Ṛgveda · Maṇḍala 1

Sūkta 180

Aśvins · Agastya Maitrāvaruṇi · 10 ṛks

Link
Devatā देवता
Aśvins
Ṛṣi ऋषि
Agastya Maitrāvaruṇi
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles virāṭtrisṭup (3, 5, 6, 8); nicṛttriṣṭup (1, 4, 7); bhurikpaṅkti (2, 9); triṣṭup (10)

2nd set of styles triṣṭubh

  1. Ṛk 1

    यु॒वो रजां॑सि सु॒यमा॑सो॒ अश्वा॒ रथो॒ यद्वां॒ पर्यर्णां॑सि॒ दीय॑त् ।
    हि॒र॒ण्यया॑ वां प॒वयः॑ प्रुषाय॒न्मध्वः॒ पिबं॑ता उ॒षसः॑ सचेथे ॥

    युवो रजांसि सुयमासो अश्वा रथो यद् वाम् पर्य् अर्णांसि दीयत् |
    हिरण्यया वाम् पवयः प्रुषायन् मध्वः पिबन्ता उषसः सचेथे ||

    yuvó rájāṃsi suyámāso áśvā rátho yádvām páryárṇāṃsi dī́yat ǀ
    hiraṇyáyā vām paváyaḥ pruṣāyanmádhvaḥ píbantā uṣásaḥ sacethe ǁ

    yuvo rajāṃsi suyamāso aśvā ratho yad vām pary arṇāṃsi dīyat |
    hiraṇyayā vām pavayaḥ pruṣāyan madhvaḥ pibantā uṣasaḥ sacethe ||

    यु॒वोः । रजां॑सि । सु॒ऽयमा॑सः । अश्वाः॑ । रथः॑ । यत् । वा॒म् । परि॑ । अर्णां॑सि । दीय॑त् ।
    हि॒र॒ण्ययाः॑ । वा॒म् । प॒वयः॑ । प्रु॒षा॒य॒न् । मध्वः॑ । पिब॑न्तौ । उ॒षसः॑ । स॒चे॒थे॒ इति॑ ॥

    युवोः । रजांसि । सुऽयमासः । अश्वाः । रथः । यत् । वाम् । परि । अर्णांसि । दीयत् ।
    हिरण्ययाः । वाम् । पवयः । प्रुषायन् । मध्वः । पिबन्तौ । उषसः । सचेथे इति ॥

    yuvóḥ ǀ rájāṃsi ǀ su-yámāsaḥ ǀ áśvāḥ ǀ ráthaḥ ǀ yát ǀ vām ǀ pári ǀ árṇāṃsi ǀ dī́yat ǀ
    hiraṇyáyāḥ ǀ vām ǀ paváyaḥ ǀ pruṣāyan ǀ mádhvaḥ ǀ píbantau ǀ uṣásaḥ ǀ sacethe íti ǁ

    yuvoḥ ǀ rajāṃsi ǀ su-yamāsaḥ ǀ aśvāḥ ǀ rathaḥ ǀ yat ǀ vām ǀ pari ǀ arṇāṃsi ǀ dīyat ǀ
    hiraṇyayāḥ ǀ vām ǀ pavayaḥ ǀ pruṣāyan ǀ madhvaḥ ǀ pibantau ǀ uṣasaḥ ǀ sacethe iti ǁ

    1.180.1 Aṣṭaka 2.4.23.1Anuvāka 1.24.1

  2. Ṛk 2

    यु॒वमत्य॒स्याव॑ नक्षथो॒ यद्विप॑त्मनो॒ नर्य॑स्य॒ प्रय॑ज्योः ।
    स्वसा॒ यद्वां॑ विश्वगूर्ती॒ भरा॑ति॒ वाजा॒येट्टे॑ मधुपावि॒षे च॑ ॥

    युवम् अत्यस्याव नक्षथो यद् विपत्मनो नर्यस्य प्रयज्योः |
    स्वसा यद् वां विश्वगूर्ती भराति वाजायेट्टे मधुपाव् इषे च ||

    yuvámátyasyā́va nakṣatho yádvípatmano náryasya práyajyoḥ ǀ
    svásā yádvām viśvagūrtī bhárāti vā́jāyéṭṭe madhupāviṣé ca ǁ

    yuvam atyasyāva nakṣatho yad vipatmano naryasya prayajyoḥ |
    svasā yad vāṃ viśvagūrtī bharāti vājāyeṭṭe madhupāv iṣe ca ||

