Sūkta 104
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles svarāṭpaṅkti (2, 4, 5); triṣṭup (3, 7); nicṛttriṣṭup (8, 9); paṅktiḥ (1); bhurikpaṅkti (6)
2nd set of styles triṣṭubh
-
Ṛk 1
योनि॑ष्ट इंद्र नि॒षदे॑ अकारि॒ तमा नि षी॑द स्वा॒नो नार्वा॑ ।
वि॒मुच्या॒ वयो॑ऽव॒सायाश्वां॑दो॒षा वस्तो॒र्वही॑यसः प्रपि॒त्वे ॥योनिष् ट इन्द्र निषदे अकारि तम् आ नि षीद स्वानो नार्वा |
विमुच्या वयो ऽवसायाश्वान् दोषा वस्तोर् वहीयसः प्रपित्वे ||yóniṣṭa indra niṣáde akāri támā́ ní ṣīda svānó nā́rvā ǀ
vimúcyā váyo’vasā́yā́śvāndoṣā́ vástorváhīyasaḥ prapitvé ǁyoniṣ ṭa indra niṣade akāri tam ā ni ṣīda svāno nārvā |
vimucyā vayo 'vasāyāśvān doṣā vastor vahīyasaḥ prapitve ||योनिः॑ । ते॒ । इ॒न्द्र॒ । नि॒ऽसदे॑ । अ॒का॒रि॒ । तम् । आ । नि । सी॒द॒ । स्वा॒नः । न । अर्वा॑ ।
वि॒ऽमुच्य॑ । वयः॑ । अ॒व॒ऽसाय॑ । अश्वा॑न् । दो॒षा । वस्तोः॑ । वही॑यसः । प्र॒ऽपि॒त्वे ॥योनिः । ते । इन्द्र । निऽसदे । अकारि । तम् । आ । नि । सीद । स्वानः । न । अर्वा ।
विऽमुच्य । वयः । अवऽसाय । अश्वान् । दोषा । वस्तोः । वहीयसः । प्रऽपित्वे ॥yóniḥ ǀ te ǀ indra ǀ ni-sáde ǀ akāri ǀ tám ǀ ā́ ǀ ní ǀ sīda ǀ svānáḥ ǀ ná ǀ árvā ǀ
vi-múcya ǀ váyaḥ ǀ ava-sā́ya ǀ áśvān ǀ doṣā́ ǀ vástoḥ ǀ váhīyasaḥ ǀ pra-pitvé ǁyoniḥ ǀ te ǀ indra ǀ ni-sade ǀ akāri ǀ tam ǀ ā ǀ ni ǀ sīda ǀ svānaḥ ǀ na ǀ arvā ǀ
vi-mucya ǀ vayaḥ ǀ ava-sāya ǀ aśvān ǀ doṣā ǀ vastoḥ ǀ vahīyasaḥ ǀ pra-pitve ǁ1.104.1 Aṣṭaka 1.7.18.1Anuvāka 1.15.98
-
Ṛk 2
ओ त्ये नर॒ इंद्र॑मू॒तये॑ गु॒र्नू चि॒त्तान्त्स॒द्यो अध्व॑नो जगम्यात् ।
दे॒वासो॑ म॒न्युं दास॑स्य श्चम्नं॒ते न॒ आ व॑क्षन्त्सुवि॒ताय॒ वर्णं॑ ॥ओ त्ये नर इन्द्रम् ऊतये गुर् नू चित् तान् सद्यो अध्वनो जगम्यात् |
देवासो मन्युं दासस्य श्चम्नन् ते न आ वक्षन् सुविताय वर्णम् ||ó tyé nára índramūtáye gurnū́ cittā́ntsadyó ádhvano jagamyāt ǀ
devā́so manyúm dā́sasya ścamnanté na ā́ vakṣantsuvitā́ya várṇam ǁo tye nara indram ūtaye gur nū cit tān sadyo adhvano jagamyāt |
