणा॑य ।
वृ॒त्रस्य॑ । चि॒त् । वि॒दत् । येन॑ । मर्म॑ । तु॒जन् । ईशा॑नः । तु॒ज॒ता । कि॒ये॒धाः ॥
अस्मै । इत् । ऊं इति । त्वष्टा । तक्षत् । वज्रम् । स्वपःऽतमम् । स्वर्यम् । रणाय ।
वृत्रस्य । चित् । विदत् । येन । मर्म । तुजन् । ईशानः । तुजता । कियेधाः ॥
asmái ǀ ít ǀ ūṃ íti ǀ tváṣṭā ǀ takṣat ǀ vájram ǀ svápaḥ-tamam ǀ svaryám ǀ ráṇāya ǀ
vṛtrásya ǀ cit ǀ vidát ǀ yéna ǀ márma ǀ tuján ǀ ī́śānaḥ ǀ tujatā́ ǀ kiyedhā́ḥ ǁ
asmai ǀ it ǀ ūṃ iti ǀ tvaṣṭā ǀ takṣat ǀ vajram ǀ svapaḥ-tamam ǀ svaryam ǀ raṇāya ǀ
vṛtrasya ǀ cit ǀ vidat ǀ yena ǀ marma ǀ tujan ǀ īśānaḥ ǀ tujatā ǀ kiyedhāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.061.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.28.01
- Maṇḍala · Anuvāka · Ṛk
- 1.11.027
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nodhas Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.