Sūkta 84
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Anuṣṭubh, Uṣṇih, Paṅkti, Gāyatrī, Triṣṭubh, Bṛhatī, Satobṛhatī
Metres by ṛk
1st set of styles uṣṇik (7-9); nicṛdgāyatrī (13-15); virāḍanuṣṭup (2, 4); virāḍāstārapaṅkti (10, 12); nicṛdāstārapaṅkti (11, 20); nicṛdanuṣṭup (1); anuṣṭup (3); nicrṛdanuṣṭup (5); bhuriguṣṇik (6); nicṛttriṣṭup (16); virāṭtrisṭup (17); triṣṭup (18); ārcītriṣṭup (19)
2nd set of styles anuṣṭubh (1-6); uṣṇih (7-9); paṅkti (10-12); gāyatrī (13-15); triṣṭubh (16-18); bṛhatī (19); satobṛhatī (20)
-
Ṛk 1
असा॑वि॒ सोम॑ इंद्र ते॒ शवि॑ष्ठ धृष्ण॒वा ग॑हि ।
आ त्वा॑ पृणक्त्विंद्रि॒यं रजः॒ सूर्यो॒ न र॒श्मिभिः॑ ॥असावि सोम इन्द्र ते शविष्ठ धृष्णव् आ गहि |
आ त्वा पृणक्त्व् इन्द्रियं रजः सूर्यो न रश्मिभिः ||ásāvi sóma indra te śáviṣṭha dhṛṣṇavā́ gahi ǀ
ā́ tvā pṛṇaktvindriyám rájaḥ sū́ryo ná raśmíbhiḥ ǁasāvi soma indra te śaviṣṭha dhṛṣṇav ā gahi |
ā tvā pṛṇaktv indriyaṃ rajaḥ sūryo na raśmibhiḥ ||असा॑वि । सोमः॑ । इ॒न्द्र॒ । ते॒ । शवि॑ष्ठ । धृ॒ष्णो॒ इति॑ । आ । ग॒हि॒ ।
आ । त्वा॒ । पृ॒ण॒क्तु॒ । इ॒न्द्रि॒यम् । रजः॑ । सूर्यः॑ । न । र॒श्मिऽभिः॑ ॥असावि । सोमः । इन्द्र । ते । शविष्ठ । धृष्णो इति । आ । गहि ।
आ । त्वा । पृणक्तु । इन्द्रियम् । रजः । सूर्यः । न । रश्मिऽभिः ॥ásāvi ǀ sómaḥ ǀ indra ǀ te ǀ śáviṣṭha ǀ dhṛṣṇo íti ǀ ā́ ǀ gahi ǀ
ā́ ǀ tvā ǀ pṛṇaktu ǀ indriyám ǀ rájaḥ ǀ sū́ryaḥ ǀ ná ǀ raśmí-bhiḥ ǁasāvi ǀ somaḥ ǀ indra ǀ te ǀ śaviṣṭha ǀ dhṛṣṇo iti ǀ ā ǀ gahi ǀ
ā ǀ tvā ǀ pṛṇaktu ǀ indriyam ǀ rajaḥ ǀ sūryaḥ ǀ na ǀ raśmi-bhiḥ ǁ1.84.1 Aṣṭaka 1.6.5.0
-
Ṛk 2
इंद्र॒मिद्धरी॑ वह॒तोऽप्र॑तिधृष्टशवसं ।
ऋषी॑णां च स्तु॒तीरुप॑ य॒ज्ञं च॒ मानु॑षाणां ॥इन्द्रम् इद् धरी वहतो ऽप्रतिधृष्टशवसम् |
ऋषीणां च स्तुतीर् उप यज्ञं च मानुषाणाम् ||índramíddhárī vaható’pratidhṛṣṭaśavasam ǀ
ṛ́ṣīṇām ca stutī́rúpa yajñám ca mā́nuṣāṇām ǁindram id dharī vahato 'pratidhṛṣṭaśavasam |
ṛṣīṇāṃ ca stutīr upa yajñaṃ ca mānuṣāṇām ||इन्द्र॑म् । इत् । हरी॒ इति॑ । व॒ह॒तः॒ । अप्र॑तिधृष्टऽशवसम् ।
ऋषी॑णाम् । च॒ । स्तु॒तीः । उप॑ । य॒ज्ञम् । च॒ । मानु॑षाणाम् ॥इन्द्रम् । इत् । हरी इति । वहतः । अप्रतिधृष्टऽशवसम् ।
ऋषीणाम् । च । स्तुतीः । उप । यज्ञम् । च । मानुषाणाम् ॥índram ǀ ít ǀ hárī íti ǀ vahataḥ ǀ ápratidhṛṣṭa-śavasam ǀ
ṛ́ṣīṇām ǀ ca ǀ stutī́ḥ ǀ úpa ǀ yajñám ǀ ca ǀ mā́nuṣāṇām ǁindram ǀ it ǀ harī iti ǀ vahataḥ ǀ apratidhṛṣṭa-śavasam ǀ
ṛṣīṇām ǀ ca ǀ stutīḥ ǀ upa ǀ yajñam ǀ ca ǀ mānuṣāṇām ǁ1.84.2 Aṣṭaka 1.6.5.0
-
Ṛk 3
आ ति॑ष्ठ वृत्रह॒न्रथं॑ यु॒क्ता ते॒ ब्रह्म॑णा॒ हरी॑ ।
