Ṛgveda · Maṇḍala 1

Sūkta 191

Aboṣadhisūryāḥ · Agastya Maitrāvaruṇi · 16 ṛks

Link
Devatā देवता
Aboṣadhisūryāḥ
Ṛṣi ऋषि
Agastya Maitrāvaruṇi
Chandas छन्दस्
Anuṣṭubh, Mahāpaṅkti, Mahābṛhatī
Metres by ṛk

1st set of styles virāḍanuṣṭup (4, 9, 14); nicṛdanuṣṭup (5, 8, 15); svarāḍuṣnik (3, 7); nicṛdbrāhmyanuṣṭup (10, 11); uṣṇik (1); bhuriguṣṇik (2); anuṣṭup (6); virāḍbrāhmyanuṣṭup (12); virāḍuṣnik (13); bhuriganuṣṭup (16)

2nd set of styles anuṣṭubh (1-9, 14-16); mahāpaṅkti (10-12); mahābṛhatī (13)

  1. Ṛk 1

    कंक॑तो॒ न कंक॒तोऽथो॑ सती॒नकं॑कतः ।
    द्वाविति॒ प्लुषी॒ इति॒ न्य१॒॑दृष्टा॑ अलिप्सत ॥

    कङ्कतो न कङ्कतो ऽथो सतीनकङ्कतः |
    द्वाव् इति प्लुषी इति न्य् अदृष्टा अलिप्सत ||

    káṅkato ná káṅkató’tho satīnákaṅkataḥ ǀ
    dvā́víti plúṣī íti nyádṛ́ṣṭā alipsata ǁ

    kaṅkato na kaṅkato 'tho satīnakaṅkataḥ |
    dvāv iti pluṣī iti ny adṛṣṭā alipsata ||

    कङ्क॑तः । न । कङ्क॑तः । अथो॒ इति॑ । स॒ती॒नऽक॑ङ्कतः ।
    द्वौ । इति॑ । प्लुषी॒ इति॑ । इति॑ । नि । अ॒दृष्टाः॑ । अ॒लि॒प्स॒त॒ ॥

    कङ्कतः । न । कङ्कतः । अथो इति । सतीनऽकङ्कतः ।
    द्वौ । इति । प्लुषी इति । इति । नि । अदृष्टाः । अलिप्सत ॥

    káṅkataḥ ǀ ná ǀ káṅkataḥ ǀ átho íti ǀ satīná-kaṅkataḥ ǀ
    dváu ǀ íti ǀ plúṣī íti ǀ íti ǀ ní ǀ adṛ́ṣṭāḥ ǀ alipsata ǁ

    kaṅkataḥ ǀ na ǀ kaṅkataḥ ǀ atho iti ǀ satīna-kaṅkataḥ ǀ
    dvau ǀ iti ǀ pluṣī iti ǀ iti ǀ ni ǀ adṛṣṭāḥ ǀ alipsata ǁ

    1.191.1 Aṣṭaka 2.5.14.1Anuvāka 1.24.100

  2. Ṛk 2

    अ॒दृष्टा॑न्हंत्याय॒त्यथो॑ हंति पराय॒ती ।
    अथो॑ अवघ्न॒ती हं॒त्यथो॑ पिनष्टि पिंष॒ती ॥

    अदृष्टान् हन्त्य् आयत्य् अथो हन्ति परायती |
    अथो अवघ्नती हन्त्य् अथो पिनष्टि पिंषती ||

    adṛ́ṣṭānhantyāyatyátho hanti parāyatī́ ǀ
    átho avaghnatī́ hantyátho pinaṣṭi piṃṣatī́ ǁ

    adṛṣṭān hanty āyaty atho hanti parāyatī |
    atho avaghnatī hanty atho pinaṣṭi piṃṣatī ||

    अ॒दृष्टा॑न् । ह॒न्ति॒ । आ॒ऽय॒ती । अथो॒ इति॑ । ह॒न्ति॒ । प॒रा॒ऽय॒ती ।
    अथो॒ इति॑ । अ॒व॒ऽघ्न॒ती । ह॒न्ति॒ । अथो॒ इति॑ । पि॒न॒ष्टि॒ । पिं॒ष॒ती ॥

    अदृष्टान् । हन्ति । आऽयती । अथो इति । हन्ति । पराऽयती ।
    अथो इति । अवऽघ्नती । हन्ति । अथो इति । पिनष्टि । पिंषती ॥

    adṛ́ṣṭān ǀ hanti ǀ ā-yatī́ ǀ átho íti ǀ hanti ǀ parā-yatī́ ǀ
    átho íti ǀ ava-ghnatī́ ǀ hanti ǀ átho íti ǀ pinaṣṭi ǀ piṃṣatī́ ǁ

    adṛṣṭān ǀ hanti ǀ ā-yatī ǀ atho iti ǀ hanti ǀ parā-yatī ǀ
    atho iti ǀ ava-ghnatī ǀ hanti ǀ atho iti ǀ pinaṣṭi ǀ piṃṣatī ǁ

