Ṛgveda · Maṇḍala 1 · Sūkta 191
Ṛk 1.191.8
Saṃhitā
उत्पु॒रस्ता॒त्सूर्य॑ एति वि॒श्वदृ॑ष्टो अदृष्ट॒हा ।
अ॒दृष्टा॒न्त्सर्वां॑जं॒भय॒न्त्सर्वा॑श्च यातुधा॒न्यः॑ ॥
उत् पुरस्तात् सूर्य एति विश्वदृष्टो अदृष्टहा |
अदृष्टान् सर्वाञ् जम्भयन् सर्वाश् च यातुधान्यः ||
útpurástātsū́rya eti viśvádṛṣṭo adṛṣṭahā́ ǀ
adṛ́ṣṭāntsárvāñjambháyantsárvāśca yātudhānyáḥ ǁ
ut purastāt sūrya eti viśvadṛṣṭo adṛṣṭahā |
adṛṣṭān sarvāñ jambhayan sarvāś ca yātudhānyaḥ ||
Padapāṭha
उत् । पु॒रस्ता॑त् । सूर्यः॑ । ए॒ति॒ । वि॒श्वऽदृ॑ष्टः । अ॒दृ॒ष्ट॒ऽहा ।
अ॒दृष्टा॑न् । सर्वा॑न् । ज॒म्भय॑न् । सर्वाः॑ । च॒ । या॒तु॒ऽधा॒न्यः॑ ॥
उत् । पुरस्तात् । सूर्यः । एति । विश्वऽदृष्टः । अदृष्टऽहा ।
अदृष्टान् । सर्वान् । जम्भयन् । सर्वाः । च । यातुऽधान्यः ॥
út ǀ purástāt ǀ sū́ryaḥ ǀ eti ǀ viśvá-dṛṣṭaḥ ǀ adṛṣṭa-hā́ ǀ
adṛ́ṣṭān ǀ sárvān ǀ jambháyan ǀ sárvāḥ ǀ ca ǀ yātu-dhānyáḥ ǁ
ut ǀ purastāt ǀ sūryaḥ ǀ eti ǀ viśva-dṛṣṭaḥ ǀ adṛṣṭa-hā ǀ
adṛṣṭān ǀ sarvān ǀ jambhayan ǀ sarvāḥ ǀ ca ǀ yātu-dhānyaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.191.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.5.15.03
- Maṇḍala · Anuvāka · Ṛk
- 1.24.107
- Devatā देवता
- Aboṣadhisūryāḥ
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Anuṣṭubh, Mahāpaṅkti, Mahābṛhatī
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.