अ॒र्वा॒चीनं॒ सु ते॒ मनो॒ ग्रावा॑ कृणोतु व॒ग्नुना॑ ॥आ तिष्ठ वृत्रहन् रथं युक्ता ते ब्रह्मणा हरी |
अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना ||ā́ tiṣṭha vṛtrahanrátham yuktā́ te bráhmaṇā hárī ǀ
arvācī́nam sú te máno grā́vā kṛṇotu vagnúnā ǁā tiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī |
arvācīnaṃ su te mano grāvā kṛṇotu vagnunā ||आ । ति॒ष्ठ॒ । वृ॒त्र॒ऽह॒न् । रथ॑म् । यु॒क्ता । ते॒ । ब्रह्म॑णा । हरी॒ इति॑ ।
अ॒र्वा॒चीन॑म् । सु । ते॒ । मनः॑ । ग्रावा॑ । कृ॒णो॒तु॒ । व॒ग्नुना॑ ॥आ । तिष्ठ । वृत्रऽहन् । रथम् । युक्ता । ते । ब्रह्मणा । हरी इति ।
अर्वाचीनम् । सु । ते । मनः । ग्रावा । कृणोतु । वग्नुना ॥ā́ ǀ tiṣṭha ǀ vṛtra-han ǀ rátham ǀ yuktā́ ǀ te ǀ bráhmaṇā ǀ hárī íti ǀ
arvācī́nam ǀ sú ǀ te ǀ mánaḥ ǀ grā́vā ǀ kṛṇotu ǀ vagnúnā ǁā ǀ tiṣṭha ǀ vṛtra-han ǀ ratham ǀ yuktā ǀ te ǀ brahmaṇā ǀ harī iti ǀ
arvācīnam ǀ su ǀ te ǀ manaḥ ǀ grāvā ǀ kṛṇotu ǀ vagnunā ǁ1.84.3 Aṣṭaka 1.6.5.0
-
Ṛk 4
इ॒ममिं॑द्र सु॒तं पि॑ब॒ ज्येष्ठ॒मम॑र्त्यं॒ मदं॑ ।
शु॒क्रस्य॑ त्वा॒भ्य॑क्षरं॒धारा॑ ऋ॒तस्य॒ साद॑ने ॥इमम् इन्द्र सुतम् पिब ज्येष्ठम् अमर्त्यम् मदम् |
शुक्रस्य त्वाभ्य् अक्षरन् धारा ऋतस्य सादने ||imámindra sutám piba jyéṣṭhamámartyam mádam ǀ
śukrásya tvābhyákṣarandhā́rā ṛtásya sā́dane ǁimam indra sutam piba jyeṣṭham amartyam madam |
śukrasya tvābhy akṣaran dhārā ṛtasya sādane ||इ॒मम् । इ॒न्द्र॒ । सु॒तम् । पि॒ब॒ । ज्येष्ठ॑म् । अम॑र्त्यम् । मद॑म् ।
शु॒क्रस्य॑ । त्वा॒ । अ॒भि । अ॒क्ष॒र॒न् । धाराः॑ । ऋ॒तस्य॑ । सद॑ने ॥इमम् । इन्द्र । सुतम् । पिब । ज्येष्ठम् । अमर्त्यम् । मदम् ।
शुक्रस्य । त्वा । अभि । अक्षरन् । धाराः । ऋतस्य । सदने ॥imám ǀ indra ǀ sutám ǀ piba ǀ jyéṣṭham ǀ ámartyam ǀ mádam ǀ
śukrásya ǀ tvā ǀ abhí ǀ akṣaran ǀ dhā́rāḥ ǀ ṛtásya ǀ sádane ǁimam ǀ indra ǀ sutam ǀ piba ǀ jyeṣṭham ǀ amartyam ǀ madam ǀ
śukrasya ǀ tvā ǀ abhi ǀ akṣaran ǀ dhārāḥ ǀ ṛtasya ǀ sadane ǁ1.84.4 Aṣṭaka 1.6.5.0
-
Ṛk 5
इंद्रा॑य नू॒नम॑र्चतो॒क्थानि॑ च ब्रवीतन ।
सु॒ता अ॑मत्सु॒रिंद॑वो॒ ज्येष्ठं॑ नमस्यता॒ सहः॑ ॥इन्द्राय नूनम् अर्चतोक्थानि च ब्रवीतन |
सुता अमत्सुर् इन्दवो ज्येष्ठं नमस्यता सहः ||índrāya nūnámarcatokthā́ni ca bravītana ǀ
sutā́ amatsuríndavo jyéṣṭham namasyatā sáhaḥ ǁindrāya nūnam arcatokthāni ca bravītana |
sutā amatsur indavo jyeṣṭhaṃ namasyatā sahaḥ ||इन्द्रा॑य । नू॒नम् । अ॒र्च॒त॒ । उ॒क्थानि॑ । च॒ । ब्र॒वी॒त॒न॒ ।
सु॒ताः । अ॒म॒त्सुः॒ । इन्द॑वः । ज्येष्ठ॑म् । न॒म॒स्य॒त॒ । सहः॑ ॥इन्द्राय । नूनम् । अर्चत । उक्थानि । च । ब्रवीतन ।
सुताः । अमत्सुः । इन्दवः । ज्येष्ठम् । नमस्यत । सहः ॥índrāya ǀ nūnám ǀ arcata ǀ ukthā́ni ǀ ca ǀ bravītana ǀ