    1.191.2 Aṣṭaka 2.5.14.2Anuvāka 1.24.101

  3. Ṛk 3

    श॒रासः॒ कुश॑रासो द॒र्भासः॑ सै॒र्या उ॒त ।
    मौं॒जा अ॒दृष्टा॑ वैरि॒णाः सर्वे॑ सा॒कं न्य॑लिप्सत ॥

    शरासः कुशरासो दर्भासः सैर्या उत |
    मौञ्जा अदृष्टा वैरिणाः सर्वे साकं न्य् अलिप्सत ||

    śarā́saḥ kúśarāso darbhā́saḥ sairyā́ utá ǀ
    mauñjā́ adṛ́ṣṭā vairiṇā́ḥ sárve sākám nyálipsata ǁ

    śarāsaḥ kuśarāso darbhāsaḥ sairyā uta |
    mauñjā adṛṣṭā vairiṇāḥ sarve sākaṃ ny alipsata ||

    श॒रासः॑ । कुश॑रासः । द॒र्भासः॑ । सै॒र्याः । उ॒त ।
    मौ॒ञ्जाः । अ॒दृष्टाः॑ । वै॒रि॒णाः । सर्वे॑ । सा॒कम् । नि । अ॒लि॒प्स॒त॒ ॥

    शरासः । कुशरासः । दर्भासः । सैर्याः । उत ।
    मौञ्जाः । अदृष्टाः । वैरिणाः । सर्वे । साकम् । नि । अलिप्सत ॥

    śarā́saḥ ǀ kúśarāsaḥ ǀ darbhā́saḥ ǀ sairyā́ḥ ǀ utá ǀ
    mauñjā́ḥ ǀ adṛ́ṣṭāḥ ǀ vairiṇā́ḥ ǀ sárve ǀ sākám ǀ ní ǀ alipsata ǁ

    śarāsaḥ ǀ kuśarāsaḥ ǀ darbhāsaḥ ǀ sairyāḥ ǀ uta ǀ
    mauñjāḥ ǀ adṛṣṭāḥ ǀ vairiṇāḥ ǀ sarve ǀ sākam ǀ ni ǀ alipsata ǁ

    1.191.3 Aṣṭaka 2.5.14.3Anuvāka 1.24.102

  4. Ṛk 4

    नि गावो॑ गो॒ष्ठे अ॑सद॒न्नि मृ॒गासो॑ अविक्षत ।
    नि के॒तवो॒ जना॑नां॒ न्य१॒॑दृष्टा॑ अलिप्सत ॥

    नि गावो गोष्ठे असदन् नि मृगासो अविक्षत |
    नि केतवो जनानां न्य् अदृष्टा अलिप्सत ||

    ní gā́vo goṣṭhé asadanní mṛgā́so avikṣata ǀ
    ní ketávo jánānām nyádṛ́ṣṭā alipsata ǁ

    ni gāvo goṣṭhe asadan ni mṛgāso avikṣata |
    ni ketavo janānāṃ ny adṛṣṭā alipsata ||

    नि । गावः॑ । गो॒ऽस्थे । अ॒स॒द॒न् । नि । मृ॒गासः॑ । अ॒वि॒क्ष॒त॒ ।
    नि । के॒तवः॑ । जना॑नाम् । नि । अ॒दृष्टाः॑ । अ॒लि॒प्स॒त॒ ॥

    नि । गावः । गोऽस्थे । असदन् । नि । मृगासः । अविक्षत ।
    नि । केतवः । जनानाम् । नि । अदृष्टाः । अलिप्सत ॥

    ní ǀ gā́vaḥ ǀ go-sthé ǀ asadan ǀ ní ǀ mṛgā́saḥ ǀ avikṣata ǀ
    ní ǀ ketávaḥ ǀ jánānām ǀ ní ǀ adṛ́ṣṭāḥ ǀ alipsata ǁ

    ni ǀ gāvaḥ ǀ go-sthe ǀ asadan ǀ ni ǀ mṛgāsaḥ ǀ avikṣata ǀ
    ni ǀ ketavaḥ ǀ janānām ǀ ni ǀ adṛṣṭāḥ ǀ alipsata ǁ

    1.191.4 Aṣṭaka 2.5.14.4Anuvāka 1.24.103

  5. Ṛk 5

    ए॒त उ॒ त्ये प्रत्य॑दृश्रन्प्रदो॒षं तस्क॑रा इव ।
    अदृ॑ष्टा॒ विश्व॑दृष्टाः॒ प्रति॑बुद्धा अभूतन ॥

    एत उ त्ये प्रत्य् अदृश्रन् प्रदोषं तस्करा इव |
    अदृष्टा विश्वदृष्टाः प्रतिबुद्धा अभूतन ||

    etá u tyé prátyadṛśranpradoṣám táskarā iva ǀ
    ádṛṣṭā víśvadṛṣṭāḥ prátibuddhā abhūtana ǁ

    eta u tye praty adṛśran pradoṣaṃ taskarā iva |
    adṛṣṭā viśvadṛṣṭāḥ pratibuddhā abhūtana ||