devāso manyuṃ dāsasya ścamnan te na ā vakṣan suvitāya varṇam ||ओ इति॑ । त्ये । नरः॑ । इन्द्र॑म् । ऊ॒तये॑ । गुः॒ । नु । चि॒त् । तान् । स॒द्यः । अध्व॑नः । ज॒ग॒म्या॒त् ।
दे॒वासः॑ । म॒न्युम् । दास॑स्य । श्च॒म्न॒न् । ते । नः॒ । आ । व॒क्ष॒न् । सु॒वि॒ताय॑ । वर्ण॑म् ॥ओ इति । त्ये । नरः । इन्द्रम् । ऊतये । गुः । नु । चित् । तान् । सद्यः । अध्वनः । जगम्यात् ।
देवासः । मन्युम् । दासस्य । श्चम्नन् । ते । नः । आ । वक्षन् । सुविताय । वर्णम् ॥ó íti ǀ tyé ǀ náraḥ ǀ índram ǀ ūtáye ǀ guḥ ǀ nú ǀ cit ǀ tā́n ǀ sadyáḥ ǀ ádhvanaḥ ǀ jagamyāt ǀ
devā́saḥ ǀ manyúm ǀ dā́sasya ǀ ścamnan ǀ té ǀ naḥ ǀ ā́ ǀ vakṣan ǀ suvitā́ya ǀ várṇam ǁo iti ǀ tye ǀ naraḥ ǀ indram ǀ ūtaye ǀ guḥ ǀ nu ǀ cit ǀ tān ǀ sadyaḥ ǀ adhvanaḥ ǀ jagamyāt ǀ
devāsaḥ ǀ manyum ǀ dāsasya ǀ ścamnan ǀ te ǀ naḥ ǀ ā ǀ vakṣan ǀ suvitāya ǀ varṇam ǁ1.104.2 Aṣṭaka 1.7.18.2Anuvāka 1.15.99
-
Ṛk 3
अव॒ त्मना॑ भरते॒ केत॑वेदा॒ अव॒ त्मना॑ भरते॒ फेन॑मु॒दन् ।
क्षी॒रेण॑ स्नातः॒ कुय॑वस्य॒ योषे॑ ह॒ते ते स्या॑तां प्रव॒णे शिफा॑याः ॥अव त्मना भरते केतवेदा अव त्मना भरते फेनम् उदन् |
क्षीरेण स्नातः कुयवस्य योषे हते ते स्याताम् प्रवणे शिफायाः ||áva tmánā bharate kétavedā áva tmánā bharate phénamudán ǀ
kṣīréṇa snātaḥ kúyavasya yóṣe haté té syātām pravaṇé śíphāyāḥ ǁava tmanā bharate ketavedā ava tmanā bharate phenam udan |
kṣīreṇa snātaḥ kuyavasya yoṣe hate te syātām pravaṇe śiphāyāḥ ||अव॑ । त्मना॑ । भ॒र॒ते॒ । केत॑ऽवेदाः । अव॑ । त्मना॑ । भ॒र॒ते॒ । फेन॑म् । उ॒दन् ।
क्षी॒रेण॑ । स्ना॒तः॒ । कुय॑वस्य । योषे॒ इति॑ । ह॒ते इति॑ । ते इति॑ । स्या॒ता॒म् । प्र॒व॒णे । शिफा॑याः ॥अव । त्मना । भरते । केतऽवेदाः । अव । त्मना । भरते । फेनम् । उदन् ।
क्षीरेण । स्नातः । कुयवस्य । योषे इति । हते इति । ते इति । स्याताम् । प्रवणे । शिफायाः ॥áva ǀ tmánā ǀ bharate ǀ kéta-vedāḥ ǀ áva ǀ tmánā ǀ bharate ǀ phénam ǀ udán ǀ
kṣīréṇa ǀ snātaḥ ǀ kúyavasya ǀ yóṣe íti ǀ haté íti ǀ té íti ǀ syātām ǀ pravaṇé ǀ śíphāyāḥ ǁava ǀ tmanā ǀ bharate ǀ keta-vedāḥ ǀ ava ǀ tmanā ǀ bharate ǀ phenam ǀ udan ǀ