sutā́ḥ ǀ amatsuḥ ǀ índavaḥ ǀ jyéṣṭham ǀ namasyata ǀ sáhaḥ ǁindrāya ǀ nūnam ǀ arcata ǀ ukthāni ǀ ca ǀ bravītana ǀ
sutāḥ ǀ amatsuḥ ǀ indavaḥ ǀ jyeṣṭham ǀ namasyata ǀ sahaḥ ǁ1.84.5 Aṣṭaka 1.6.5.0
-
Ṛk 6
नकि॒ष्ट्वद्र॒थीत॑रो॒ हरी॒ यदिं॑द्र॒ यच्छ॑से ।
नकि॒ष्ट्वानु॑ म॒ज्मना॒ नकिः॒ स्वश्व॑ आनशे ॥नकिष् ट्वद् रथीतरो हरी यद् इन्द्र यच्छसे |
नकिष् ट्वानु मज्मना नकिः स्वश्व आनशे ||nákiṣṭvádrathī́taro hárī yádindra yácchase ǀ
nákiṣṭvā́nu majmánā nákiḥ sváśva ānaśe ǁnakiṣ ṭvad rathītaro harī yad indra yacchase |
nakiṣ ṭvānu majmanā nakiḥ svaśva ānaśe ||नकिः॑ । त्वत् । र॒थिऽत॑रः । हरी॒ इति॑ । यत् । इ॒न्द्र॒ । यच्छ॑से ।
नकिः॑ । त्वा॒ । अनु॑ । म॒ज्मना॑ । नकिः॑ । सु॒ऽअश्वः॑ । आ॒न॒शे॒ ॥नकिः । त्वत् । रथिऽतरः । हरी इति । यत् । इन्द्र । यच्छसे ।
नकिः । त्वा । अनु । मज्मना । नकिः । सुऽअश्वः । आनशे ॥nákiḥ ǀ tvát ǀ rathí-taraḥ ǀ hárī íti ǀ yát ǀ indra ǀ yácchase ǀ
nákiḥ ǀ tvā ǀ ánu ǀ majmánā ǀ nákiḥ ǀ su-áśvaḥ ǀ ānaśe ǁnakiḥ ǀ tvat ǀ rathi-taraḥ ǀ harī iti ǀ yat ǀ indra ǀ yacchase ǀ
nakiḥ ǀ tvā ǀ anu ǀ majmanā ǀ nakiḥ ǀ su-aśvaḥ ǀ ānaśe ǁ1.84.6 Aṣṭaka 1.6.6.0
-
Ṛk 7
य एक॒ इद्वि॒दय॑ते॒ वसु॒ मर्ता॑य दा॒शुषे॑ ।
ईशा॑नो॒ अप्र॑तिष्कुत॒ इंद्रो॑ अं॒ग ॥य एक इद् विदयते वसु मर्ताय दाशुषे |
ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ||yá éka ídvidáyate vásu mártāya dāśúṣe ǀ
ī́śāno ápratiṣkuta índro aṅgá ǁya eka id vidayate vasu martāya dāśuṣe |
īśāno apratiṣkuta indro aṅga ||यः । एकः॑ । इत् । वि॒ऽदय॑ते । वसु॑ । मर्ता॑य । दा॒शुषे॑ ।
ईशा॑नः । अप्र॑तिऽस्कुतः । इन्द्रः॑ । अ॒ङ्ग ॥यः । एकः । इत् । विऽदयते । वसु । मर्ताय । दाशुषे ।
ईशानः । अप्रतिऽस्कुतः । इन्द्रः । अङ्ग ॥yáḥ ǀ ékaḥ ǀ ít ǀ vi-dáyate ǀ vásu ǀ mártāya ǀ dāśúṣe ǀ
ī́śānaḥ ǀ áprati-skutaḥ ǀ índraḥ ǀ aṅgá ǁyaḥ ǀ ekaḥ ǀ it ǀ vi-dayate ǀ vasu ǀ martāya ǀ dāśuṣe ǀ
īśānaḥ ǀ aprati-skutaḥ ǀ indraḥ ǀ aṅga ǁ1.84.7 Aṣṭaka 1.6.6.0
-
Ṛk 8
क॒दा मर्त॑मरा॒धसं॑ प॒दा क्षुंप॑मिव स्फुरत् ।
क॒दा नः॑ शुश्रव॒द्गिर॒ इंद्रो॑ अं॒ग ॥कदा मर्तम् अराधसम् पदा क्षुम्पम् इव स्फुरत् |
कदा नः शुश्रवद् गिर इन्द्रो अङ्ग ||kadā́ mártamarādhásam padā́ kṣúmpamiva sphurat ǀ
kadā́ naḥ śuśravadgíra índro aṅgá ǁkadā martam arādhasam padā kṣumpam iva sphurat |
kadā naḥ śuśravad gira indro aṅga ||क॒दा । मर्त॑म् । अ॒रा॒धस॑म् । प॒दा । क्षुम्प॑म्ऽइव । स्फु॒र॒त् ।
क॒दा । नः॒ । शु॒श्र॒व॒त् । गिरः॑ । इन्द्रः॑ । अ॒ङ्ग ॥कदा । मर्तम् । अराधसम् । पदा । क्षुम्पम्ऽइव । स्फुरत् ।
कदा । नः । शुश्रवत् । गिरः । इन्द्रः । अङ्ग ॥kadā́ ǀ mártam ǀ arādhásam ǀ padā́ ǀ kṣúmpam-iva ǀ sphurat ǀ