    यु॒वम् । अत्य॑स्य । अव॑ । न॒क्ष॒थः॒ । यत् । विऽप॑त्मनः । नर्य॑स्य । प्रऽय॑ज्योः ।
    स्वसा॑ । यत् । वा॒म् । वि॒श्व॒गू॒र्ती॒ इति॑ विश्वऽगूर्ती । भरा॑ति । वाजा॑य । ईट्टे॑ । म॒धु॒ऽपौ॒ । इ॒षे । च॒ ॥

    युवम् । अत्यस्य । अव । नक्षथः । यत् । विऽपत्मनः । नर्यस्य । प्रऽयज्योः ।
    स्वसा । यत् । वाम् । विश्वगूर्ती इति विश्वऽगूर्ती । भराति । वाजाय । ईट्टे । मधुऽपौ । इषे । च ॥

    yuvám ǀ átyasya ǀ áva ǀ nakṣathaḥ ǀ yát ǀ ví-patmanaḥ ǀ náryasya ǀ prá-yajyoḥ ǀ
    svásā ǀ yát ǀ vām ǀ viśvagūrtī íti viśva-gūrtī ǀ bhárāti ǀ vā́jāya ǀ ī́ṭṭe ǀ madhu-pau ǀ iṣé ǀ ca ǁ

    yuvam ǀ atyasya ǀ ava ǀ nakṣathaḥ ǀ yat ǀ vi-patmanaḥ ǀ naryasya ǀ pra-yajyoḥ ǀ
    svasā ǀ yat ǀ vām ǀ viśvagūrtī iti viśva-gūrtī ǀ bharāti ǀ vājāya ǀ īṭṭe ǀ madhu-pau ǀ iṣe ǀ ca ǁ

    1.180.2 Aṣṭaka 2.4.23.2Anuvāka 1.24.2

  3. Ṛk 3

    यु॒वं पय॑ उ॒स्रिया॑यामधत्तं प॒क्वमा॒माया॒मव॒ पूर्व्यं॒ गोः ।
    अं॒तर्यद्व॒निनो॑ वामृतप्सू ह्वा॒रो न शुचि॒र्यज॑ते ह॒विष्मा॑न् ॥

    युवम् पय उस्रियायाम् अधत्तम् पक्वम् आमायाम् अव पूर्व्यं गोः |
    अन्तर् यद् वनिनो वाम् ऋतप्सू ह्वारो न शुचिर् यजते हविष्मान् ||

    yuvám páya usríyāyāmadhattam pakvámāmā́yāmáva pū́rvyam góḥ ǀ
    antáryádvaníno vāmṛtapsū hvāró ná śúciryájate havíṣmān ǁ

    yuvam paya usriyāyām adhattam pakvam āmāyām ava pūrvyaṃ goḥ |
    antar yad vanino vām ṛtapsū hvāro na śucir yajate haviṣmān ||

    यु॒वम् । पयः॑ । उ॒स्रिया॑याम् । अ॒ध॒त्त॒म् । प॒क्वम् । आ॒माया॑म् । अव॑ । पूर्व्य॑म् । गोः ।
    अ॒न्तः । यत् । व॒निनः॑ । वा॒म् । ऋ॒त॒प्सू॒ इत्यृ॑तऽप्सू । ह्वा॒रः । न । शुचिः॑ । यज॑ते । ह॒विष्मा॑न् ॥

    युवम् । पयः । उस्रियायाम् । अधत्तम् । पक्वम् । आमायाम् । अव । पूर्व्यम् । गोः ।
    अन्तः । यत् । वनिनः । वाम् । ऋतप्सू इत्यृतऽप्सू । ह्वारः । न । शुचिः । यजते । हविष्मान् ॥

    yuvám ǀ páyaḥ ǀ usríyāyām ǀ adhattam ǀ pakvám ǀ āmā́yām ǀ áva ǀ pū́rvyam ǀ góḥ ǀ
    antáḥ ǀ yát ǀ vanínaḥ ǀ vām ǀ ṛtapsū ítyṛta-psū ǀ hvāráḥ ǀ ná ǀ śúciḥ ǀ yájate ǀ havíṣmān ǁ

    yuvam ǀ payaḥ ǀ usriyāyām ǀ adhattam ǀ pakvam ǀ āmāyām ǀ ava ǀ pūrvyam ǀ goḥ ǀ
    antaḥ ǀ yat ǀ vaninaḥ ǀ vām ǀ ṛtapsū ityṛta-psū ǀ hvāraḥ ǀ na ǀ śuciḥ ǀ yajate ǀ haviṣmān ǁ

