Ṛk 1.61.4
Saṃhitā
अ॒स्मा इदु॒ स्तोमं॒ सं हि॑नोमि॒ रथं॒ न तष्टे॑व॒ तत्सि॑नाय ।
गिर॑श्च॒ गिर्वा॑हसे सुवृ॒क्तींद्रा॑य विश्वमि॒न्वं मेधि॑राय ॥
अस्मा इद् उ स्तोमं सं हिनोमि रथं न तष्टेव तत्सिनाय |
गिरश् च गिर्वाहसे सुवृक्तीन्द्राय विश्वमिन्वम् मेधिराय ||
asmā́ ídu stómam sám hinomi rátham ná táṣṭeva tátsināya ǀ
gíraśca gírvāhase suvṛktī́ndrāya viśvaminvám médhirāya ǁ
asmā id u stomaṃ saṃ hinomi rathaṃ na taṣṭeva tatsināya |
giraś ca girvāhase suvṛktīndrāya viśvaminvam medhirāya ||
Padapāṭha
अ॒स्मै । इत् । ऊं॒ इति॑ । स्तोम॑म् । सम् । हि॒नो॒मि॒ । रथ॑म् । न । तष्टा॑ऽइव । तत्ऽसि॑नाय ।
गिरः॑ । च॒ । गिर्वा॑हसे । सु॒ऽवृ॒क्ति । इन्द्रा॑य । वि॒श्व॒म्ऽइ॒न्वम् । मेधि॑राय ॥
अस्मै । इत् । ऊं इति । स्तोमम् । सम् । हिनोमि । रथम् । न । तष्टाऽइव । तत्ऽसिनाय ।
गिरः । च । गिर्वाहसे । सुऽवृक्ति । इन्द्राय । विश्वम्ऽइन्वम् । मेधिराय ॥
asmái ǀ ít ǀ ūṃ íti ǀ stómam ǀ sám ǀ hinomi ǀ rátham ǀ ná ǀ táṣṭā-iva ǀ tát-sināya ǀ
gíraḥ ǀ ca ǀ gírvāhase ǀ su-vṛktí ǀ índrāya ǀ viśvam-invám ǀ médhirāya ǁ
asmai ǀ it ǀ ūṃ iti ǀ stomam ǀ sam ǀ hinomi ǀ ratham ǀ na ǀ taṣṭā-iva ǀ tat-sināya ǀ
giraḥ ǀ ca ǀ girvāhase ǀ su-vṛkti ǀ indrāya ǀ viśvam-invam ǀ medhirāya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.061.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.27.04
- Maṇḍala · Anuvāka · Ṛk
- 1.11.025
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nodhas Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.