    ए॒ते । ऊं॒ इति॑ । त्ये । प्रति॑ । अ॒दृ॒श्र॒न् । प्र॒ऽदो॒षम् । तस्क॑राःऽइव ।
    अदृ॑ष्टाः । विश्व॑ऽदृष्टाः । प्रति॑ऽबुद्धाः । अ॒भू॒त॒न॒ ॥

    एते । ऊं इति । त्ये । प्रति । अदृश्रन् । प्रऽदोषम् । तस्कराःऽइव ।
    अदृष्टाः । विश्वऽदृष्टाः । प्रतिऽबुद्धाः । अभूतन ॥

    eté ǀ ūṃ íti ǀ tyé ǀ práti ǀ adṛśran ǀ pra-doṣám ǀ táskarāḥ-iva ǀ
    ádṛṣṭāḥ ǀ víśva-dṛṣṭāḥ ǀ práti-buddhāḥ ǀ abhūtana ǁ

    ete ǀ ūṃ iti ǀ tye ǀ prati ǀ adṛśran ǀ pra-doṣam ǀ taskarāḥ-iva ǀ
    adṛṣṭāḥ ǀ viśva-dṛṣṭāḥ ǀ prati-buddhāḥ ǀ abhūtana ǁ

    1.191.5 Aṣṭaka 2.5.14.5Anuvāka 1.24.104

  6. Ṛk 6

    द्यौर्वः॑ पि॒ता पृ॑थि॒वी मा॒ता सोमो॒ भ्रातादि॑तिः॒ स्वसा॑ ।
    अदृ॑ष्टा॒ विश्व॑दृष्टा॒स्तिष्ठ॑ते॒ळय॑ता॒ सु कं॑ ॥

    द्यौर् वः पिता पृथिवी माता सोमो भ्रातादितिः स्वसा |
    अदृष्टा विश्वदृष्टास् तिष्ठतेलयता सु कम् ||

    dyáurvaḥ pitā́ pṛthivī́ mātā́ sómo bhrā́tā́ditiḥ svásā ǀ
    ádṛṣṭā víśvadṛṣṭāstíṣṭhateḷáyatā sú kam ǁ

    dyaur vaḥ pitā pṛthivī mātā somo bhrātāditiḥ svasā |
    adṛṣṭā viśvadṛṣṭās tiṣṭhatelayatā su kam ||

    द्यौः । वः॒ । पि॒ता । पृ॒थि॒वी । मा॒ता । सोमः॑ । भ्राता॑ । अदि॑तिः । स्वसा॑ ।
    अदृ॑ष्टाः । विश्व॑ऽदृष्टाः । तिष्ठ॑त । इ॒ळय॑त । सु । क॒म् ॥

    द्यौः । वः । पिता । पृथिवी । माता । सोमः । भ्राता । अदितिः । स्वसा ।
    अदृष्टाः । विश्वऽदृष्टाः । तिष्ठत । इळयत । सु । कम् ॥

    dyáuḥ ǀ vaḥ ǀ pitā́ ǀ pṛthivī́ ǀ mātā́ ǀ sómaḥ ǀ bhrā́tā ǀ áditiḥ ǀ svásā ǀ
    ádṛṣṭāḥ ǀ víśva-dṛṣṭāḥ ǀ tíṣṭhata ǀ iḷáyata ǀ sú ǀ kam ǁ

    dyauḥ ǀ vaḥ ǀ pitā ǀ pṛthivī ǀ mātā ǀ somaḥ ǀ bhrātā ǀ aditiḥ ǀ svasā ǀ
    adṛṣṭāḥ ǀ viśva-dṛṣṭāḥ ǀ tiṣṭhata ǀ iḷayata ǀ su ǀ kam ǁ

    1.191.6 Aṣṭaka 2.5.15.1Anuvāka 1.24.105

  7. Ṛk 7

    ये अंस्या॒ ये अंग्याः॑ सू॒चीका॒ ये प्र॑कंक॒ताः ।
    अदृ॑ष्टाः॒ किं च॒नेह वः॒ सर्वे॑ सा॒कं नि ज॑स्यत ॥

    ये अंस्या ये अङ्ग्याः सूचीका ये प्रकङ्कताः |
    अदृष्टाः किं चनेह वः सर्वे साकं नि जस्यत ||

    yé áṃsyā yé áṅgyāḥ sūcī́kā yé prakaṅkatā́ḥ ǀ
    ádṛṣṭāḥ kím canéhá vaḥ sárve sākám ní jasyata ǁ

    ye aṃsyā ye aṅgyāḥ sūcīkā ye prakaṅkatāḥ |
    adṛṣṭāḥ kiṃ caneha vaḥ sarve sākaṃ ni jasyata ||