    1.180.3 Aṣṭaka 2.4.23.3Anuvāka 1.24.3

  4. Ṛk 4

    यु॒वं ह॑ घ॒र्मं मधु॑मंत॒मत्र॑ये॒ऽपो न क्षोदो॑ऽवृणीतमे॒षे ।
    तद्वां॑ नरावश्विना॒ पश्व॑इष्टी॒ रथ्ये॑व च॒क्रा प्रति॑ यंति॒ मध्वः॑ ॥

    युवं ह घर्मम् मधुमन्तम् अत्रये ऽपो न क्षोदो ऽवृणीतम् एषे |
    तद् वां नराव् अश्विना पश्वैष्टी रथ्येव चक्रा प्रति यन्ति मध्वः ||

    yuvám ha gharmám mádhumantamátraye’pó ná kṣódo’vṛṇītameṣé ǀ
    tádvām narāvaśvinā páśva-iṣṭī ráthyeva cakrā́ práti yanti mádhvaḥ ǁ

    yuvaṃ ha gharmam madhumantam atraye 'po na kṣodo 'vṛṇītam eṣe |
    tad vāṃ narāv aśvinā paśvaiṣṭī rathyeva cakrā prati yanti madhvaḥ ||

    यु॒वम् । ह॒ । घ॒र्मम् । मधु॑ऽमन्तम् । अत्र॑ये । अ॒पः । न । क्षोदः॑ । अ॒वृ॒णी॒त॒म् । ए॒षे ।
    तत् । वा॒म् । न॒रौ॒ । अ॒श्वि॒ना॒ । पश्वः॑ऽइष्टिः । रथ्या॑ऽइव । च॒क्रा । प्रति॑ । य॒न्ति॒ । मध्वः॑ ॥

    युवम् । ह । घर्मम् । मधुऽमन्तम् । अत्रये । अपः । न । क्षोदः । अवृणीतम् । एषे ।
    तत् । वाम् । नरौ । अश्विना । पश्वःऽइष्टिः । रथ्याऽइव । चक्रा । प्रति । यन्ति । मध्वः ॥

    yuvám ǀ ha ǀ gharmám ǀ mádhu-mantam ǀ átraye ǀ apáḥ ǀ ná ǀ kṣódaḥ ǀ avṛṇītam ǀ eṣé ǀ
    tát ǀ vām ǀ narau ǀ aśvinā ǀ páśvaḥ-iṣṭiḥ ǀ ráthyā-iva ǀ cakrā́ ǀ práti ǀ yanti ǀ mádhvaḥ ǁ

    yuvam ǀ ha ǀ gharmam ǀ madhu-mantam ǀ atraye ǀ apaḥ ǀ na ǀ kṣodaḥ ǀ avṛṇītam ǀ eṣe ǀ
    tat ǀ vām ǀ narau ǀ aśvinā ǀ paśvaḥ-iṣṭiḥ ǀ rathyā-iva ǀ cakrā ǀ prati ǀ yanti ǀ madhvaḥ ǁ

    1.180.4 Aṣṭaka 2.4.23.4Anuvāka 1.24.4

  5. Ṛk 5

    आ वां॑ दा॒नाय॑ ववृतीय दस्रा॒ गोरोहे॑ण तौ॒ग्र्यो न जिव्रिः॑ ।
    अ॒पः क्षो॒णी स॑चते॒ माहि॑ना वां जू॒र्णो वा॒मक्षु॒रंह॑सो यजत्रा ॥

    आ वां दानाय ववृतीय दस्रा गोर् ओहेण तौग्र्यो न जिव्रिः |
    अपः क्षोणी सचते माहिना वां जूर्णो वाम् अक्षुर् अंहसो यजत्रा ||

    ā́ vām dānā́ya vavṛtīya dasrā góróheṇa taugryó ná jívriḥ ǀ
    apáḥ kṣoṇī́ sacate mā́hinā vām jūrṇó vāmákṣuráṃhaso yajatrā ǁ

    ā vāṃ dānāya vavṛtīya dasrā gor oheṇa taugryo na jivriḥ |
    apaḥ kṣoṇī sacate māhinā vāṃ jūrṇo vām akṣur aṃhaso yajatrā ||

