Ṛk 1.84.17
Saṃhitā
क ई॑षते तु॒ज्यते॒ को बि॑भाय॒ को मं॑सते॒ संत॒मिंद्रं॒ को अंति॑ ।
कस्तो॒काय॒ क इभा॑यो॒त रा॒येऽधि॑ ब्रवत्त॒न्वे॒३॒॑ को जना॑य ॥
क ईषते तुज्यते को बिभाय को मंसते सन्तम् इन्द्रं को अन्ति |
कस् तोकाय क इभायोत राये ऽधि ब्रवत् तन्वे को जनाय ||
ká īṣate tujyáte kó bibhāya kó maṃsate sántamíndram kó ánti ǀ
kástokā́ya ká íbhāyotá rāyé’dhi bravattanvé kó jánāya ǁ
ka īṣate tujyate ko bibhāya ko maṃsate santam indraṃ ko anti |
kas tokāya ka ibhāyota rāye 'dhi bravat tanve ko janāya ||
Padapāṭha
कः । ई॒ष॒ते॒ । तु॒ज्यते॑ । कः । बि॒भा॒य॒ । कः । मं॒स॒ते॒ । सन्त॑म् । इन्द्र॑म् । कः । अन्ति॑ ।
कः । तो॒काय॑ । कः । इभा॑य । उ॒त । रा॒ये । अधि॑ । ब्र॒व॒त् । त॒न्वे॑ । कः । जना॑य ॥
कः । ईषते । तुज्यते । कः । बिभाय । कः । मंसते । सन्तम् । इन्द्रम् । कः । अन्ति ।
कः । तोकाय । कः । इभाय । उत । राये । अधि । ब्रवत् । तन्वे । कः । जनाय ॥
káḥ ǀ īṣate ǀ tujyáte ǀ káḥ ǀ bibhāya ǀ káḥ ǀ maṃsate ǀ sántam ǀ índram ǀ káḥ ǀ ánti ǀ
káḥ ǀ tokā́ya ǀ káḥ ǀ íbhāya ǀ utá ǀ rāyé ǀ ádhi ǀ bravat ǀ tanvé ǀ káḥ ǀ jánāya ǁ
kaḥ ǀ īṣate ǀ tujyate ǀ kaḥ ǀ bibhāya ǀ kaḥ ǀ maṃsate ǀ santam ǀ indram ǀ kaḥ ǀ anti ǀ
kaḥ ǀ tokāya ǀ kaḥ ǀ ibhāya ǀ uta ǀ rāye ǀ adhi ǀ bravat ǀ tanve ǀ kaḥ ǀ janāya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.084.17
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.6.08.00
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Anuṣṭubh, Uṣṇih, Paṅkti, Gāyatrī, Triṣṭubh, Bṛhatī, Satobṛhatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.