    ये । अंस्याः॑ । ये । अङ्ग्याः॑ । सू॒चीकाः॑ । ये । प्र॒ऽक॒ङ्क॒ताः ।
    अदृ॑ष्टाः । किम् । च॒न । इ॒ह । वः॒ । सर्वे॑ । सा॒कम् । नि । ज॒स्य॒त॒ ॥

    ये । अंस्याः । ये । अङ्ग्याः । सूचीकाः । ये । प्रऽकङ्कताः ।
    अदृष्टाः । किम् । चन । इह । वः । सर्वे । साकम् । नि । जस्यत ॥

    yé ǀ áṃsyāḥ ǀ yé ǀ áṅgyāḥ ǀ sūcī́kāḥ ǀ yé ǀ pra-kaṅkatā́ḥ ǀ
    ádṛṣṭāḥ ǀ kím ǀ caná ǀ ihá ǀ vaḥ ǀ sárve ǀ sākám ǀ ní ǀ jasyata ǁ

    ye ǀ aṃsyāḥ ǀ ye ǀ aṅgyāḥ ǀ sūcīkāḥ ǀ ye ǀ pra-kaṅkatāḥ ǀ
    adṛṣṭāḥ ǀ kim ǀ cana ǀ iha ǀ vaḥ ǀ sarve ǀ sākam ǀ ni ǀ jasyata ǁ

    1.191.7 Aṣṭaka 2.5.15.2Anuvāka 1.24.106

  8. Ṛk 8

    उत्पु॒रस्ता॒त्सूर्य॑ एति वि॒श्वदृ॑ष्टो अदृष्ट॒हा ।
    अ॒दृष्टा॒न्त्सर्वां॑जं॒भय॒न्त्सर्वा॑श्च यातुधा॒न्यः॑ ॥

    उत् पुरस्तात् सूर्य एति विश्वदृष्टो अदृष्टहा |
    अदृष्टान् सर्वाञ् जम्भयन् सर्वाश् च यातुधान्यः ||

    útpurástātsū́rya eti viśvádṛṣṭo adṛṣṭahā́ ǀ
    adṛ́ṣṭāntsárvāñjambháyantsárvāśca yātudhānyáḥ ǁ

    ut purastāt sūrya eti viśvadṛṣṭo adṛṣṭahā |
    adṛṣṭān sarvāñ jambhayan sarvāś ca yātudhānyaḥ ||

    उत् । पु॒रस्ता॑त् । सूर्यः॑ । ए॒ति॒ । वि॒श्वऽदृ॑ष्टः । अ॒दृ॒ष्ट॒ऽहा ।
    अ॒दृष्टा॑न् । सर्वा॑न् । ज॒म्भय॑न् । सर्वाः॑ । च॒ । या॒तु॒ऽधा॒न्यः॑ ॥

    उत् । पुरस्तात् । सूर्यः । एति । विश्वऽदृष्टः । अदृष्टऽहा ।
    अदृष्टान् । सर्वान् । जम्भयन् । सर्वाः । च । यातुऽधान्यः ॥

    út ǀ purástāt ǀ sū́ryaḥ ǀ eti ǀ viśvá-dṛṣṭaḥ ǀ adṛṣṭa-hā́ ǀ
    adṛ́ṣṭān ǀ sárvān ǀ jambháyan ǀ sárvāḥ ǀ ca ǀ yātu-dhānyáḥ ǁ

    ut ǀ purastāt ǀ sūryaḥ ǀ eti ǀ viśva-dṛṣṭaḥ ǀ adṛṣṭa-hā ǀ
    adṛṣṭān ǀ sarvān ǀ jambhayan ǀ sarvāḥ ǀ ca ǀ yātu-dhānyaḥ ǁ

    1.191.8 Aṣṭaka 2.5.15.3Anuvāka 1.24.107

  9. Ṛk 9

    उद॑पप्तद॒सौ सूर्यः॑ पु॒रु विश्वा॑नि॒ जूर्व॑न् ।
    आ॒दि॒त्यः पर्व॑तेभ्यो वि॒श्वदृ॑ष्टो अदृष्ट॒हा ॥

    उद् अपप्तद् असौ सूर्यः पुरु विश्वानि जूर्वन् |
    आदित्यः पर्वतेभ्यो विश्वदृष्टो अदृष्टहा ||

    údapaptadasáu sū́ryaḥ purú víśvāni jū́rvan ǀ
    ādityáḥ párvatebhyo viśvádṛṣṭo adṛṣṭahā́ ǁ

    ud apaptad asau sūryaḥ puru viśvāni jūrvan |
    ādityaḥ parvatebhyo viśvadṛṣṭo adṛṣṭahā ||

    उत् । अ॒प॒प्त॒त् । अ॒सौ । सूर्यः॑ । पु॒रु । विश्वा॑नि । जूर्व॑न् ।
    आ॒दि॒त्यः । पर्व॑तेभ्यः । वि॒श्वऽदृ॑ष्टः । अ॒दृ॒ष्ट॒ऽहा ॥