    आ । वा॒म् । दा॒नाय॑ । व॒वृ॒ती॒य॒ । द॒स्रा॒ । गोः । ओहे॑न । तौ॒ग्र्यः । न । जिव्रिः॑ ।
    अ॒पः । क्षो॒णी इति॑ । स॒च॒ते॒ । माहि॑ना । वा॒म् । जू॒र्णः । वा॒म् । अक्षुः॑ । अंह॑सः । य॒ज॒त्रा॒ ॥

    आ । वाम् । दानाय । ववृतीय । दस्रा । गोः । ओहेन । तौग्र्यः । न । जिव्रिः ।
    अपः । क्षोणी इति । सचते । माहिना । वाम् । जूर्णः । वाम् । अक्षुः । अंहसः । यजत्रा ॥

    ā́ ǀ vām ǀ dānā́ya ǀ vavṛtīya ǀ dasrā ǀ góḥ ǀ óhena ǀ taugryáḥ ǀ ná ǀ jívriḥ ǀ
    apáḥ ǀ kṣoṇī́ íti ǀ sacate ǀ mā́hinā ǀ vām ǀ jūrṇáḥ ǀ vām ǀ ákṣuḥ ǀ áṃhasaḥ ǀ yajatrā ǁ

    ā ǀ vām ǀ dānāya ǀ vavṛtīya ǀ dasrā ǀ goḥ ǀ ohena ǀ taugryaḥ ǀ na ǀ jivriḥ ǀ
    apaḥ ǀ kṣoṇī iti ǀ sacate ǀ māhinā ǀ vām ǀ jūrṇaḥ ǀ vām ǀ akṣuḥ ǀ aṃhasaḥ ǀ yajatrā ǁ

    1.180.5 Aṣṭaka 2.4.23.5Anuvāka 1.24.5

  6. Ṛk 6

    नि यद्यु॒वेथे॑ नि॒युतः॑ सुदानू॒ उप॑ स्व॒धाभिः॑ सृजथः॒ पुरं॑धिं ।
    प्रेष॒द्वेष॒द्वातो॒ न सू॒रिरा म॒हे द॑दे सुव्र॒तो न वाजं॑ ॥

    नि यद् युवेथे नियुतः सुदानू उप स्वधाभिः सृजथः पुरन्धिम् |
    प्रेषद् वेषद् वातो न सूरिर् आ महे ददे सुव्रतो न वाजम् ||

    ní yádyuvéthe niyútaḥ sudānū úpa svadhā́bhiḥ sṛjathaḥ púraṃdhim ǀ
    préṣadvéṣadvā́to ná sūrírā́ mahé dade suvrató ná vā́jam ǁ

    ni yad yuvethe niyutaḥ sudānū upa svadhābhiḥ sṛjathaḥ purandhim |
    preṣad veṣad vāto na sūrir ā mahe dade suvrato na vājam ||

    नि । यत् । यु॒वेथे॒ इति॑ । नि॒ऽयुतः॑ । सु॒दा॒नू॒ इति॑ सुऽदानू । उप॑ । स्व॒धाभिः॑ । सृ॒ज॒थः॒ । पुर॑म्ऽधिम् ।
    प्रेष॑त् । वेष॑त् । वातः॑ । न । सू॒रिः । आ । म॒हे । द॒दे॒ । सु॒ऽव्र॒तः । न । वाज॑म् ॥

    नि । यत् । युवेथे इति । निऽयुतः । सुदानू इति सुऽदानू । उप । स्वधाभिः । सृजथः । पुरम्ऽधिम् ।
    प्रेषत् । वेषत् । वातः । न । सूरिः । आ । महे । ददे । सुऽव्रतः । न । वाजम् ॥

    ní ǀ yát ǀ yuvéthe íti ǀ ni-yútaḥ ǀ sudānū íti su-dānū ǀ úpa ǀ svadhā́bhiḥ ǀ sṛjathaḥ ǀ púram-dhim ǀ
    préṣat ǀ véṣat ǀ vā́taḥ ǀ ná ǀ sūríḥ ǀ ā́ ǀ mahé ǀ dade ǀ su-vratáḥ ǀ ná ǀ vā́jam ǁ

    ni ǀ yat ǀ yuvethe iti ǀ ni-yutaḥ ǀ sudānū iti su-dānū ǀ upa ǀ svadhābhiḥ ǀ sṛjathaḥ ǀ puram-dhim ǀ
    preṣat ǀ veṣat ǀ vātaḥ ǀ na ǀ sūriḥ ǀ ā ǀ mahe ǀ dade ǀ su-vrataḥ ǀ na ǀ vājam ǁ