kadā́ ǀ naḥ ǀ śuśravat ǀ gíraḥ ǀ índraḥ ǀ aṅgá ǁkadā ǀ martam ǀ arādhasam ǀ padā ǀ kṣumpam-iva ǀ sphurat ǀ
kadā ǀ naḥ ǀ śuśravat ǀ giraḥ ǀ indraḥ ǀ aṅga ǁ1.84.8 Aṣṭaka 1.6.6.0
-
Ṛk 9
यश्चि॒द्धि त्वा॑ ब॒हुभ्य॒ आ सु॒तावाँ॑ आ॒विवा॑सति ।
उ॒ग्रं तत्प॑त्यते॒ शव॒ इंद्रो॑ अं॒ग ॥यश् चिद् धि त्वा बहुभ्य आ सुतावां आविवासति |
उग्रं तत् पत्यते शव इन्द्रो अङ्ग ||yáściddhí tvā bahúbhya ā́ sutā́vām̐ āvívāsati ǀ
ugrám tátpatyate śáva índro aṅgá ǁyaś cid dhi tvā bahubhya ā sutāvāṃ āvivāsati |
ugraṃ tat patyate śava indro aṅga ||यः । चि॒त् । हि । त्वा॒ । ब॒हुऽभ्यः॑ । आ । सु॒तऽवा॑न् । आ॒ऽविवा॑सति ।
उ॒ग्रम् । तत् । प॒त्य॒ते॒ । शवः॑ । इन्द्रः॑ । अ॒ङ्ग ॥यः । चित् । हि । त्वा । बहुऽभ्यः । आ । सुतऽवान् । आऽविवासति ।
उग्रम् । तत् । पत्यते । शवः । इन्द्रः । अङ्ग ॥yáḥ ǀ cit ǀ hí ǀ tvā ǀ bahú-bhyaḥ ǀ ā́ ǀ sutá-vān ǀ ā-vívāsati ǀ
ugrám ǀ tát ǀ patyate ǀ śávaḥ ǀ índraḥ ǀ aṅgá ǁyaḥ ǀ cit ǀ hi ǀ tvā ǀ bahu-bhyaḥ ǀ ā ǀ suta-vān ǀ ā-vivāsati ǀ
ugram ǀ tat ǀ patyate ǀ śavaḥ ǀ indraḥ ǀ aṅga ǁ1.84.9 Aṣṭaka 1.6.6.0
-
Ṛk 10
स्वा॒दोरि॒त्था वि॑षू॒वतो॒ मध्वः॑ पिबंति गौ॒र्यः॑ ।
या इंद्रे॑ण स॒याव॑री॒र्वृष्णा॒ मदं॑ति शो॒भसे॒ वस्वी॒रनु॑ स्व॒राज्यं॑ ॥स्वादोर् इत्था विषूवतो मध्वः पिबन्ति गौर्यः |
या इन्द्रेण सयावरीर् वृष्णा मदन्ति शोभसे वस्वीर् अनु स्वराज्यम् ||svādóritthā́ viṣūváto mádhvaḥ pibanti gauryáḥ ǀ
yā́ índreṇa sayā́varīrvṛ́ṣṇā mádanti śobháse vásvīránu svarā́jyam ǁsvādor itthā viṣūvato madhvaḥ pibanti gauryaḥ |
yā indreṇa sayāvarīr vṛṣṇā madanti śobhase vasvīr anu svarājyam ||स्वा॒दोः । इ॒त्था । वि॒षु॒ऽवतः॑ । मध्वः॑ । पि॒ब॒न्ति॒ । गौ॒र्यः॑ ।
याः । इन्द्रे॑ण । स॒ऽयाव॑रीः । वृष्णा॑ । मद॑न्ति । शो॒भसे॑ । वस्वीः॑ । अनु॑ । स्व॒ऽराज्य॑म् ॥स्वादोः । इत्था । विषुऽवतः । मध्वः । पिबन्ति । गौर्यः ।
याः । इन्द्रेण । सऽयावरीः । वृष्णा । मदन्ति । शोभसे । वस्वीः । अनु । स्वऽराज्यम् ॥svādóḥ ǀ itthā́ ǀ viṣu-vátaḥ ǀ mádhvaḥ ǀ pibanti ǀ gauryáḥ ǀ
yā́ḥ ǀ índreṇa ǀ sa-yā́varīḥ ǀ vṛ́ṣṇā ǀ mádanti ǀ śobháse ǀ vásvīḥ ǀ ánu ǀ sva-rā́jyam ǁsvādoḥ ǀ itthā ǀ viṣu-vataḥ ǀ madhvaḥ ǀ pibanti ǀ gauryaḥ ǀ
yāḥ ǀ indreṇa ǀ sa-yāvarīḥ ǀ vṛṣṇā ǀ madanti ǀ śobhase ǀ vasvīḥ ǀ anu ǀ sva-rājyam ǁ1.84.10 Aṣṭaka 1.6.6.0
-
Ṛk 11
ता अ॑स्य पृशना॒युवः॒ सोमं॑ श्रीणंति॒ पृश्न॑यः ।
प्रि॒या इंद्र॑स्य धे॒नवो॒ वज्रं॑ हिन्वंति॒ साय॑कं॒ वस्वी॒रनु॑ स्व॒राज्यं॑ ॥ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः |
प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीर् अनु स्वराज्यम् ||tā́ asya pṛśanāyúvaḥ sómam śrīṇanti pṛ́śnayaḥ ǀ