    उत् । अपप्तत् । असौ । सूर्यः । पुरु । विश्वानि । जूर्वन् ।
    आदित्यः । पर्वतेभ्यः । विश्वऽदृष्टः । अदृष्टऽहा ॥

    út ǀ apaptat ǀ asáu ǀ sū́ryaḥ ǀ purú ǀ víśvāni ǀ jū́rvan ǀ
    ādityáḥ ǀ párvatebhyaḥ ǀ viśvá-dṛṣṭaḥ ǀ adṛṣṭa-hā́ ǁ

    ut ǀ apaptat ǀ asau ǀ sūryaḥ ǀ puru ǀ viśvāni ǀ jūrvan ǀ
    ādityaḥ ǀ parvatebhyaḥ ǀ viśva-dṛṣṭaḥ ǀ adṛṣṭa-hā ǁ

    1.191.9 Aṣṭaka 2.5.15.4Anuvāka 1.24.108

  10. Ṛk 10

    सूर्ये॑ वि॒षमा स॑जामि॒ दृतिं॒ सुरा॑वतो गृ॒हे ।
    सो चि॒न्नु न म॑राति॒ नो व॒यं म॑रामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥

    सूर्ये विषम् आ सजामि दृतिं सुरावतो गृहे |
    सो चिन् नु न मराति नो वयम् मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ||

    sū́rye viṣámā́ sajāmi dṛ́tim súrāvato gṛhé ǀ
    só cinnú ná marāti nó vayám marāmāré asya yójanam hariṣṭhā́ madhu tvā madhulā́ cakāra ǁ

    sūrye viṣam ā sajāmi dṛtiṃ surāvato gṛhe |
    so cin nu na marāti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra ||

    सूर्ये॑ । वि॒षम् । आ । स॒जा॒मि॒ । दृति॑म् । सुरा॑ऽवतः । गृ॒हे ।
    सः । चि॒त् । नु । न । म॒रा॒ति॒ । नो इति॑ । व॒यम् । म॒रा॒म॒ । आ॒रे । अ॒स्य॒ । योज॑नम् । ह॒रि॒ऽस्थाः । मधु॑ । त्वा॒ । म॒धु॒ला । च॒का॒र॒ ॥

    सूर्ये । विषम् । आ । सजामि । दृतिम् । सुराऽवतः । गृहे ।
    सः । चित् । नु । न । मराति । नो इति । वयम् । मराम । आरे । अस्य । योजनम् । हरिऽस्थाः । मधु । त्वा । मधुला । चकार ॥

    sū́rye ǀ viṣám ǀ ā́ ǀ sajāmi ǀ dṛ́tim ǀ súrā-vataḥ ǀ gṛhé ǀ
    sáḥ ǀ cit ǀ nú ǀ ná ǀ marāti ǀ nó íti ǀ vayám ǀ marāma ǀ āré ǀ asya ǀ yójanam ǀ hari-sthā́ḥ ǀ mádhu ǀ tvā ǀ madhulā́ ǀ cakāra ǁ

    sūrye ǀ viṣam ǀ ā ǀ sajāmi ǀ dṛtim ǀ surā-vataḥ ǀ gṛhe ǀ
    saḥ ǀ cit ǀ nu ǀ na ǀ marāti ǀ no iti ǀ vayam ǀ marāma ǀ āre ǀ asya ǀ yojanam ǀ hari-sthāḥ ǀ madhu ǀ tvā ǀ madhulā ǀ cakāra ǁ

    1.191.10 Aṣṭaka 2.5.15.5Anuvāka 1.24.109

  11. Ṛk 11

    इ॒य॒त्ति॒का श॑कुंति॒का स॒का ज॑घास ते वि॒षं ।
    सो चि॒न्नु न म॑राति॒ नो व॒यं म॑रामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥

    इयत्तिका शकुन्तिका सका जघास ते विषम् |
    सो चिन् नु न मराति नो वयम् मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ||

    iyattikā́ śakuntikā́ sakā́ jaghāsa te viṣám ǀ
    só cinnú ná marāti nó vayám marāmāré asya yójanam hariṣṭhā́ madhu tvā madhulā́ cakāra ǁ

    iyattikā śakuntikā sakā jaghāsa te viṣam |
    so cin nu na marāti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra ||

    इ॒य॒त्ति॒का । श॒कु॒न्ति॒का । स॒का । ज॒घा॒स॒ । ते॒ । वि॒षम् ।
    सो इति॑ । चि॒त् । नु । न । म॒रा॒ति॒ । नो इति॑ । व॒यम् । म॒रा॒म॒ । आ॒रे । अ॒स्य॒ । योज॑नम् । ह॒रि॒ऽस्थाः । मधु॑ । त्वा॒ । म॒धु॒ला । च॒का॒र॒ ॥

