Ṛgveda · Maṇḍala 1 · Sūkta 180
Ṛk 1.180.5
Saṃhitā
आ वां॑ दा॒नाय॑ ववृतीय दस्रा॒ गोरोहे॑ण तौ॒ग्र्यो न जिव्रिः॑ ।
अ॒पः क्षो॒णी स॑चते॒ माहि॑ना वां जू॒र्णो वा॒मक्षु॒रंह॑सो यजत्रा ॥
आ वां दानाय ववृतीय दस्रा गोर् ओहेण तौग्र्यो न जिव्रिः |
अपः क्षोणी सचते माहिना वां जूर्णो वाम् अक्षुर् अंहसो यजत्रा ||
ā́ vām dānā́ya vavṛtīya dasrā góróheṇa taugryó ná jívriḥ ǀ
apáḥ kṣoṇī́ sacate mā́hinā vām jūrṇó vāmákṣuráṃhaso yajatrā ǁ
ā vāṃ dānāya vavṛtīya dasrā gor oheṇa taugryo na jivriḥ |
apaḥ kṣoṇī sacate māhinā vāṃ jūrṇo vām akṣur aṃhaso yajatrā ||
Padapāṭha
आ । वा॒म् । दा॒नाय॑ । व॒वृ॒ती॒य॒ । द॒स्रा॒ । गोः । ओहे॑न । तौ॒ग्र्यः । न । जिव्रिः॑ ।
अ॒पः । क्षो॒णी इति॑ । स॒च॒ते॒ । माहि॑ना । वा॒म् । जू॒र्णः । वा॒म् । अक्षुः॑ । अंह॑सः । य॒ज॒त्रा॒ ॥
आ । वाम् । दानाय । ववृतीय । दस्रा । गोः । ओहेन । तौग्र्यः । न । जिव्रिः ।
अपः । क्षोणी इति । सचते । माहिना । वाम् । जूर्णः । वाम् । अक्षुः । अंहसः । यजत्रा ॥
ā́ ǀ vām ǀ dānā́ya ǀ vavṛtīya ǀ dasrā ǀ góḥ ǀ óhena ǀ taugryáḥ ǀ ná ǀ jívriḥ ǀ
apáḥ ǀ kṣoṇī́ íti ǀ sacate ǀ mā́hinā ǀ vām ǀ jūrṇáḥ ǀ vām ǀ ákṣuḥ ǀ áṃhasaḥ ǀ yajatrā ǁ
ā ǀ vām ǀ dānāya ǀ vavṛtīya ǀ dasrā ǀ goḥ ǀ ohena ǀ taugryaḥ ǀ na ǀ jivriḥ ǀ
apaḥ ǀ kṣoṇī iti ǀ sacate ǀ māhinā ǀ vām ǀ jūrṇaḥ ǀ vām ǀ akṣuḥ ǀ aṃhasaḥ ǀ yajatrā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.180.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.4.23.05
- Maṇḍala · Anuvāka · Ṛk
- 1.24.005
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.