priyā́ índrasya dhenávo vájram hinvanti sā́yakam vásvīránu svarā́jyam ǁtā asya pṛśanāyuvaḥ somaṃ śrīṇanti pṛśnayaḥ |
priyā indrasya dhenavo vajraṃ hinvanti sāyakaṃ vasvīr anu svarājyam ||ताः । अ॒स्य॒ । पृ॒श॒न॒ऽयुवः॑ । सोम॑म् । श्री॒ण॒न्ति॒ । पृश्न॑यः ।
प्रि॒याः । इन्द्र॑स्य । धे॒नवः॑ । वज्र॑म् । हि॒न्व॒न्ति॒ । साय॑कम् । वस्वीः॑ । अनु॑ । स्व॒ऽराज्य॑म् ॥ताः । अस्य । पृशनऽयुवः । सोमम् । श्रीणन्ति । पृश्नयः ।
प्रियाः । इन्द्रस्य । धेनवः । वज्रम् । हिन्वन्ति । सायकम् । वस्वीः । अनु । स्वऽराज्यम् ॥tā́ḥ ǀ asya ǀ pṛśana-yúvaḥ ǀ sómam ǀ śrīṇanti ǀ pṛ́śnayaḥ ǀ
priyā́ḥ ǀ índrasya ǀ dhenávaḥ ǀ vájram ǀ hinvanti ǀ sā́yakam ǀ vásvīḥ ǀ ánu ǀ sva-rā́jyam ǁtāḥ ǀ asya ǀ pṛśana-yuvaḥ ǀ somam ǀ śrīṇanti ǀ pṛśnayaḥ ǀ
priyāḥ ǀ indrasya ǀ dhenavaḥ ǀ vajram ǀ hinvanti ǀ sāyakam ǀ vasvīḥ ǀ anu ǀ sva-rājyam ǁ1.84.11 Aṣṭaka 1.6.7.0
-
Ṛk 12
ता अ॑स्य॒ नम॑सा॒ सहः॑ सप॒र्यंति॒ प्रचे॑तसः ।
व्र॒तान्य॑स्य सश्चिरे पु॒रूणि॑ पू॒र्वचि॑त्तये॒ वस्वी॒रनु॑ स्व॒राज्यं॑ ॥ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः |
व्रतान्य् अस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीर् अनु स्वराज्यम् ||tā́ asya námasā sáhaḥ saparyánti prácetasaḥ ǀ
vratā́nyasya saścire purū́ṇi pūrvácittaye vásvīránu svarā́jyam ǁtā asya namasā sahaḥ saparyanti pracetasaḥ |
vratāny asya saścire purūṇi pūrvacittaye vasvīr anu svarājyam ||ताः । अ॒स्य॒ । नम॑सा । सहः॑ । स॒प॒र्यन्ति॑ । प्रऽचे॑तसः ।
व्र॒तानि॑ । अ॒स्य॒ । स॒श्चि॒रे॒ । पु॒रूणि॑ । पू॒र्वऽचि॑त्तये । वस्वीः॑ । अनु॑ । स्व॒ऽराज्य॑म् ॥ताः । अस्य । नमसा । सहः । सपर्यन्ति । प्रऽचेतसः ।
व्रतानि । अस्य । सश्चिरे । पुरूणि । पूर्वऽचित्तये । वस्वीः । अनु । स्वऽराज्यम् ॥tā́ḥ ǀ asya ǀ námasā ǀ sáhaḥ ǀ saparyánti ǀ prá-cetasaḥ ǀ
vratā́ni ǀ asya ǀ saścire ǀ purū́ṇi ǀ pūrvá-cittaye ǀ vásvīḥ ǀ ánu ǀ sva-rā́jyam ǁtāḥ ǀ asya ǀ namasā ǀ sahaḥ ǀ saparyanti ǀ pra-cetasaḥ ǀ
vratāni ǀ asya ǀ saścire ǀ purūṇi ǀ pūrva-cittaye ǀ vasvīḥ ǀ anu ǀ sva-rājyam ǁ1.84.12 Aṣṭaka 1.6.7.0
-
Ṛk 13
इंद्रो॑ दधी॒चो अ॒स्थभि॑र्वृ॒त्राण्यप्र॑तिष्कुतः ।
ज॒घान॑ नव॒तीर्नव॑ ॥इन्द्रो दधीचो अस्थभिर् वृत्राण्य् अप्रतिष्कुतः |
जघान नवतीर् नव ||índro dadhīcó asthábhirvṛtrā́ṇyápratiṣkutaḥ ǀ
jaghā́na navatī́rnáva ǁindro dadhīco asthabhir vṛtrāṇy apratiṣkutaḥ |
jaghāna navatīr nava ||इन्द्रः॑ । द॒धी॒चः । अ॒स्थऽभिः॑ । वृ॒त्राणि॑ । अप्र॑तिऽस्कुतः ।
ज॒घान॑ । न॒व॒तीः । नव॑ ॥इन्द्रः । दधीचः । अस्थऽभिः । वृत्राणि । अप्रतिऽस्कुतः ।
जघान । नवतीः । नव ॥índraḥ ǀ dadhīcáḥ ǀ asthá-bhiḥ ǀ vṛtrā́ṇi ǀ áprati-skutaḥ ǀ