    इयत्तिका । शकुन्तिका । सका । जघास । ते । विषम् ।
    सो इति । चित् । नु । न । मराति । नो इति । वयम् । मराम । आरे । अस्य । योजनम् । हरिऽस्थाः । मधु । त्वा । मधुला । चकार ॥

    iyattikā́ ǀ śakuntikā́ ǀ sakā́ ǀ jaghāsa ǀ te ǀ viṣám ǀ
    só íti ǀ cit ǀ nú ǀ ná ǀ marāti ǀ nó íti ǀ vayám ǀ marāma ǀ āré ǀ asya ǀ yójanam ǀ hari-sthā́ḥ ǀ mádhu ǀ tvā ǀ madhulā́ ǀ cakāra ǁ

    iyattikā ǀ śakuntikā ǀ sakā ǀ jaghāsa ǀ te ǀ viṣam ǀ
    so iti ǀ cit ǀ nu ǀ na ǀ marāti ǀ no iti ǀ vayam ǀ marāma ǀ āre ǀ asya ǀ yojanam ǀ hari-sthāḥ ǀ madhu ǀ tvā ǀ madhulā ǀ cakāra ǁ

    1.191.11 Aṣṭaka 2.5.16.1Anuvāka 1.24.110

  12. Ṛk 12

    त्रिः स॒प्त वि॑ष्पुलिंग॒का वि॒षस्य॒ पुष्य॑मक्षन् ।
    ताश्चि॒न्नु न म॑रंति॒ नो व॒यं म॑रामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥

    त्रिः सप्त विष्पुलिङ्गका विषस्य पुष्यम् अक्षन् |
    ताश् चिन् नु न मरन्ति नो वयम् मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ||

    tríḥ saptá viṣpuliṅgakā́ viṣásya púṣyamakṣan ǀ
    tā́ścinnú ná maranti nó vayám marāmāré asya yójanam hariṣṭhā́ mádhu tvā madhulā́ cakāra ǁ

    triḥ sapta viṣpuliṅgakā viṣasya puṣyam akṣan |
    tāś cin nu na maranti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra ||

    त्रिः । स॒प्त । वि॒ष्पु॒लि॒ङ्ग॒काः । वि॒षस्य॑ । पुष्य॑म् । अ॒क्ष॒न् ।
    ताः । चि॒त् । नु । न । म॒र॒न्ति॒ । नो इति॑ । व॒यम् । म॒रा॒म॒ । आ॒रे । अ॒स्य॒ । योज॑नम् । ह॒रि॒ऽस्थाः । मधु॑ । त्वा॒ । म॒धु॒ला । च॒का॒र॒ ॥

    त्रिः । सप्त । विष्पुलिङ्गकाः । विषस्य । पुष्यम् । अक्षन् ।
    ताः । चित् । नु । न । मरन्ति । नो इति । वयम् । मराम । आरे । अस्य । योजनम् । हरिऽस्थाः । मधु । त्वा । मधुला । चकार ॥

    tríḥ ǀ saptá ǀ viṣpuliṅgakā́ḥ ǀ viṣásya ǀ púṣyam ǀ akṣan ǀ
    tā́ḥ ǀ cit ǀ nú ǀ ná ǀ maranti ǀ nó íti ǀ vayám ǀ marāma ǀ āré ǀ asya ǀ yójanam ǀ hari-sthā́ḥ ǀ mádhu ǀ tvā ǀ madhulā́ ǀ cakāra ǁ

    triḥ ǀ sapta ǀ viṣpuliṅgakāḥ ǀ viṣasya ǀ puṣyam ǀ akṣan ǀ
    tāḥ ǀ cit ǀ nu ǀ na ǀ maranti ǀ no iti ǀ vayam ǀ marāma ǀ āre ǀ asya ǀ yojanam ǀ hari-sthāḥ ǀ madhu ǀ tvā ǀ madhulā ǀ cakāra ǁ

    1.191.12 Aṣṭaka 2.5.16.2Anuvāka 1.24.111

  13. Ṛk 13

    न॒वा॒नां न॑वती॒नां वि॒षस्य॒ रोपु॑षीणां ।
    सर्वा॑सामग्रभं॒ नामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥

    नवानां नवतीनां विषस्य रोपुषीणाम् |
    सर्वासाम् अग्रभं नामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ||

    navānā́m navatīnā́m viṣásya rópuṣīṇām ǀ
    sárvāsāmagrabham nā́māré asya yójanam hariṣṭhā́ mádhu tvā madhulā́ cakāra ǁ

    navānāṃ navatīnāṃ viṣasya ropuṣīṇām |
    sarvāsām agrabhaṃ nāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra ||

    न॒वा॒नाम् । न॒व॒ती॒नाम् । वि॒षस्य॑ । रोपु॑षीणाम् ।
    सर्वा॑साम् । अ॒ग्र॒भ॒म् । नाम॑ । आ॒रे । अ॒स्य॒ । योज॑नम् । ह॒रि॒ऽस्थाः । मधु॑ । त्वा॒ । म॒धु॒ला । च॒का॒र॒ ॥