    1.180.6 Aṣṭaka 2.4.24.1Anuvāka 1.24.6

  7. Ṛk 7

    व॒यं चि॒द्धि वां॑ जरि॒तारः॑ स॒त्या वि॑प॒न्याम॑हे॒ वि प॒णिर्हि॒तावा॑न् ।
    अधा॑ चि॒द्धि ष्मा॑श्विनावनिंद्या पा॒थो हि ष्मा॑ वृषणा॒वंति॑देवं ॥

    वयं चिद् धि वां जरितारः सत्या विपन्यामहे वि पणिर् हितावान् |
    अधा चिद् धि ष्माश्विनाव् अनिन्द्या पाथो हि ष्मा वृषणाव् अन्तिदेवम् ||

    vayám ciddhí vām jaritā́raḥ satyā́ vipanyā́mahe ví paṇírhitā́vān ǀ
    ádhā ciddhí ṣmāśvināvanindyā pāthó hí ṣmā vṛṣaṇāvántidevam ǁ

    vayaṃ cid dhi vāṃ jaritāraḥ satyā vipanyāmahe vi paṇir hitāvān |
    adhā cid dhi ṣmāśvināv anindyā pātho hi ṣmā vṛṣaṇāv antidevam ||

    व॒यम् । चि॒त् । हि । वा॒म् । ज॒रि॒तारः॑ । स॒त्याः । वि॒प॒न्याम॑हे । वि । प॒णिः । हि॒तऽवा॑न् ।
    अध॑ । चि॒त् । हि । स्म॒ । अ॒श्वि॒नौ॒ । अ॒नि॒न्द्या॒ । पा॒थः । हि । स्म॒ । वृ॒ष॒णौ॒ । अन्ति॑ऽदेवम् ॥

    वयम् । चित् । हि । वाम् । जरितारः । सत्याः । विपन्यामहे । वि । पणिः । हितऽवान् ।
    अध । चित् । हि । स्म । अश्विनौ । अनिन्द्या । पाथः । हि । स्म । वृषणौ । अन्तिऽदेवम् ॥

    vayám ǀ cit ǀ hí ǀ vām ǀ jaritā́raḥ ǀ satyā́ḥ ǀ vipanyā́mahe ǀ ví ǀ paṇíḥ ǀ hitá-vān ǀ
    ádha ǀ cit ǀ hí ǀ sma ǀ aśvinau ǀ anindyā ǀ pātháḥ ǀ hí ǀ sma ǀ vṛṣaṇau ǀ ánti-devam ǁ

    vayam ǀ cit ǀ hi ǀ vām ǀ jaritāraḥ ǀ satyāḥ ǀ vipanyāmahe ǀ vi ǀ paṇiḥ ǀ hita-vān ǀ
    adha ǀ cit ǀ hi ǀ sma ǀ aśvinau ǀ anindyā ǀ pāthaḥ ǀ hi ǀ sma ǀ vṛṣaṇau ǀ anti-devam ǁ

    1.180.7 Aṣṭaka 2.4.24.2Anuvāka 1.24.7

  8. Ṛk 8

    यु॒वां चि॒द्धि ष्मा॑श्विना॒वनु॒ द्यून्विरु॑द्रस्य प्र॒स्रव॑णस्य सा॒तौ ।
    अ॒गस्त्यो॑ न॒रां नृषु॒ प्रश॑स्तः॒ कारा॑धुनीव चितयत्स॒हस्रैः॑ ॥

    युवां चिद् धि ष्माश्विनाव् अनु द्यून् विरुद्रस्य प्रस्रवणस्य सातौ |
    अगस्त्यो नरां नृषु प्रशस्तः काराधुनीव चितयत् सहस्रैः ||

    yuvā́m ciddhí ṣmāśvināvánu dyū́nvírudrasya prasrávaṇasya sātáu ǀ
    agástyo narā́m nṛ́ṣu práśastaḥ kā́rādhunīva citayatsahásraiḥ ǁ

    yuvāṃ cid dhi ṣmāśvināv anu dyūn virudrasya prasravaṇasya sātau |
    agastyo narāṃ nṛṣu praśastaḥ kārādhunīva citayat sahasraiḥ ||