kṣīreṇa ǀ snātaḥ ǀ kuyavasya ǀ yoṣe iti ǀ hate iti ǀ te iti ǀ syātām ǀ pravaṇe ǀ śiphāyāḥ ǁ1.104.3 Aṣṭaka 1.7.18.3Anuvāka 1.15.100
-
Ṛk 4
यु॒योप॒ नाभि॒रुप॑रस्या॒योः प्र पूर्वा॑भिस्तिरते॒ राष्टि॒ शूरः॑ ।
अं॒ज॒सी कु॑लि॒शी वी॒रप॑त्नी॒ पयो॑ हिन्वा॒ना उ॒दभि॑र्भरंते ॥युयोप नाभिर् उपरस्यायोः प्र पूर्वाभिस् तिरते राष्टि शूरः |
अञ्जसी कुलिशी वीरपत्नी पयो हिन्वाना उदभिर् भरन्ते ||yuyópa nā́bhirúparasyāyóḥ prá pū́rvābhistirate rā́ṣṭi śū́raḥ ǀ
añjasī́ kuliśī́ vīrápatnī páyo hinvānā́ udábhirbharante ǁyuyopa nābhir uparasyāyoḥ pra pūrvābhis tirate rāṣṭi śūraḥ |
añjasī kuliśī vīrapatnī payo hinvānā udabhir bharante ||यु॒योप॑ । नाभिः॑ । उप॑रस्य । आ॒योः । प्र । पूर्वा॑भिः । ति॒र॒ते॒ । राष्टि॑ । शूरः॑ ।
अ॒ञ्ज॒सी । कु॒लि॒शी । वी॒रऽप॑त्नी । पयः॑ । हि॒न्वा॒नाः । उ॒दऽभिः॑ । भ॒र॒न्ते॒ ॥युयोप । नाभिः । उपरस्य । आयोः । प्र । पूर्वाभिः । तिरते । राष्टि । शूरः ।
अञ्जसी । कुलिशी । वीरऽपत्नी । पयः । हिन्वानाः । उदऽभिः । भरन्ते ॥yuyópa ǀ nā́bhiḥ ǀ úparasya ǀ āyóḥ ǀ prá ǀ pū́rvābhiḥ ǀ tirate ǀ rā́ṣṭi ǀ śū́raḥ ǀ
añjasī́ ǀ kuliśī́ ǀ vīrá-patnī ǀ páyaḥ ǀ hinvānā́ḥ ǀ udá-bhiḥ ǀ bharante ǁyuyopa ǀ nābhiḥ ǀ uparasya ǀ āyoḥ ǀ pra ǀ pūrvābhiḥ ǀ tirate ǀ rāṣṭi ǀ śūraḥ ǀ
añjasī ǀ kuliśī ǀ vīra-patnī ǀ payaḥ ǀ hinvānāḥ ǀ uda-bhiḥ ǀ bharante ǁ1.104.4 Aṣṭaka 1.7.18.4Anuvāka 1.15.101
-
Ṛk 5
प्रति॒ यत्स्या नीथाद॑र्शि॒ दस्यो॒रोको॒ नाच्छा॒ सद॑नं जान॒ती गा॑त् ।
अध॑ स्मा नो मघवंचर्कृ॒तादिन्मा नो॑ म॒घेव॑ निष्ष॒पी परा॑ दाः ॥प्रति यत् स्या नीथादर्शि दस्योर् ओको नाच्छा सदनं जानती गात् |
अध स्मा नो मघवञ् चर्कृताद् इन् मा नो मघेव निष्षपी परा दाः ||práti yátsyā́ nī́thā́darśi dásyoróko nā́cchā sádanam jānatī́ gāt ǀ
ádha smā no maghavañcarkṛtā́dínmā́ no maghéva niṣṣapī́ párā dāḥ ǁprati yat syā nīthādarśi dasyor oko nācchā sadanaṃ jānatī gāt |
adha smā no maghavañ carkṛtād in mā no magheva niṣṣapī parā dāḥ ||प्रति॑ । यत् । स्या । नीथा॑ । अद॑र्शि । दस्योः॑ । ओकः॑ । न । अच्छ॑ । सद॑नम् । जा॒न॒ती । गा॒त् ।