    नवानाम् । नवतीनाम् । विषस्य । रोपुषीणाम् ।
    सर्वासाम् । अग्रभम् । नाम । आरे । अस्य । योजनम् । हरिऽस्थाः । मधु । त्वा । मधुला । चकार ॥

    navānā́m ǀ navatīnā́m ǀ viṣásya ǀ rópuṣīṇām ǀ
    sárvāsām ǀ agrabham ǀ nā́ma ǀ āré ǀ asya ǀ yójanam ǀ hari-sthā́ḥ ǀ mádhu ǀ tvā ǀ madhulā́ ǀ cakāra ǁ

    navānām ǀ navatīnām ǀ viṣasya ǀ ropuṣīṇām ǀ
    sarvāsām ǀ agrabham ǀ nāma ǀ āre ǀ asya ǀ yojanam ǀ hari-sthāḥ ǀ madhu ǀ tvā ǀ madhulā ǀ cakāra ǁ

    1.191.13 Aṣṭaka 2.5.16.3Anuvāka 1.24.112

  14. Ṛk 14

    त्रिः स॒प्त म॑यू॒र्यः॑ स॒प्त स्वसा॑रो अ॒ग्रुवः॑ ।
    तास्ते॑ वि॒षं वि ज॑भ्रिर उद॒कं कुं॒भिनी॑रिव ॥

    त्रिः सप्त मयूर्यः सप्त स्वसारो अग्रुवः |
    तास् ते विषं वि जभ्रिर उदकं कुम्भिनीर् इव ||

    tríḥ saptá mayūryáḥ saptá svásāro agrúvaḥ ǀ
    tā́ste viṣám ví jabhrira udakám kumbhínīriva ǁ

    triḥ sapta mayūryaḥ sapta svasāro agruvaḥ |
    tās te viṣaṃ vi jabhrira udakaṃ kumbhinīr iva ||

    त्रिः । स॒प्त । म॒यू॒र्यः॑ । स॒प्त । स्वसा॑रः । अ॒ग्रुवः॑ ।
    ताः । ते॒ । वि॒षम् । वि । ज॒भ्रि॒रे॒ । उ॒द॒कम् । कु॒म्भिनीः॑ऽइव ॥

    त्रिः । सप्त । मयूर्यः । सप्त । स्वसारः । अग्रुवः ।
    ताः । ते । विषम् । वि । जभ्रिरे । उदकम् । कुम्भिनीःऽइव ॥

    tríḥ ǀ saptá ǀ mayūryáḥ ǀ saptá ǀ svásāraḥ ǀ agrúvaḥ ǀ
    tā́ḥ ǀ te ǀ viṣám ǀ ví ǀ jabhrire ǀ udakám ǀ kumbhínīḥ-iva ǁ

    triḥ ǀ sapta ǀ mayūryaḥ ǀ sapta ǀ svasāraḥ ǀ agruvaḥ ǀ
    tāḥ ǀ te ǀ viṣam ǀ vi ǀ jabhrire ǀ udakam ǀ kumbhinīḥ-iva ǁ

    1.191.14 Aṣṭaka 2.5.16.4Anuvāka 1.24.113

  15. Ṛk 15

    इ॒य॒त्त॒कः कु॑षुंभ॒कस्त॒कं भि॑न॒द्म्यश्म॑ना ।
    ततो॑ वि॒षं प्र वा॑वृते॒ परा॑ची॒रनु॑ सं॒वतः॑ ॥

    इयत्तकः कुषुम्भकस् तकम् भिनद्म्य् अश्मना |
    ततो विषम् प्र वावृते पराचीर् अनु संवतः ||

    iyattakáḥ kuṣumbhakástakám bhinadmyáśmanā ǀ
    táto viṣám prá vāvṛte párācīránu saṃvátaḥ ǁ

    iyattakaḥ kuṣumbhakas takam bhinadmy aśmanā |
    tato viṣam pra vāvṛte parācīr anu saṃvataḥ ||

    इ॒य॒त्त॒कः । कु॒षु॒म्भ॒कः । त॒कम् । भि॒न॒द्मि॒ । अश्म॑ना ।
    ततः॑ । वि॒षम् । प्र । व॒वृ॒ते॒ । परा॑चीः । अनु॑ । स॒म्ऽवतः॑ ॥

    इयत्तकः । कुषुम्भकः । तकम् । भिनद्मि । अश्मना ।
    ततः । विषम् । प्र । ववृते । पराचीः । अनु । सम्ऽवतः ॥

    iyattakáḥ ǀ kuṣumbhakáḥ ǀ takám ǀ bhinadmi ǀ áśmanā ǀ
    tátaḥ ǀ viṣám ǀ prá ǀ vavṛte ǀ párācīḥ ǀ ánu ǀ sam-vátaḥ ǁ

    iyattakaḥ ǀ kuṣumbhakaḥ ǀ takam ǀ bhinadmi ǀ aśmanā ǀ
    tataḥ ǀ viṣam ǀ pra ǀ vavṛte ǀ parācīḥ ǀ anu ǀ sam-vataḥ ǁ