    यु॒वाम् । चि॒त् । हि । स्म॒ । अ॒श्वि॒नौ॒ । अनु॑ । द्यून् । विऽरु॑द्रस्य । प्र॒ऽस्रव॑णस्य । सा॒तौ ।
    अ॒गस्त्यः॑ । न॒राम् । नृषु॑ । प्रऽश॑स्तः । कारा॑धुनीऽइव । चि॒त॒य॒त् । स॒हस्रैः॑ ॥

    युवाम् । चित् । हि । स्म । अश्विनौ । अनु । द्यून् । विऽरुद्रस्य । प्रऽस्रवणस्य । सातौ ।
    अगस्त्यः । नराम् । नृषु । प्रऽशस्तः । काराधुनीऽइव । चितयत् । सहस्रैः ॥

    yuvā́m ǀ cit ǀ hí ǀ sma ǀ aśvinau ǀ ánu ǀ dyū́n ǀ ví-rudrasya ǀ pra-srávaṇasya ǀ sātáu ǀ
    agástyaḥ ǀ narā́m ǀ nṛ́ṣu ǀ prá-śastaḥ ǀ kā́rādhunī-iva ǀ citayat ǀ sahásraiḥ ǁ

    yuvām ǀ cit ǀ hi ǀ sma ǀ aśvinau ǀ anu ǀ dyūn ǀ vi-rudrasya ǀ pra-sravaṇasya ǀ sātau ǀ
    agastyaḥ ǀ narām ǀ nṛṣu ǀ pra-śastaḥ ǀ kārādhunī-iva ǀ citayat ǀ sahasraiḥ ǁ

    1.180.8 Aṣṭaka 2.4.24.3Anuvāka 1.24.8

  9. Ṛk 9

    प्र यद्वहे॑थे महि॒ना रथ॑स्य॒ प्र स्यं॑द्रा याथो॒ मनु॑षो॒ न होता॑ ।
    ध॒त्तं सू॒रिभ्य॑ उ॒त वा॒ स्वश्व्यं॒ नास॑त्या रयि॒षाचः॑ स्याम ॥

    प्र यद् वहेथे महिना रथस्य प्र स्यन्द्रा याथो मनुषो न होता |
    धत्तं सूरिभ्य उत वा स्वश्व्यं नासत्या रयिषाचः स्याम ||

    prá yádváhethe mahinā́ ráthasya prá syandrā yātho mánuṣo ná hótā ǀ
    dhattám sūríbhya utá vā sváśvyam nā́satyā rayiṣā́caḥ syāma ǁ

    pra yad vahethe mahinā rathasya pra syandrā yātho manuṣo na hotā |
    dhattaṃ sūribhya uta vā svaśvyaṃ nāsatyā rayiṣācaḥ syāma ||

    प्र । यत् । वहे॑थे॒ इति॑ । म॒हि॒ना । रथ॑स्य । प्र । स्य॒न्द्रा॒ । या॒थः॒ । मनु॑षः । न । होता॑ ।
    ध॒त्तम् । सू॒रिऽभ्यः॑ । उ॒त । वा॒ । सु॒ऽअश्व्य॑म् । नास॑त्या । र॒यि॒ऽसाचः॑ । स्या॒म॒ ॥

    प्र । यत् । वहेथे इति । महिना । रथस्य । प्र । स्यन्द्रा । याथः । मनुषः । न । होता ।
    धत्तम् । सूरिऽभ्यः । उत । वा । सुऽअश्व्यम् । नासत्या । रयिऽसाचः । स्याम ॥

    prá ǀ yát ǀ váhethe íti ǀ mahinā́ ǀ ráthasya ǀ prá ǀ syandrā ǀ yāthaḥ ǀ mánuṣaḥ ǀ ná ǀ hótā ǀ
    dhattám ǀ sūrí-bhyaḥ ǀ utá ǀ vā ǀ su-áśvyam ǀ nā́satyā ǀ rayi-sā́caḥ ǀ syāma ǁ

    pra ǀ yat ǀ vahethe iti ǀ mahinā ǀ rathasya ǀ pra ǀ syandrā ǀ yāthaḥ ǀ manuṣaḥ ǀ na ǀ hotā ǀ
    dhattam ǀ sūri-bhyaḥ ǀ uta ǀ vā ǀ su-aśvyam ǀ nāsatyā ǀ rayi-sācaḥ ǀ syāma ǁ