jaghā́na ǀ navatī́ḥ ǀ náva ǁindraḥ ǀ dadhīcaḥ ǀ astha-bhiḥ ǀ vṛtrāṇi ǀ aprati-skutaḥ ǀ
jaghāna ǀ navatīḥ ǀ nava ǁ1.84.13 Aṣṭaka 1.6.7.0
-
Ṛk 14
इ॒च्छन्नश्व॑स्य॒ यच्छिरः॒ पर्व॑ते॒ष्वप॑श्रितं ।
तद्वि॑दच्छर्य॒णाव॑ति ॥इच्छन्न् अश्वस्य यच् छिरः पर्वतेष्व् अपश्रितम् |
तद् विदच् छर्यणावति ||icchánnáśvasya yácchíraḥ párvateṣvápaśritam ǀ
tádvidaccharyaṇā́vati ǁicchann aśvasya yac chiraḥ parvateṣv apaśritam |
tad vidac charyaṇāvati ||इ॒च्छन् । अश्व॑स्य । यत् । शिरः॑ । पर्व॑तेषु । अप॑ऽश्रितम् ।
तत् । वि॒द॒त् । श॒र्य॒णाऽव॑ति ॥इच्छन् । अश्वस्य । यत् । शिरः । पर्वतेषु । अपऽश्रितम् ।
तत् । विदत् । शर्यणाऽवति ॥icchán ǀ áśvasya ǀ yát ǀ śíraḥ ǀ párvateṣu ǀ ápa-śritam ǀ
tát ǀ vidat ǀ śaryaṇā́-vati ǁicchan ǀ aśvasya ǀ yat ǀ śiraḥ ǀ parvateṣu ǀ apa-śritam ǀ
tat ǀ vidat ǀ śaryaṇā-vati ǁ1.84.14 Aṣṭaka 1.6.7.0
-
Ṛk 15
अत्राह॒ गोर॑मन्वत॒ नाम॒ त्वष्टु॑रपी॒च्यं॑ ।
इ॒त्था चं॒द्रम॑सो गृ॒हे ॥अत्राह गोर् अमन्वत नाम त्वष्टुर् अपीच्यम् |
इत्था चन्द्रमसो गृहे ||átrā́ha góramanvata nā́ma tváṣṭurapīcyám ǀ
itthā́ candrámaso gṛhé ǁatrāha gor amanvata nāma tvaṣṭur apīcyam |
itthā candramaso gṛhe ||अत्र॑ । अह॑ । गोः । अ॒म॒न्व॒त॒ । नाम॑ । त्वष्टुः॑ । अ॒पी॒च्य॑म् ।
इ॒त्था । च॒न्द्रम॑सः । गृ॒हे ॥अत्र । अह । गोः । अमन्वत । नाम । त्वष्टुः । अपीच्यम् ।
इत्था । चन्द्रमसः । गृहे ॥átra ǀ áha ǀ góḥ ǀ amanvata ǀ nā́ma ǀ tváṣṭuḥ ǀ apīcyám ǀ
itthā́ ǀ candrámasaḥ ǀ gṛhé ǁatra ǀ aha ǀ goḥ ǀ amanvata ǀ nāma ǀ tvaṣṭuḥ ǀ apīcyam ǀ
itthā ǀ candramasaḥ ǀ gṛhe ǁ1.84.15 Aṣṭaka 1.6.7.0
-
Ṛk 16
को अ॒द्य युं॑क्ते धु॒रि गा ऋ॒तस्य॒ शिमी॑वतो भा॒मिनो॑ दुर्हृणा॒यून् ।
आ॒सन्नि॑षून्हृ॒त्स्वसो॑ मयो॒भून्य ए॑षां भृ॒त्यामृ॒णध॒त्स जी॑वात् ॥को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् |
आसन्निषून् हृत्स्वसो मयोभून् य एषाम् भृत्याम् ऋणधत् स जीवात् ||kó adyá yuṅkte dhurí gā́ ṛtásya śímīvato bhāmíno durhṛṇāyū́n ǀ
āsánniṣūnhṛtsváso mayobhū́nyá eṣām bhṛtyā́mṛṇádhatsá jīvāt ǁko adya yuṅkte dhuri gā ṛtasya śimīvato bhāmino durhṛṇāyūn |
āsanniṣūn hṛtsvaso mayobhūn ya eṣām bhṛtyām ṛṇadhat sa jīvāt ||कः । अ॒द्य । यु॒ङ्क्ते॒ । धु॒रि । गाः । ऋ॒तस्य॑ । शिमी॑ऽवतः । भा॒मिनः॑ । दुः॒ऽहृ॒णा॒यून् ।
आ॒सन्ऽइ॑षून् । हृ॒त्सु॒ऽअसः॑ । म॒यः॒ऽभून् । यः । ए॒षा॒म् । भृ॒त्याम् । ऋ॒णध॑त् । सः । जी॒वा॒त् ॥कः । अद्य । युङ्क्ते । धुरि । गाः । ऋतस्य । शिमीऽवतः । भामिनः । दुःऽहृणायून् ।
आसन्ऽइषून् । हृत्सुऽअसः । मयःऽभून् । यः । एषाम् । भृत्याम् । ऋणधत् । सः । जीवात् ॥káḥ ǀ adyá ǀ yuṅkte ǀ dhurí ǀ gā́ḥ ǀ ṛtásya ǀ śímī-vataḥ ǀ bhāmínaḥ ǀ duḥ-hṛṇāyū́n ǀ