अध॑ । स्म॒ । नः॒ । म॒घ॒ऽव॒न् । च॒र्कृ॒तात् । इत् । मा । नः॒ । म॒घाऽइ॑व । नि॒ष्ष॒पी । परा॑ । दाः॒ ॥प्रति । यत् । स्या । नीथा । अदर्शि । दस्योः । ओकः । न । अच्छ । सदनम् । जानती । गात् ।
अध । स्म । नः । मघऽवन् । चर्कृतात् । इत् । मा । नः । मघाऽइव । निष्षपी । परा । दाः ॥práti ǀ yát ǀ syā́ ǀ nī́thā ǀ ádarśi ǀ dásyoḥ ǀ ókaḥ ǀ ná ǀ áccha ǀ sádanam ǀ jānatī́ ǀ gāt ǀ
ádha ǀ sma ǀ naḥ ǀ magha-van ǀ carkṛtā́t ǀ ít ǀ mā́ ǀ naḥ ǀ maghā́-iva ǀ niṣṣapī́ ǀ párā ǀ dāḥ ǁprati ǀ yat ǀ syā ǀ nīthā ǀ adarśi ǀ dasyoḥ ǀ okaḥ ǀ na ǀ accha ǀ sadanam ǀ jānatī ǀ gāt ǀ
adha ǀ sma ǀ naḥ ǀ magha-van ǀ carkṛtāt ǀ it ǀ mā ǀ naḥ ǀ maghā-iva ǀ niṣṣapī ǀ parā ǀ dāḥ ǁ1.104.5 Aṣṭaka 1.7.18.5Anuvāka 1.15.102
-
Ṛk 6
स त्वं न॑ इंद्र॒ सूर्ये॒ सो अ॒प्स्व॑नागा॒स्त्व आ भ॑ज जीवशं॒से ।
मांत॑रां॒ भुज॒मा री॑रिषो नः॒ श्रद्धि॑तं ते मह॒त इं॑द्रि॒याय॑ ॥स त्वं न इन्द्र सूर्ये सो अप्स्व् अनागास्त्व आ भज जीवशंसे |
मान्तराम् भुजम् आ रीरिषो नः श्रद्धितं ते महत इन्द्रियाय ||sá tvám na indra sū́rye só apsvánāgāstvá ā́ bhaja jīvaśaṃsé ǀ
mā́ntarām bhújamā́ rīriṣo naḥ śráddhitam te mahatá indriyā́ya ǁsa tvaṃ na indra sūrye so apsv anāgāstva ā bhaja jīvaśaṃse |
māntarām bhujam ā rīriṣo naḥ śraddhitaṃ te mahata indriyāya ||सः । त्वम् । नः॒ । इ॒न्द्र॒ । सूर्ये॑ । सः । अ॒प्ऽसु । अ॒ना॒गाः॒ऽत्वे । आ । भ॒ज॒ । जी॒व॒ऽशं॒से ।
मा । अन्त॑राम् । भुज॑म् । आ । रि॒रि॒षः॒ । नः॒ । श्रद्धि॑तम् । ते॒ । म॒ह॒ते । इ॒न्द्रि॒याय॑ ॥सः । त्वम् । नः । इन्द्र । सूर्ये । सः । अप्ऽसु । अनागाःऽत्वे । आ । भज । जीवऽशंसे ।
मा । अन्तराम् । भुजम् । आ । रिरिषः । नः । श्रद्धितम् । ते । महते । इन्द्रियाय ॥sáḥ ǀ tvám ǀ naḥ ǀ indra ǀ sū́rye ǀ sáḥ ǀ ap-sú ǀ anāgāḥ-tvé ǀ ā́ ǀ bhaja ǀ jīva-śaṃsé ǀ
mā́ ǀ ántarām ǀ bhújam ǀ ā́ ǀ ririṣaḥ ǀ naḥ ǀ śráddhitam ǀ te ǀ mahaté ǀ indriyā́ya ǁsaḥ ǀ tvam ǀ naḥ ǀ indra ǀ sūrye ǀ saḥ ǀ ap-su ǀ anāgāḥ-tve ǀ ā ǀ bhaja ǀ jīva-śaṃse ǀ
mā ǀ antarām ǀ bhujam ǀ ā ǀ ririṣaḥ ǀ naḥ ǀ śraddhitam ǀ te ǀ mahate ǀ indriyāya ǁ1.104.6 Aṣṭaka 1.7.19.1Anuvāka 1.15.103