    1.180.9 Aṣṭaka 2.4.24.4Anuvāka 1.24.9

  10. Ṛk 10

    तं वां॒ रथं॑ व॒यम॒द्या हु॑वेम॒ स्तोमै॑रश्विना सुवि॒ताय॒ नव्यं॑ ।
    अरि॑ष्टनेमिं॒ परि॒ द्यामि॑या॒नं वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥

    तं वां रथं वयम् अद्या हुवेम स्तोमैर् अश्विना सुविताय नव्यम् |
    अरिष्टनेमिम् परि द्याम् इयानं विद्यामेषं वृजनं जीरदानुम् ||

    tám vām rátham vayámadyā́ huvema stómairaśvinā suvitā́ya návyam ǀ
    áriṣṭanemim pári dyā́miyānám vidyā́meṣám vṛjánam jīrádānum ǁ

    taṃ vāṃ rathaṃ vayam adyā huvema stomair aśvinā suvitāya navyam |
    ariṣṭanemim pari dyām iyānaṃ vidyāmeṣaṃ vṛjanaṃ jīradānum ||

    तम् । वा॒म् । रथ॑म् । व॒यम् । अ॒द्य । हु॒वे॒म॒ । स्तोमैः॑ । अ॒श्वि॒ना॒ । सु॒वि॒ताय॑ । नव्य॑म् ।
    अरि॑ष्टऽनेमिम् । परि॑ । द्याम् । इ॒या॒नम् । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

    तम् । वाम् । रथम् । वयम् । अद्य । हुवेम । स्तोमैः । अश्विना । सुविताय । नव्यम् ।
    अरिष्टऽनेमिम् । परि । द्याम् । इयानम् । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥

    tám ǀ vām ǀ rátham ǀ vayám ǀ adyá ǀ huvema ǀ stómaiḥ ǀ aśvinā ǀ suvitā́ya ǀ návyam ǀ
    áriṣṭa-nemim ǀ pári ǀ dyā́m ǀ iyānám ǀ vidyā́ma ǀ iṣám ǀ vṛjánam ǀ jīrá-dānum ǁ

    tam ǀ vām ǀ ratham ǀ vayam ǀ adya ǀ huvema ǀ stomaiḥ ǀ aśvinā ǀ suvitāya ǀ navyam ǀ
    ariṣṭa-nemim ǀ pari ǀ dyām ǀ iyānam ǀ vidyāma ǀ iṣam ǀ vṛjanam ǀ jīra-dānum ǁ

    1.180.10 Aṣṭaka 2.4.24.5Anuvāka 1.24.10

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.180 · Aśvins

Interpretations

Ralph T. H. Griffith

Ṛk 1

LIGHTLY your coursers travel through the regions when round the sea of air your car is flying. Your golden fellies scatter drops of moisture: drinking the sweetness ye attend the Mornings.

Ṛk 2

Ye as ye travel overtake the Courser who flies apart, the Friend of man, most holy. The prayer is that the Sister may convey you, all praised, meath-drinkers! to support and strengthen.

Ṛk 3

Ye have deposited, matured within her, in the raw cow the first milk of the milch-cow, Which the bright offerer, shining like a serpent mid trees, presents to you whose form is perfect.

Ṛk 4

Ye made the fierce heat to be full of sweetness for Atri at his wish, like streaming water. Fire-offering thence is yours, O Aśvins, Heroes: your car-wheels speed to us like springs of honey.

Ṛk 5

Like Tugra's ancient son may I, ye Mighty, bring you to give your gifts with milk-oblations. Your greatness compasseth Earth, Heaven, and Waters: decayed for you is sorrow's net, ye Holy.

Ṛk 6

When, Bounteous Ones, ye drive your yoked team downward, ye send, by your own natures, understanding. Swift as the wind let the prince please and feast you: he, like a pious man, gains strength for increase.

Ṛk 7

For verily we truthful singers praise you the niggard trafficker is here excluded. Now, even now do ye O blameless Aśvins, ye Mighty, guard the man whose God is near him.

Ṛk 8

You of a truth day after day, O Aśvins, that he might win the very plenteous torrent, Agastya, famous among mortal heroes, roused with a thousand lauds like sounds of music.

Ṛk 9

When with the glory of your car ye travel, when we go speeding like the priest of mortals, And give good horses to sacrificers, may we, Nāsatyas! gain our share of riches.