āsán-iṣūn ǀ hṛtsu-ásaḥ ǀ mayaḥ-bhū́n ǀ yáḥ ǀ eṣām ǀ bhṛtyā́m ǀ ṛṇádhat ǀ sáḥ ǀ jīvāt ǁkaḥ ǀ adya ǀ yuṅkte ǀ dhuri ǀ gāḥ ǀ ṛtasya ǀ śimī-vataḥ ǀ bhāminaḥ ǀ duḥ-hṛṇāyūn ǀ
āsan-iṣūn ǀ hṛtsu-asaḥ ǀ mayaḥ-bhūn ǀ yaḥ ǀ eṣām ǀ bhṛtyām ǀ ṛṇadhat ǀ saḥ ǀ jīvāt ǁ1.84.16 Aṣṭaka 1.6.8.0
-
Ṛk 17
क ई॑षते तु॒ज्यते॒ को बि॑भाय॒ को मं॑सते॒ संत॒मिंद्रं॒ को अंति॑ ।
कस्तो॒काय॒ क इभा॑यो॒त रा॒येऽधि॑ ब्रवत्त॒न्वे॒३॒॑ को जना॑य ॥क ईषते तुज्यते को बिभाय को मंसते सन्तम् इन्द्रं को अन्ति |
कस् तोकाय क इभायोत राये ऽधि ब्रवत् तन्वे को जनाय ||ká īṣate tujyáte kó bibhāya kó maṃsate sántamíndram kó ánti ǀ
kástokā́ya ká íbhāyotá rāyé’dhi bravattanvé kó jánāya ǁka īṣate tujyate ko bibhāya ko maṃsate santam indraṃ ko anti |
kas tokāya ka ibhāyota rāye 'dhi bravat tanve ko janāya ||कः । ई॒ष॒ते॒ । तु॒ज्यते॑ । कः । बि॒भा॒य॒ । कः । मं॒स॒ते॒ । सन्त॑म् । इन्द्र॑म् । कः । अन्ति॑ ।
कः । तो॒काय॑ । कः । इभा॑य । उ॒त । रा॒ये । अधि॑ । ब्र॒व॒त् । त॒न्वे॑ । कः । जना॑य ॥कः । ईषते । तुज्यते । कः । बिभाय । कः । मंसते । सन्तम् । इन्द्रम् । कः । अन्ति ।
कः । तोकाय । कः । इभाय । उत । राये । अधि । ब्रवत् । तन्वे । कः । जनाय ॥káḥ ǀ īṣate ǀ tujyáte ǀ káḥ ǀ bibhāya ǀ káḥ ǀ maṃsate ǀ sántam ǀ índram ǀ káḥ ǀ ánti ǀ
káḥ ǀ tokā́ya ǀ káḥ ǀ íbhāya ǀ utá ǀ rāyé ǀ ádhi ǀ bravat ǀ tanvé ǀ káḥ ǀ jánāya ǁkaḥ ǀ īṣate ǀ tujyate ǀ kaḥ ǀ bibhāya ǀ kaḥ ǀ maṃsate ǀ santam ǀ indram ǀ kaḥ ǀ anti ǀ
kaḥ ǀ tokāya ǀ kaḥ ǀ ibhāya ǀ uta ǀ rāye ǀ adhi ǀ bravat ǀ tanve ǀ kaḥ ǀ janāya ǁ1.84.17 Aṣṭaka 1.6.8.0
-
Ṛk 18
को अ॒ग्निमी॑ट्टे ह॒विषा॑ घृ॒तेन॑ स्रु॒चा य॑जाता ऋ॒तुभि॑र्ध्रु॒वेभिः॑ ।
कस्मै॑ दे॒वा आ व॑हाना॒शु होम॒ को मं॑सते वी॒तिहो॑त्रः सुदे॒वः ॥को अग्निम् ईट्टे हविषा घृतेन स्रुचा यजाता ऋतुभिर् ध्रुवेभिः |
कस्मै देवा आ वहान् आशु होम को मंसते वीतिहोत्रः सुदेवः ||kó agnímīṭṭe havíṣā ghṛténa srucā́ yajātā ṛtúbhirdhruvébhiḥ ǀ
kásmai devā́ ā́ vahānāśú hóma kó maṃsate vītíhotraḥ sudeváḥ ǁko agnim īṭṭe haviṣā ghṛtena srucā yajātā ṛtubhir dhruvebhiḥ |
kasmai devā ā vahān āśu homa ko maṃsate vītihotraḥ sudevaḥ ||कः । अ॒ग्निम् । ई॒ट्टे॒ । ह॒विषा॑ । घृ॒तेन॑ । स्रु॒चा । य॒जा॒तै॒ । ऋ॒तुऽभिः॑ । ध्रु॒वेभिः॑ ।
कस्मै॑ । दे॒वाः । आ । व॒हा॒न् । आ॒शु । होम॑ । कः । मं॒स॒ते॒ । वी॒तिऽहो॑त्रः । सु॒ऽदे॒वः ॥कः । अग्निम् । ईट्टे । हविषा । घृतेन । स्रुचा । यजातै । ऋतुऽभिः । ध्रुवेभिः ।
कस्मै । देवाः । आ । वहान् । आशु । होम । कः । मंसते । वीतिऽहोत्रः । सुऽदेवः ॥káḥ ǀ agním ǀ īṭṭe ǀ havíṣā ǀ ghṛténa ǀ srucā́ ǀ yajātai ǀ ṛtú-bhiḥ ǀ dhruvébhiḥ ǀ