-
Ṛk 7
अधा॑ मन्ये॒ श्रत्ते॑ अस्मा अधायि॒ वृषा॑ चोदस्व मह॒ते धना॑य ।
मा नो॒ अकृ॑ते पुरुहूत॒ योना॒विंद्र॒ क्षुध्य॑द्भ्यो॒ वय॑ आसु॒तिं दाः॑ ॥अधा मन्ये श्रत् ते अस्मा अधायि वृषा चोदस्व महते धनाय |
मा नो अकृते पुरुहूत योनाव् इन्द्र क्षुध्यद्भ्यो वय आसुतिं दाः ||ádhā manye śrátte asmā adhāyi vṛ́ṣā codasva mahaté dhánāya ǀ
mā́ no ákṛte puruhūta yónāvíndra kṣúdhyadbhyo váya āsutím dāḥ ǁadhā manye śrat te asmā adhāyi vṛṣā codasva mahate dhanāya |
mā no akṛte puruhūta yonāv indra kṣudhyadbhyo vaya āsutiṃ dāḥ ||अध॑ । म॒न्ये॒ । श्रत् । ते॒ । अ॒स्मै॒ । अ॒धा॒यि॒ । वृषा॑ । चो॒द॒स्व॒ । म॒ह॒ते । धना॑य ।
मा । नः॒ । अकृ॑ते । पु॒रु॒ऽहू॒त॒ । योनौ॑ । इन्द्र॑ । क्षुध्य॑त्ऽभ्यः । वयः॑ । आ॒ऽसु॒तिम् । दाः॒ ॥अध । मन्ये । श्रत् । ते । अस्मै । अधायि । वृषा । चोदस्व । महते । धनाय ।
मा । नः । अकृते । पुरुऽहूत । योनौ । इन्द्र । क्षुध्यत्ऽभ्यः । वयः । आऽसुतिम् । दाः ॥ádha ǀ manye ǀ śrát ǀ te ǀ asmai ǀ adhāyi ǀ vṛ́ṣā ǀ codasva ǀ mahaté ǀ dhánāya ǀ
mā́ ǀ naḥ ǀ ákṛte ǀ puru-hūta ǀ yónau ǀ índra ǀ kṣúdhyat-bhyaḥ ǀ váyaḥ ǀ ā-sutím ǀ dāḥ ǁadha ǀ manye ǀ śrat ǀ te ǀ asmai ǀ adhāyi ǀ vṛṣā ǀ codasva ǀ mahate ǀ dhanāya ǀ
mā ǀ naḥ ǀ akṛte ǀ puru-hūta ǀ yonau ǀ indra ǀ kṣudhyat-bhyaḥ ǀ vayaḥ ǀ ā-sutim ǀ dāḥ ǁ1.104.7 Aṣṭaka 1.7.19.2Anuvāka 1.15.104
-
Ṛk 8
मा नो॑ वधीरिंद्र॒ मा परा॑ दा॒ मा नः॑ प्रि॒या भोज॑नानि॒ प्र मो॑षीः ।
आं॒डा मा नो॑ मघवंछक्र॒ निर्भे॒न्मा नः॒ पात्रा॑ भेत्स॒हजा॑नुषाणि ॥मा नो वधीर् इन्द्र मा परा दा मा नः प्रिया भोजनानि प्र मोषीः |
आण्डा मा नो मघवञ् छक्र निर् भेन् मा नः पात्रा भेत् सहजानुषाणि ||mā́ no vadhīrindra mā́ párā dā mā́ naḥ priyā́ bhójanāni prá moṣīḥ ǀ
āṇḍā́ mā́ no maghavañchakra nírbhenmā́ naḥ pā́trā bhetsahájānuṣāṇi ǁmā no vadhīr indra mā parā dā mā naḥ priyā bhojanāni pra moṣīḥ |
āṇḍā mā no maghavañ chakra nir bhen mā naḥ pātrā bhet sahajānuṣāṇi ||मा । नः॒ । व॒धीः॒ । इ॒न्द्र॒ । मा । परा॑ । दाः॒ । मा । नः॒ । प्रि॒या । भोज॑नानि । प्र । मो॒षीः॒ ।