    1.191.15 Aṣṭaka 2.5.16.5Anuvāka 1.24.114

  16. Ṛk 16

    कु॒षुं॒भ॒कस्तद॑ब्रवीद्गि॒रेः प्र॑वर्तमान॒कः ।
    वृश्चि॑कस्यार॒सं वि॒षम॑र॒सं वृ॑श्चिक ते वि॒षं ॥

    कुषुम्भकस् तद् अब्रवीद् गिरेः प्रवर्तमानकः |
    वृश्चिकस्यारसं विषम् अरसं वृश्चिक ते विषम् ||

    kuṣumbhakástádabravīdgiréḥ pravartamānakáḥ ǀ
    vṛ́ścikasyārasám viṣámarasám vṛścika te viṣám ǁ

    kuṣumbhakas tad abravīd gireḥ pravartamānakaḥ |
    vṛścikasyārasaṃ viṣam arasaṃ vṛścika te viṣam ||

    कु॒षु॒म्भ॒कः । तत् । अ॒ब्र॒वी॒त् । गि॒रेः । प्र॒ऽव॒र्त॒मा॒न॒कः ।
    वृश्चि॑कस्य । अ॒र॒सम् । वि॒षम् । अ॒र॒सम् । वृ॒श्चि॒क॒ । ते॒ । वि॒षम् ॥

    कुषुम्भकः । तत् । अब्रवीत् । गिरेः । प्रऽवर्तमानकः ।
    वृश्चिकस्य । अरसम् । विषम् । अरसम् । वृश्चिक । ते । विषम् ॥

    kuṣumbhakáḥ ǀ tát ǀ abravīt ǀ giréḥ ǀ pra-vartamānakáḥ ǀ
    vṛ́ścikasya ǀ arasám ǀ viṣám ǀ arasám ǀ vṛścika ǀ te ǀ viṣám ǁ

    kuṣumbhakaḥ ǀ tat ǀ abravīt ǀ gireḥ ǀ pra-vartamānakaḥ ǀ
    vṛścikasya ǀ arasam ǀ viṣam ǀ arasam ǀ vṛścika ǀ te ǀ viṣam ǁ

    1.191.16 Aṣṭaka 2.5.16.6Anuvāka 1.24.115

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.191 · Aboṣadhisūryāḥ

Interpretations

Ralph T. H. Griffith

Ṛk 1

VENOMOUS, slightly venomous, or venomous aquatic worm,— Both creatures, stinging, unobserved, with poison have infected me.

Ṛk 2

Coming, it kills the unobserved; it kills them as it goes away, It kills them as it drives them off, and bruising bruises them to death.

Ṛk 3

Sara grass, Darbha, Kuśara, and Sairya, Muñja, Vīraṇa, Where all these creatures dwell unseen, with poison have infected me.

Ṛk 4

The cows had settled in their stalls, the beasts of prey had sought their lairs, Extinguished were the lights of men, when things unseen infected me.

Ṛk 5

Or these, these reptiles, are observed, like lurking thieves at evening time. Seers of all, themselves unseen: be therefore very vigilant.

Ṛk 6

Heaven is your Sire, your Mother Earth, Soma your Brother, Aditi Your Sister: seeing all, unseen, keep still and dwell ye happily.

Ṛk 7

Biters of shoulder or of limb, with needle-stings, most venomous, Unseen, whatever ye may be, vanish together and be gone.

Ṛk 8

Slayer of things unseen, the Sun, beheld of all, mounts, eastward, up, Consuming all that are not seen, and evil spirits of the night.

Ṛk 9

There hath the Sun-God mounted up, who scorches much and everything. Even the Āditya from the hills, all-seen, destroying things unseen.

Ṛk 10

I hang the poison in the Sun, a wine-skin in a vintner's house, He will not die, nor shall we die: his path is far: he whom Bay Horses bear hath turned thee to sweet meath.

Ṛk 11

This little bird, so very small, hath swallowed all thy poison up. She will not die, nor shall we die: his path is far: he whom Bay Horses bear hath turned thee to sweet meath.

Ṛk 12

The three-times-seven bright sparks of fire have swallowed up the poison's strength. They will not die, nor shall we die: his path is far: he whom Bay Horses bear hath turned thee to sweet meath.

Ṛk 13

Of ninety rivers and of nine with power to stay the venom's course,— The names of all I have secured: his path is far: he whom Bay Horses bear hath turned thee to sweet meath.

Ṛk 14

So have the peahens three-times-seven, so have the maiden Sisters Seven Carried thy venom far away, as girls bear water in their jars.

Ṛk 15

The poison-insect is so small; I crush the creature with a stone. I turn the poison hence away, departed unto distant lands.