kásmai ǀ devā́ḥ ǀ ā́ ǀ vahān ǀ āśú ǀ hóma ǀ káḥ ǀ maṃsate ǀ vītí-hotraḥ ǀ su-deváḥ ǁkaḥ ǀ agnim ǀ īṭṭe ǀ haviṣā ǀ ghṛtena ǀ srucā ǀ yajātai ǀ ṛtu-bhiḥ ǀ dhruvebhiḥ ǀ
kasmai ǀ devāḥ ǀ ā ǀ vahān ǀ āśu ǀ homa ǀ kaḥ ǀ maṃsate ǀ vīti-hotraḥ ǀ su-devaḥ ǁ1.84.18 Aṣṭaka 1.6.8.0
-
Ṛk 19
त्वमं॒ग प्र शं॑सिषो दे॒वः श॑विष्ठ॒ मर्त्यं॑ ।
न त्वद॒न्यो म॑घवन्नस्ति मर्डि॒तेंद्र॒ ब्रवी॑मि ते॒ वचः॑ ॥त्वम् अङ्ग प्र शंसिषो देवः शविष्ठ मर्त्यम् |
न त्वद् अन्यो मघवन्न् अस्ति मर्डितेन्द्र ब्रवीमि ते वचः ||tvámaṅgá prá śaṃsiṣo deváḥ śaviṣṭha mártyam ǀ
ná tvádanyó maghavannasti marḍiténdra brávīmi te vácaḥ ǁtvam aṅga pra śaṃsiṣo devaḥ śaviṣṭha martyam |
na tvad anyo maghavann asti marḍitendra bravīmi te vacaḥ ||त्वम् । अ॒ङ्ग । प्र । शं॒सि॒षः॒ । दे॒वः । श॒वि॒ष्ठ॒ । मर्त्य॑म् ।
न । त्वत् । अ॒न्यः । म॒घ॒ऽव॒न् । अ॒स्ति॒ । म॒र्डि॒ता । इन्द्र॑ । ब्रवी॑मि । ते॒ । वचः॑ ॥त्वम् । अङ्ग । प्र । शंसिषः । देवः । शविष्ठ । मर्त्यम् ।
न । त्वत् । अन्यः । मघऽवन् । अस्ति । मर्डिता । इन्द्र । ब्रवीमि । ते । वचः ॥tvám ǀ aṅgá ǀ prá ǀ śaṃsiṣaḥ ǀ deváḥ ǀ śaviṣṭha ǀ mártyam ǀ
ná ǀ tvát ǀ anyáḥ ǀ magha-van ǀ asti ǀ marḍitā́ ǀ índra ǀ brávīmi ǀ te ǀ vácaḥ ǁtvam ǀ aṅga ǀ pra ǀ śaṃsiṣaḥ ǀ devaḥ ǀ śaviṣṭha ǀ martyam ǀ
na ǀ tvat ǀ anyaḥ ǀ magha-van ǀ asti ǀ marḍitā ǀ indra ǀ bravīmi ǀ te ǀ vacaḥ ǁ1.84.19 Aṣṭaka 1.6.8.0
-
Ṛk 20
मा ते॒ राधां॑सि॒ मा त॑ ऊ॒तयो॑ वसो॒ऽस्मान्कदा॑ च॒ना द॑भन् ।
विश्वा॑ च न उपमिमी॒हि मा॑नुष॒ वसू॑नि चर्ष॒णिभ्य॒ आ ॥मा ते राधांसि मा त ऊतयो वसो ऽस्मान् कदा चना दभन् |
विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ||mā́ te rā́dhāṃsi mā́ ta ūtáyo vaso’smā́nkádā canā́ dabhan ǀ
víśvā ca na upamimīhí mānuṣa vásūni carṣaṇíbhya ā́ ǁmā te rādhāṃsi mā ta ūtayo vaso 'smān kadā canā dabhan |
viśvā ca na upamimīhi mānuṣa vasūni carṣaṇibhya ā ||मा । ते॒ । राधां॑सि । मा । ते॒ । ऊ॒तयः॑ । व॒सो॒ इति॑ । अ॒स्मान् । कदा॑ । च॒न । द॒भ॒न् ।
विश्वा॑ । च॒ । नः॒ । उ॒प॒ऽमि॒मी॒हि । मा॒नु॒ष॒ । वसू॑नि । च॒र्ष॒णिऽभ्यः॑ । आ ॥मा । ते । राधांसि । मा । ते । ऊतयः । वसो इति । अस्मान् । कदा । चन । दभन् ।
विश्वा । च । नः । उपऽमिमीहि । मानुष । वसूनि । चर्षणिऽभ्यः । आ ॥mā́ ǀ te ǀ rā́dhāṃsi ǀ mā́ ǀ te ǀ ūtáyaḥ ǀ vaso íti ǀ asmā́n ǀ kádā ǀ caná ǀ dabhan ǀ
víśvā ǀ ca ǀ naḥ ǀ upa-mimīhí ǀ mānuṣa ǀ vásūni ǀ carṣaṇí-bhyaḥ ǀ ā́ ǁmā ǀ te ǀ rādhāṃsi ǀ mā ǀ te ǀ ūtayaḥ ǀ vaso iti ǀ asmān ǀ kadā ǀ cana ǀ dabhan ǀ
viśvā ǀ ca ǀ naḥ ǀ upa-mimīhi ǀ mānuṣa ǀ vasūni ǀ carṣaṇi-bhyaḥ ǀ ā ǁ1.84.20 Aṣṭaka 1.6.8.0
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.