आ॒ण्डा । मा । नः॒ । म॒घ॒ऽव॒न् । श॒क्र॒ । निः । भे॒त् । मा । नः॒ । पात्रा॑ । भे॒त् । स॒हऽजा॑नुषाणि ॥मा । नः । वधीः । इन्द्र । मा । परा । दाः । मा । नः । प्रिया । भोजनानि । प्र । मोषीः ।
आण्डा । मा । नः । मघऽवन् । शक्र । निः । भेत् । मा । नः । पात्रा । भेत् । सहऽजानुषाणि ॥mā́ ǀ naḥ ǀ vadhīḥ ǀ indra ǀ mā́ ǀ párā ǀ dāḥ ǀ mā́ ǀ naḥ ǀ priyā́ ǀ bhójanāni ǀ prá ǀ moṣīḥ ǀ
āṇḍā́ ǀ mā́ ǀ naḥ ǀ magha-van ǀ śakra ǀ níḥ ǀ bhet ǀ mā́ ǀ naḥ ǀ pā́trā ǀ bhet ǀ sahá-jānuṣāṇi ǁmā ǀ naḥ ǀ vadhīḥ ǀ indra ǀ mā ǀ parā ǀ dāḥ ǀ mā ǀ naḥ ǀ priyā ǀ bhojanāni ǀ pra ǀ moṣīḥ ǀ
āṇḍā ǀ mā ǀ naḥ ǀ magha-van ǀ śakra ǀ niḥ ǀ bhet ǀ mā ǀ naḥ ǀ pātrā ǀ bhet ǀ saha-jānuṣāṇi ǁ1.104.8 Aṣṭaka 1.7.19.3Anuvāka 1.15.105
-
Ṛk 9
अ॒र्वाङेहि॒ सोम॑कामं त्वाहुर॒यं सु॒तस्तस्य॑ पिबा॒ मदा॑य ।
उ॒रु॒व्यचा॑ ज॒ठर॒ आ वृ॑षस्व पि॒तेव॑ नः शृणुहि हू॒यमा॑नः ॥अर्वाङ् एहि सोमकामं त्वाहुर् अयं सुतस् तस्य पिबा मदाय |
उरुव्यचा जठर आ वृषस्व पितेव नः शृणुहि हूयमानः ||arvā́ṅéhi sómakāmam tvāhurayám sutástásya pibā mádāya ǀ
uruvyácā jaṭhára ā́ vṛṣasva pitéva naḥ śṛṇuhi hūyámānaḥ ǁarvāṅ ehi somakāmaṃ tvāhur ayaṃ sutas tasya pibā madāya |
uruvyacā jaṭhara ā vṛṣasva piteva naḥ śṛṇuhi hūyamānaḥ ||अ॒र्वाङ् । आ । इ॒हि॒ । सोम॑ऽकामम् । त्वा॒ । आ॒हुः॒ । अ॒यम् । सु॒तः । तस्य॑ । पि॒ब॒ । मदा॑य ।
उ॒रु॒ऽव्यचाः॑ । ज॒ठरे॑ । आ । वृ॒ष॒स्व॒ । पि॒ताऽइ॑व । नः॒ । शृ॒णु॒हि॒ । हू॒यमा॑नः ॥अर्वाङ् । आ । इहि । सोमऽकामम् । त्वा । आहुः । अयम् । सुतः । तस्य । पिब । मदाय ।
उरुऽव्यचाः । जठरे । आ । वृषस्व । पिताऽइव । नः । शृणुहि । हूयमानः ॥arvā́ṅ ǀ ā́ ǀ ihi ǀ sóma-kāmam ǀ tvā ǀ āhuḥ ǀ ayám ǀ sutáḥ ǀ tásya ǀ piba ǀ mádāya ǀ
uru-vyácāḥ ǀ jaṭháre ǀ ā́ ǀ vṛṣasva ǀ pitā́-iva ǀ naḥ ǀ śṛṇuhi ǀ hūyámānaḥ ǁarvāṅ ǀ ā ǀ ihi ǀ soma-kāmam ǀ tvā ǀ āhuḥ ǀ ayam ǀ sutaḥ ǀ tasya ǀ piba ǀ madāya ǀ
uru-vyacāḥ ǀ jaṭhare ǀ ā ǀ vṛṣasva ǀ pitā-iva ǀ naḥ ǀ śṛṇuhi ǀ hūyamānaḥ ǁ1.104.9 Aṣṭaka 1.7.19.4Anuvāka 1.15.106
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.